8-2-1 पूर्वत्र असिद्धम् पदस्य
index: 8.2.1 sutra: पूर्वत्रासिद्धम्
पूर्वत्र असिद्धम्
index: 8.2.1 sutra: पूर्वत्रासिद्धम्
सपादसप्ताध्यायीम् प्रति त्रिपादी असिद्धा वर्तते । त्रिपाद्याम् अपि पूर्वम् शास्त्रम् प्रति परम् शास्त्रम् असिद्धम् वर्तते ।
index: 8.2.1 sutra: पूर्वत्रासिद्धम्
The rules defined in त्रिपादी are non existent with-respect-to the rules of सपादसप्ताध्यायी. Even within त्रिपादी, the later rules are non existent with-respect-to the former rules.
index: 8.2.1 sutra: पूर्वत्रासिद्धम्
पूर्वत्र असिद्धम् इत्यधिकार आध्यायपरिसमाप्तेः। यदित ऊर्ध्वम् अनुक्रमिष्यामः पूर्वत्रासिद्धम् इत्येवं तद् वेदितव्यम्। तत्र येयं सपादसप्ताध्यायी अनुक्रान्ता, एतस्याम् अयं पादोनोऽध्यायोऽसिद्धो भवति। इत उत्तरं च उत्तर उत्तरो योगः पूर्वत्र पूर्वत्र असिद्धो भवति असिद्धवद् भवति। सिद्धकार्यम् न करोति इत्यर्थः। तद् एतद् असिद्धत्ववचनम् आदेशलक्षणप्रतिषेधार्थम्, उत्सर्गलक्षणभावार्थं च। अस्मा उद्धर, द्वा अत्र, द्वा आनय, असा आदित्यः इत्यत्र व्यलोपस्यासिद्धत्वात्, आद् गुणः 6.1.87 इति, अकः सवर्णे दीर्घः 6.1.101 इति च न भवति। अमुष्मै, अमुष्मात्, अमुष्मिन्निति उत्वस्य असिद्धत्वात् स्मायादयो भवन्ति।
शुष्किका शुष्कजङ्घा च क्षामिमानौजढत्तथा।
मतोर्वत्त्वे झलां जश्त्वे गुडलिण्मान् निदर्शनम्।
शुष्किका इत्यत्र शुषः कः 8.2.51 इत्यस्य असिद्धत्वाद् उदीचामातः स्थाने यकपूर्वायाः 7.3.46 इत्येतन्न भवति। शुष्कजङ्घा इति न कोपधायाः 6.3.37 इति पुंवद्भावप्रतिषेधो न भवति। क्षामिमान् इति क्षामस्य अपत्यं क्षामिः, क्षामो वा अस्य अस्तीति क्षामी, क्षामिः क्षामी वा यस्य अस्तीति क्षामिमान्। क्षायो मः इत्यस्य असिद्धत्वान्मादुपधायाश्चेति वत्वं न भवति। औजढदिति। वहेर्निष्ठायामूढः, तमाख्यातीति णिच्, तदन्ताल् लुङ्, चङि 6.1.11 इति द्विर्वचने कर्तव्ये ढत्वधत्वष्टुत्वढलोपानाम् असिद्धत्वाण् णौ च यः टिलोपः, तस्य स्थानिवद्भावात् थ इत्येतद् द्विरुच्यते। अनग्लोपे इति प्रतिषेधात् सन्वदित्त्वं नास्ति, तेन औजढदिति भवति। औजिढदित्येतत् तु क्तिन्नन्तस्य उढिशब्दस्य भवति। गुडलिण्मानिति गुडलिहोऽस्य सन्तीति मतुप्, तत्र ढत्वजश्त्वयोरसिद्धत्वात् झयः 8.2.10 इति वत्वं न भवति। येऽत्र षष्ठीनिर्देशाः, सप्तमीनिर्देशाः, पञ्चमीनिर्देशाश्च, तेषां षष्ठी स्थानेयोगा 1.1.49, तस्मिन्निति निर्दिष्टे पूर्वस्य 1.1.60, तस्मादित्युत्तरस्य इति च कर्तव्ये न असिद्धत्वं भवति, कार्यकालं हि संज्ञापरिभाषम् इति पूर्वत्वम् आसां परिभाषाणां नास्तीति। विप्रतिषेधे परम् इत्येषा च परिभाषा येन पूर्वेण लक्षणेन सह स्पर्धते, परं लक्षणं तत्प्रति तस्य असिद्धत्वान्न प्रवर्तते। तथा च विस्फोर्यम्, अगोर्यम् इति गुणः परेण हलि च 8.2.77 इति दीर्घत्वेन न बाध्यते। अपवादस्य तु परस्य अपि उत्सर्गे कर्तव्ये वचनप्रामण्याद् असिद्धत्वं न भवति। तेन दोग्धा, दोग्धुम् इत्यत्र घत्वस्य असिद्धत्वाद् हो ढः 8.2.31 इति न भवति।
index: 8.2.1 sutra: पूर्वत्रासिद्धम्
अधिकारोऽयम् । तेन सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा त्रिपाद्यमपि पूर्वं प्रति परं शास्त्रमसिद्धं स्यात् । बाह्यप्रयत्नस्त्वेकादशधा - विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्तः स्वरितश्चेति ॥ खयां यमाः खयः ≍क≍पौ विसर्गः शर एव च । एते श्वसानुप्रदाना अघोषाश्च विवृण्वते ॥ कण्ठमन्ये तु घोषाः स्युः संवृता नादभागिनः । अयुग्मा वर्गयमगा यणश्चाल्पासवः स्मृताः ॥ वर्गेष्वाद्यानां चतुर्णां पञ्चमे परे मध्ये यमो नाम पूर्वसदृशो वर्णः प्रातिशाख्ये प्रसिद्धः । पलिक्क्नीः । चख्ख्नतुः । अग्ग्निः । घ्घ्नन्तीत्यत्र क्रमेण कखगघेभ्यः परे तत्सदृशा एव यमाः । तत्र वर्गाणां प्रथमद्वितीयाः - खयस्तथा तेषामेव यमाः जिह्वामूलीयोपध्मानीयौ विसर्गः शषसाश्चेत्येतेषां विवारः श्वासोऽघोषश्च । अन्येषां तु संवारो नादो घोषश्च । वर्गाणां प्रथमतृतीयपञ्चमाः प्रथमतृतीययमौ यरलवाश्चाल्पप्राणाः । अन्ये महाप्राणा इत्यर्थः । बाह्यप्रयत्नाश्च यद्यपि सवर्णसंज्ञायामनुपयुक्तास्तथाप्यान्तरतम्यपरीक्षायामुपयोक्ष्यन्त इति बोध्यम् । कादयो मावसानाः स्पर्शाः । यरलवा अन्तस्थाः । शषसहा ऊष्माणः । अचः स्वराः । ≍क≍पावितीति कपाभ्यां प्रागर्धविसर्गसदृशौ जिह्वामूलीयोपध्मानीयौ । अं अः इत्यचः परावनुस्वारविसर्गौ । इति स्थानप्रयत्नविवेकः ॥ <!ऋलृवर्णयोर्मिथः सावर्ण्यं वाच्यम् !> (वार्तिकम्) ॥ अकारहकारयोरिकारशकारयोर्ऋकारषकारयोर्लृकारसकारयोश्च मिथः सावर्ण्ये प्राप्ते ॥
index: 8.2.1 sutra: पूर्वत्रासिद्धम्
सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम्। हर इह, हरयिह। विष्ण इह, विष्णविह॥
index: 8.2.1 sutra: पूर्वत्रासिद्धम्
अष्टाध्याय्याः इदम् अधिकारसूत्रम् । अयम् अधिकारः अस्मात् सूत्रात् आरभ्य अष्टाध्याय्याः अन्तिमं सूत्रम् यावत् प्रचलति । अस्मिन् अधिकारे विद्यमानानि सर्वाणि सूत्राणि पूर्वसूत्राणां कृते असिद्धानि (अमान्यानि / अविद्यमानानि) सन्ति — इति अस्य सूत्रस्य आशयः । This adhikaar dictates that every rule in this adhikaar is considered to be non-existent by the rules which precede that rule.
एतादृशं विधानं कृत्वा इदम् अधिकारसूत्रम् अष्टाध्यायीं द्वयोः भागयोः विभाजयति —
प्रकृतसूत्रात् सूत्रात् पूर्वम् विद्यमानानि यानि सूत्राणि, तेषाम् प्रथमः भागः । अस्मिन् भागे आदिस्थाः सप्त अध्यायाः, तथा च अष्टमाध्यायस्य प्रथमपादस्य सर्वाणि सूत्राणि वर्तन्ते । अयं भागः सपादसप्ताध्यायी नाम्ना ज्ञायते । सप्तानाम् अध्यायानां समाहारः सप्ताध्यायी; पादेन सह सप्ताध्यायी = सपादसप्ताध्यायी । अस्याः सपादसप्ताध्याय्याः कृते तस्याः अनन्तरम् (इत्युक्ते, अष्टमाध्यायस्य प्रथमपादात् अनन्तरम्) अष्टाध्याय्याम् किमपि न विद्यते । इत्युक्ते, सपादसप्ताध्याय्याः सूत्राणां कृते अष्टाध्याय्याः अन्तिमानाम् त्रयाणाम् पादानाम् अस्तित्वम् एव न वर्तते ।
प्रकृतसूत्रात् अनन्तरम् विद्यमानानि यानि सूत्राणि, तेषाम् द्वितीयः भागः । अस्मिन् भागे अष्टमाध्यायस्य अन्तिमानाम् त्रयाणाम् पादानाम् सर्वाणि सूत्राणि वर्तन्ते । अयं भागः त्रिपादी नाम्ना ज्ञायते । त्रयाणां पादानां समाहारः = त्रिपादी । अस्याः त्रिपाद्याः प्रत्येकं सूत्रस्य कृते तस्मात् अनन्तरम् अष्टाध्याय्याम् किमपि न विद्यते । इत्युक्ते, त्रिपाद्याः प्रत्येकं सूत्रस्य कृते 'अहमेव अष्टाध्याय्याः अन्तिमम् सूत्रम्' — इति भावः वर्तते ।
प्रकृतसूत्रेण उक्तस्य असिद्धत्त्वस्य अष्टाध्याय्याम् आहत्य चत्वारि प्रयोजनानि सन्ति —
त्रिपाद्याः अपेक्षया सपादसप्ताध्याय्याः सूत्राणाम् बलीयस्त्वम्
त्रिपाद्याम् परसूत्राणाम् अपेक्षया पूर्वसूत्राणाम् बलीयस्त्वम्
सपादसप्ताध्याय्याः सूत्रैः त्रिपाद्याः सूत्राणाम् अदर्शनम्
त्रिपाद्याः पूर्वसूत्रैः त्रिपाद्याः परसूत्राणाम् अदर्शनम्
एतानि सर्वाणि प्रयोजनानि सिद्धान्तकौमुद्याम् तु एकवाक्येन वर्णितानि सन्ति -
यत्र अष्टाध्याय्याम् द्वयोः सूत्रयोः युगपत् प्राप्तिः विद्यते, तत्र सामान्यतः विप्रतिषेधे परं कार्यम् 1.4.2 इति न्यायेन परसूत्रम् बलीयः भवति । परन्तु, यत्र सपादसप्ताध्याय्याः सूत्रस्य त्रिपादीसूत्रेण सह युगपत् प्राप्तिः भवति, तत्र सपादसप्ताध्याय्याः दृष्ट्या त्रिपादीसूत्रस्य असिद्धत्वात् प्रकियायाम् नित्यम् सपादसप्ताध्याय्याः सूत्रम् एव प्रवर्तते । इत्युक्ते, युगपत् प्राप्तौ सत्याम्, त्रिपादीसूत्राणाम् अपेक्षया सपादसप्ताध्याय्याः सूत्राणि एव बलीयांसि भवन्ति । त्रिपाद्याः सन्दर्भे विप्रतिषेधे परं कार्यम् 1.4.2 इति परिभाषा नैव प्रवर्तते, इति आशयः । अस्य द्वे उदाहरणे एतादृशे —
(i) अदस्-सर्वनाम्नः पुंलिङ्गे चतुर्थी-एकवचनस्य प्रक्रियायाम् सर्वनाम्नः स्मै 7.1.14 तथा च अदसोऽसेर्दादु दो मः 8.2.80 इति द्वयोः सूत्रयोः यदा युगपत् प्राप्तिः भवति, तदा सर्वनाम्नः स्मै 7.1.14 इति सूत्रम् यद्यपि पूर्वसूत्रम् अस्ति, तथापि तत् सपादसप्ताध्याय्याः सूत्रम् अस्ति इति कारणात् अदसोऽसेर्दादु दो मः 8.2.80 इत्यस्य त्रिपादीसूत्रस्य अपेक्षया प्राधान्येन प्रयुज्यते । प्रक्रिया इयम् —
अदस् + ङे [पुंलिङ्गे चतुर्थ्येकवचनस्य विवक्षायाम् स्वौजस्.. 4.1.2 इति ङे-प्रत्ययः]
→ अदअ + ए [त्यदादीनामः 7.2.102 इत्यनेन सकारस्य अकारादेशः]
→ अद + ए [अतो गुणे 6.1.97 इति पररूप-एकादेशः]
→ अद + स्मै [अत्र सर्वनाम्नः स्मै 7.1.14 इत्यनेन ङे-प्रत्ययस्य स्मै-आदेशः भवितुम् अर्हति । तस्मिन्नेव समये अदसोऽसेर्दादु दो मः 8.2.80 इत्यनेन 'अद' इत्यस्य 'अमु' इति आदेशः अपि सम्भवति । वस्तुतः अदसोऽसेर्दादु दो मः 8.2.80 इति अत्र परसूत्रम् अस्ति (नित्यसूत्रम् अपि अस्ति), अतः तस्यैव प्रयोगः प्राधान्येन भवेत् । परन्तु अदसोऽसेर्दादु दो मः 8.2.80 इति त्रिपादीसूत्रम् अस्ति, तत् सर्वनाम्नः स्मै 7.1.14 इत्यस्य कृते असिद्धम् वर्तते । अतः अस्यां स्थितौ अन्य-सूत्रस्य-अभावात् सर्वनाम्नः स्मै 7.1.14 इत्येव सूत्रम् अत्र प्रवर्तते । The sutra सर्वनाम्नः स्मै 7.1.14 does not recognize any competition and thus proceeds to show its effect.]
→ अमु + स्मै [इदानीम् अदसोऽसेर्दादु दो मः 8.2.80 इत्यनेन 'अद' इत्यस्य 'अमु'आदेशः भवति । यदि अयम् आदेशः पूर्वस्मिन् एव सोपाने अभविष्यत्, तर्हि अनदन्तम् अङ्गम् दृष्ट्वा सर्वनाम्नः स्मै 7.1.14 इत्यनेन स्मै-आदेशः न अभविष्यत् । ]
→ अमुष्मै [आदेशप्रत्यययोः 8.3.59 इति षत्वम्]
(ii) यस्मिन् धातौ अन्ते वकारः अस्ति तथा च उपधायाम् रेफः वर्तते, तस्य धातोः क्विप्-प्रत्यये परे राल्लोपः 6.4.21 इत्यनेन रेफात् परस्य वकारस्य लोपः, तथा च उपधायां च 8.2.77 इत्यनेन रेफात् पूर्वम् विद्यमानस्य स्वरस्य दीर्घः — इति द्वे कार्ये युगपत् प्रवर्तेते । अस्यां स्थितौ राल्लोपः 6.4.21 इति सूत्रम् यद्यपि पूर्वसूत्रम् अस्ति, तथापि तत् सपादसप्ताध्याय्याः सूत्रम् अस्ति इति कारणात् उपधायां च 8.2.77 इत्यस्य त्रिपादीसूत्रस्य अपेक्षया बलवत्त्वेन प्रयुज्यते । प्रक्रिया इयम् —
धुर्वीँ (हिंसायाम्, भ्वादिः, <{1.654}>)
→ धुर्व् [उपदेशेऽजनुनासिक इत् 1.3.2 इति ईँकारस्य इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः]
→ धुर्व् + क्विप् + औ [क्विप् च 3.2.76 इति क्विप्-प्रत्ययः । क्विप्-प्रत्ययः कृत्संज्ञकः अस्ति, अतः अस्य योजनेन कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकस्य निर्माणं भवति । अस्मात् पदनिर्माणार्थम् प्रथमाद्विवचनस्य औ-प्रत्ययः स्थाप्यते ।]
→ धुर्व् + ० + औ [क्विप्-प्रत्यये ककारपकारयोः इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, अतः सोऽपि लुप्यते । अवशिष्टस्य वकारस्य वेरपृक्तस्य 6.1.67 इत्यनेन लोपः भवति ।]
→ धुर् + औ [प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन लुप्त-प्रत्ययस्यनिमित्तकम् कार्यम् अवश्यम् भवितुम् अर्हति । अतः अत्र राल्लोपः 6.4.21 इत्यनेन रेफात् परस्य वकारस्य लोपः सम्भवति । अस्मिन् एव स्थले उपधायां च 8.2.77 इति रेफात् पूर्वम् विद्यमानस्य उकारस्य दीर्घः सम्भवति । अस्यां स्थितौ पूर्वत्रासिद्धम् 8.2.1 इत्यनेन सपादसप्ताध्यायीं प्रति त्रिपादी असिद्धा विद्यते, अतः अत्र त्रिपादीसूत्रस्य अपेक्षया सपादसप्ताध्यायीसूत्रस्यैव प्रयोगः भवति । इत्युक्ते, अत्र राल्लोपः 6.4.21 इत्यनेन रेफात् परस्य वकारस्य लोपः क्रियते । ]
→ धुरौ
यदि प्रक्रियायां कुत्रचित् द्वयोः त्रिपादीसूत्रयोः युगपत् प्राप्तिः सम्भवति, तर्हि तत्र पूर्वसूत्रस्य अपेक्षया परसूत्रम् असिद्धम् वर्तते, अतः त्रिपाद्याः पूर्वसूत्रस्यैव प्रयोगः करणीयः । इत्युक्ते, युगपत् प्राप्तौ सत्याम्, परत्रिपादीसूत्रस्य अपेक्षया पूर्वत्रिपादीसूत्रम् बलीयः भवति । अस्य द्वे उदाहरणे एतादृशे —
(i) भिद्-धातोः क्त-प्रत्ययस्य रूपसिद्धौ रदाभ्यां निष्ठातो नः पूर्वस्य च दः 8.2.42 इत्यनेन दकारस्य नकारादेशः, तथा च तस्मिन्नेव समये खरि च 8.4.55 इत्यनेन दकारस्य तकारादेशः - इत्येतयोः युगपत् प्राप्तिः अस्ति । अत्र नकारादेशस्य कृते तकारादेशः परत्वात् असिद्धः अस्ति, अतः अत्र नकारादेशः एव भवति । प्रक्रिया इयम् —
भिदिँर् (विदारणे, रुधादिः, <{7.002}>)
→ भिद् [<!इँर इत्संज्ञा वाच्या!> इति वार्त्तिकेन 'इँर्' इत्यस्य इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः]
→ भिद् + क्त [क्तक्तवतू निष्ठा 1.1.26 इति क्त-प्रत्ययः]
→ भिद् + त [लशक्वतद्धिते 1.3.8 इति ककारस्य इत्संज्ञा ।तस्य लोपः 1.3.9 इति लोपः]
→ भिन् + न [रदाभ्यां निष्ठातो नः पूर्वस्य च दः 8.2.42 इत्यनेन दकारस्य (तकारस्य च) नकारादेशः, तथा च खरि च 8.4.55 इत्यनेन दकारस्य तकारादेशः - इत्येतयोः युगपत् प्राप्तौ सत्याम्, पूर्वत्रासिद्धम् 8.2.1 इत्यनेन रदाभ्यां निष्ठातो नः पूर्वस्य च दः 8.2.42 इत्यस्य कृते खरि च 8.4.55 इति असिद्धं वर्तते, अतः अत्र रदाभ्यां निष्ठातो नः पूर्वस्य च दः 8.2.42 इत्यनेन नकारादेशः एव भवति ।]
→ भिन्न
(ii) 'विश्' इति प्रातिपदिकस्य अन्ते विद्यमानस्य शकारस्य तृतीयाद्विवचनस्य भ्याम्-प्रत्यये परे झलां जशोऽन्ते 8.2.39 इत्यनेन जश्त्वे जकारः सम्भवति । तस्मिन्नेव समये व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8.2.36 इत्यनेन शकारस्य षकारादेशः अपि भवितुम् अर्हति । अत्र षकारादेशस्य कृते जश्त्वम् परत्वात् असिद्धम् अस्ति, अतः अत्र अस्मिन् सोपाने षत्वम् एव प्रवर्तते । प्रक्रिया इयम् —
विश् + भ्याम् [तृतीयाद्विवचनस्य भ्याम्-प्रत्ययः । अस्मिन् प्रत्यये परे प्रकृतेः स्वादिष्वसर्वनामस्थाने 1.4.17 इत्यनेन पदसंज्ञा भवति ]
→ विष् + भ्याम् [अत्र झलां जशोऽन्ते 8.2.39 तथा व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8.2.36 इत्येतयोः युगपत् प्राप्तौ सत्याम् पूर्वत्रासिद्धम् 8.2.1 इत्यनेन षत्वस्य कृते जश्त्वस्य असिद्धत्वात् षत्वमेव प्रवर्तते ।]
→ विड् + भ्याम् [इदानीम् झलां जशोऽन्ते 8.2.39 इति जश्त्वे षकारस्य डकारादेशः भवति । ]
→ विड्भ्याम्
सपादसप्ताध्याय्याः कृते असिद्धत्वात् त्रिपादीसूत्राणि नैव दृश्यन्ते, अतः तैः कृतम् कार्यम् अपि स्वभावतः असिद्धम् एव भवति । अतः, त्रिपादीसूत्रैः यः आदेशः / आगमः / लोपः जायते, तस्य अदर्शनात्, तस्य आधारेण अग्रे सपादसप्ताध्याय्याः किमपि सूत्रं नैव प्रवर्तते । अस्य द्वे उदाहरणे एतादृशे —
(i) 'अर्जुन उवाच' इत्यत्र नकारोत्तरस्य सुँ-प्रत्ययस्य त्रिपादीसूत्रेण कृतः लोपः सपादसप्ताध्याय्याः कृते असिद्धः अस्ति, अतः लोपे कृते ततः आद्गुणः 6.1.87 इति गुण-एकादेशः न प्रवर्तते । प्रक्रिया इयम् —
अर्जुन सुँ उवाच [अर्जुन-शब्दात् प्रथमैकवचनस्य सुँ-प्रत्ययः । 'उवाच' इति शब्दस्य सिद्धेः अत्र न किञ्चन प्रयोजनम् अतः अयं शब्दः सिद्धः एव स्वीकृतः अस्ति ।]
→ अर्जुन रुँ उवाच [ससजुषो रुः 8.2.66 इति रुँत्वम् ।]
→ अर्जुन य् उवाच [भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इति रुँ-इत्यस्य यकारः]
→ अर्जुन उवाच [लोपः शाकल्यस्य 8.3.19 इति यकारलोपः । अयं यकारलोपः, तथा च पूर्वयोः सोपानयोः सिद्धौ रेफयकारौ - एतानि सर्वाणि कार्याणि त्रिपाद्याः सूत्रैः कृतानि सन्ति, अतः आद्गुणः 6.1.87 इति सपादसप्ताध्याय्याः सूत्रस्य दृष्ट्या तानि असिद्धानि (अवर्तमानानि) एव सन्ति । इत्युक्ते, आद्गुणः 6.1.87 इति सूत्रस्य दृष्ट्या अत्र 'अर्जुन स् उवाच' इत्येव स्थितिः वर्तते । अस्यां स्थितौ अत्र गुणैकादेशः अपि न सम्भवति । ]
(ii) 'शुष्का शाखा यस्य सः' इत्यत्र बहुव्रीहिसमासे कृते 'शुष्कशाखः' इति शब्दः सिद्ध्यति । अत्र समस्तपदे शुष्का-शब्दस्य 'शुष्क' इति पुंवद्भावः स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु 6.3.34 इति सूत्रेण भवति । वस्तुतः, 'शुष्का' इति शब्दः ककारोपधः अस्ति, अतः तस्य विषये न कोपधायाः 6.3.37 इत्यनेन पुंवद्भावस्य निषेधः भवितुम् अर्हति । परन्तु 'शुष्का' शब्दे विद्यमानः ककारः शुषः कः 8.2.51 इति त्रिपाद्याः सूत्रेण निर्मितः अस्ति, अतः अयं सपादसप्ताध्याय्याः सूत्राणाम् कृते असिद्धः अस्ति । इत्युक्ते, अत्र न कोपधायाः 6.3.37 इत्यनेन ककारः नैव दृश्यते, अतश्च पुंवद्भावस्य निषेधः अपि न सम्भवति । प्रक्रिया इयम् —
शुष्का शाखा यस्य सः [अनेकमन्यपदार्थे 2.2.24 इति बहुव्रीहिः]
→ शुष् + क्त + टाप् + सुँ + शाखा + सुँ [समासस्य अलौकिकविग्रहः । पूर्वपदस्य प्रकृतिप्रत्ययविभागः पृथक् निर्दिष्टः अस्ति । तत्र शुष्-धातोः निष्ठा 3.2.102 इति क्त-प्रत्ययः, ततः स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् 4.1.4 इति टाप्, ततः प्रथमैकवचनस्य प्रक्रियायाम् सुँ-प्रत्ययः ]
→ शुष् + त + आ + शाखा [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्यययोः लोपः]
→ शुष् + त + आ + शाख [एकविभक्ति चापूर्वनिपाते 1.2.44 इति शाखाशब्दस्य उपसर्जनसंज्ञा । गोस्त्रियोरुपसर्जनस्य 1.2.48 इति ह्रस्वादेशः]
→ शुष् + त + शाख [स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु 6.3.34 इति पूर्वपदस्य पुंवद्भावः]
→ शुष् + क + शाख [शुषो कः 8.2.51 इति निष्ठातकारस्य ककारः । अयं ककारः त्रिपादीसूत्रेण निर्मितः अस्ति अतः सपादसप्ताध्याय्याः सूत्रैः अयं न दृश्यते । अतएव अत्र न कोपधायाः 6.3.37 इत्यनेन पुंवद्भावनिषेधः न सम्भवति । ]
→ शुष्कशाख
पूर्वत्रासिद्धम् 8.2.1 इत्यनेन त्रिपाद्याम् अपि पूर्वसूत्राणां कृते परसूत्राणि असिद्धानि वर्तन्ते, अतः तैः कृतम् कार्यम् अपि स्वभावतः असिद्धम् एव भवति । अतः परत्रिपादीसूत्रैः यः आदेशः / आगमः / लोपः जायते, तस्य अदर्शनात्, तस्य आधारेण अग्रे त्रिपाद्याः पूर्वं सूत्रं नैव प्रवर्तते । ।अस्य द्वे उदाहरणे एतादृशे —
(i). 'चर्' धातोः लट्लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रियायाम् अनुस्वारस्य ययि परसवर्णः 8.4.58 इत्यनेन यः नकारः जायते सः अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2 इत्यस्य कृते असिद्धः अस्ति, अतः अस्य नकारस्य णत्वं न भवति । प्रक्रिया इयम् —
चरँ (गतौ भक्षणे च, भ्वादिः, <{1.640}>)
→ चर् + लट् [वर्तमाने लट् 3.2.123 इति लट्लकारः]
→ चर् + झि [प्रथमपुरुषबहुवचनस्य विवक्षायाम् तिप्तस्झि.. 3.4.78 इत्यनेन झि-प्रत्ययः]
→ चर् + शप् + झि [कर्तरि शप् 3.1.68 इति शप्-विकरणप्रत्ययः]
→ चर् + अ + अन्ति [झोऽन्तः 7.1.3 इति प्रत्ययझकारस्य अन्त्-आदेशः]
→ चर् + अ + अंति [ नश्चापदान्तस्य झलि 8.3.24 इत्यनेन नकारस्य अनुस्वारादेशः]
→ चर् + अ + अन्ति [अनुस्वारस्य अनुस्वारस्य ययि परसवर्णः 8.4.58 इत्यनेन परसवर्णः नकारः । अस्मिन् नकारे कृते अत्र अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2 इति इत्यनेन णत्वम् नैव सम्भवति, यतः अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2 इत्यस्य कृते अनुस्वारस्य ययि परसवर्णः 8.4.58 इति सूत्रमेव असिद्धम् अस्ति ।अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2 इत्यनेन 'चरंति' इत्येव (अनुस्वारसहितं रूपं) दृश्यते, तत्र च णत्वस्य प्रसङ्गः अपि नास्ति । अतः अन्तिमरूपे नकारः एव श्रूयते ।]
→ चरन्ति
(ii) 'प्रशाम्' इति प्रातिपदिकस्य प्रथमैकवचनस्य रूपसिद्धौ मो नो धातोः 8.2.64 इत्यनेन मकारस्य नकारादेशः भवति । अयं नकारादेशः परत्वात् नलोपः प्रातिपदिकान्तस्य 8.2.7 इत्यस्य कृते असिद्धः वर्तते, अतः अस्य नकारस्य नलोपः प्रातिपदिकान्तस्य 8.2.7 इत्यनेन लोपः न भवति । प्रक्रिया इयम् —
प्रशाम् [प्र-उपसर्गपूर्वकात् शम्-धातोः क्विप्-प्रत्यये कृते 'प्रशाम्' इति प्रातिपदिकं सिद्ध्यति ।
प्रशाम् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]
→ प्रशाम् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँप्रत्ययस्य लोपः । लोपे कृते अपि प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इति प्रत्ययनिमित्तकं पदसंज्ञाविधानम् अवश्यं भवति ।]
→ प्रशान् [<ऽक्विबन्ताः धातुत्वं न जहतिऽ> इति परिभाषया अत्र शाम्-इत्यस्य धातुत्वे सति, मकारान्तस्य धातोः पदान्ते मो नो धातोः 8.2.64 इति नकारादेशः भवति । अयं नकारादेशः नलोपः प्रातिपदिकान्तस्य 8.2.7 इति पूर्वत्रिपादीसूत्रस्य कृते असिद्धः अस्ति, अतः अत्र नकारलोपः न प्रवर्तते ]
अनेन प्रकारेण प्रकृतसूत्रेण उक्तस्य असिद्धत्वस्य चत्वारि प्रयोजनानि विद्यन्ते ।
कासुचित् प्रक्रियासु प्रायेण प्रत्येकं सोपाने असिद्धाधिकारस्य प्रयोगः कृतः दृश्यते । एतासु प्रक्रियासु असिद्धत्वं कुत्र कुत्र उपयुज्यते तत् कानिचन उदाहरणानि स्वीकृत्य अधः निर्दिष्टम् अस्ति —
सत् + चित्
→ सद् + चित् [अत्र झलां जशोऽन्ते 8.2.39 इति जश्त्वम्, तथा च स्तोः श्चुना श्चुः 8.4.40 इति श्चुत्वम् — एतयोः युगपत्-प्राप्तिः अस्ति । अत्र जश्त्वं प्रति श्चुत्वम् असिद्धम्, अतः अत्र जश्त्वम् एव प्रवर्तते ।]
→ सज् + चित् [अत्र स्तोः श्चुना श्चुः 8.4.40 इति श्चुत्वम्, तथा च खरि च 8.4.55 इति चर्त्वम् — एतयोः युगपत्-प्राप्तिः अस्ति । अत्र श्चुत्वं प्रति चर्त्वम् असिद्धम्, अतः अत्र श्चुत्वम् एव प्रवर्तते ।]
→ सच् + चित् [खरि च 8.4.55 इति चर्त्वम् ]
→ सच्चित्
स्पृश् + सुँ [स्वौजस्.. 4.1.2 इति प्रथमैकवचनस्य सुँप्रत्ययः]
→ स्पृश् + स् [उपदेशेऽजनुनासिक इत् 1.3.2 इति उँकारस्य इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः । ]
→ स्पृश् [अत्र हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इत्यनेन अपृक्तसकारस्य लोपः, तथा च संयोगान्तस्य लोपः 8.2.23 इत्यनेन संयोगान्तेविद्यमानस्य सकारस्य लोपः - इति द्वयोः युगपत् प्राप्तिः भवति । अत्र संयोगान्तस्य लोपः 8.2.23 इति त्रिपादीसूत्रम् हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इत्यस्य कृते असिद्धम् अस्ति अतः अत्र हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इत्यनेन एव सुँलोपः क्रियते ।]
→ स्पृष् [अत्र झलां जशोऽन्ते 8.2.39 इति जश्त्वम्, क्विन्प्रत्ययस्य कुः 8.2.62 इति कुत्वम्, तथा च व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8.2.36 इति षत्वम् — एतेषाम् युगपत् प्राप्तिः अस्ति । तत्र व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8.2.36 इत्यस्य कृते अन्ये द्वे सूत्रे असिद्धे स्तः, अतः अत्र व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8.2.36 इत्यनेन षत्वम् एव प्रवर्तते ।]
→ स्पृड् [अत्र झलां जशोऽन्ते 8.2.39 इति जश्त्वम् तथा च क्विन्प्रत्ययस्य कुः 8.2.62 इति कुत्वम् — एतयोः युगपत् प्राप्तिः अस्ति । तत्र झलां जशोऽन्ते 8.2.39 इत्यस्य कृते क्विन्प्रत्ययस्य कुः 8.2.62 इति असिद्धम्, अतः अत्र झलां जशोऽन्ते 8.2.39 इत्यनेन जश्त्वम् एव भवति ।]
→ स्पृग् [अत्र क्विन्प्रत्ययस्य कुः 8.2.62 इति कुत्वम् तथा वाऽवसाने 8.4.56 इति चर्त्वम् — एतौ युगपत् प्राप्नुतः ।तत्र क्विन्प्रत्ययस्य कुः 8.2.62 इत्यस्य कृते झलां जशोऽन्ते 8.2.39 इति असिद्धम् अस्ति, अतः अत्र क्विन्प्रत्ययस्य कुः 8.2.62 इति कुत्वमेव प्रवर्तते ।]
→ स्पृग्, स्पृक् [वाऽवसाने 8.4.56 इति वैकल्पिकं चर्त्वम्]
टुमस्जोँ (शुद्धौ, तुदादिः, <{6.151}>)
→ मस्ज् [आदिर्ञिटुडवः 1.3.5 इति 'टु' इत्यस्य इत्संज्ञा । उपदेशेऽजनुनासिक इत् 1.3.2 इति ओँ-इत्यस्य इत्संज्ञा । तस्य लोपः 1.3.9 इति द्वयोः लोपः]
→ मस्ज् + क्त [निष्ठा 3.2.102 इति क्त-प्रत्ययः]
→ म स् न् ज् + त [मस्जिनशोर्झलि 7.1.60 इति नुमागमः । <!मस्जेरन्त्यात् पूर्वं नुमिष्यते!> इति वार्त्तिकेन अयम् जकारात् पूर्वम् भवति ।]
→ म स् ज् त [अत्र बहूनाम् सूत्राणाम् युगपत् प्राप्तिः वर्तते — चोः कुः 8.2.30 इत्यनेन कुत्वम् ; खरि च 8.4.55 इत्यनेन चर्त्वम् ; स्कोः संयोगाद्योरन्ते च 8.2.29 इति सकारलोपः; ओदितश्च 8.2.45 इत्यनेन निष्ठातकारस्य नकारः; तथा च अनिदितां हल उपधायाः क्ङिति 6.4.24 इत्यनेन उपधानकारलोपः । एतेभ्यः अनिदितां हल उपधायाः क्ङिति 6.4.24 इति सपादसप्ताध्याय्याः सूत्रं प्रति अन्यानि सर्वाणि अपि सूत्राणि असिद्धानि सन्ति, अतः अत्र अनिदितां हल उपधायाः क्ङिति 6.4.24 इत्येव सूत्रं प्रवर्तते, येन नकारस्य लोपः विधीयते ।]
→ म ज् त [अत्रापि बहूनि सूत्राणि युगपत् प्राप्नुवन्ति — चोः कुः 8.2.30 इत्यनेन कुत्वम् ; खरि च 8.4.55 इत्यनेन चर्त्वम् ; स्कोः संयोगाद्योरन्ते च 8.2.29 इति सकारलोपः; तथा च ओदितश्च 8.2.45 इत्यनेन निष्ठातकारस्य नकारः । एतेभ्यः स्कोः संयोगाद्योरन्ते च 8.2.29 इत्यस्य कृते अन्यानि त्रिपादीसूत्राणि परत्वात् असिद्धानि सन्ति, अतः अत्र स्कोः संयोगाद्योरन्ते च 8.2.29 इत्यनेन सकारलोपः भवति ।]
→ म ग् त [अत्र चोः कुः 8.2.30 इत्यनेन कुत्वम् ; खरि च 8.4.55 इत्यनेन चर्त्वम् ; तथा च ओदितश्च 8.2.45 इत्यनेन निष्ठातकारस्य नकारः — एतानि युगपत् प्राप्नुवन्ति । एतेभ्यः चोः कुः 8.2.30 इत्यस्य कृते अन्ये द्वे सूत्रे असिद्धे, अतः अत्र चोः कुः 8.2.30 इत्यनेन कुत्वम् एव भवति ।]
→ म ग् न [अत्र खरि च 8.4.55 इत्यनेन चर्त्वम् तथा च ओदितश्च 8.2.45 इत्यनेन निष्ठातकारस्य नकारः — एते युगपत् प्राप्नुतः । तत्र ओदितश्च 8.2.45 इत्यस्य कृते खरि च 8.4.55 इति असिद्धम्, अतः अत्र ओदितश्च 8.2.45 इत्येव सूत्रं प्रवर्तते, येन निष्ठातकारस्य नकारादेशः भवति ।]
→ मग्न
अष्टाध्याय्यां सूत्राणि प्रकरणशः निबद्धानि सन्ति । एतेभ्यः कानिचन प्रकरणानि त्रिपाद्याम् अपि विद्यन्ते । एतेषु प्रकरणेषु विद्यमानानि सर्वाणि सूत्राणि प्रक्रियायाः एकस्य एव अंशस्य विषये भिन्नान् विषयान् प्रतिपादयन्ति, अतः तानि परस्पराणां विषये सिद्धानि एव ज्ञेयानि । The sutras from tripadi that are related to the same topic (like णत्व / षत्व / चर्त्व etc) are always सिद्ध towards each other. यथा —
1) रदाभ्यां निष्ठातो नः पूर्वस्य च दः 8.2.42 इत्यस्मात् सूत्रात् नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि 8.2.61 इति यावन्ति सूत्राणि निष्ठातकारस्य आदेशः इति प्रकरणं निबध्नन्ति । एतानि सर्वाणि सूत्राणि एकप्रकरणस्थानि सन्ति, अतः एतानि परस्पराणां विषये सिद्धानि एव ज्ञेयानि । अतएव पॄ-धातोः विषये रदाभ्यां निष्ठातो नः पूर्वस्य च दः 8.2.42 इत्यनेन प्राप्तं निष्ठानत्वम् न ध्याख्यापॄमूर्छिमदाम् 8.2.57 इत्यनेन निषिध्यते । अत्र यद्यपि न ध्याख्यापॄमूर्छिमदाम् 8.2.57 इति सूत्रम् रदाभ्यां निष्ठातो नः पूर्वस्य च दः 8.2.42 इत्यस्य अपेक्षया अनन्तरम् पाठितम् अस्ति, तथापि द्वे अपि एते सूत्रे एकप्रकरणस्थे एव स्तः, अतः रदाभ्यां निष्ठातो नः पूर्वस्य च दः 8.2.42 इत्यस्य कृते न ध्याख्यापॄमूर्छिमदाम् 8.2.57 इति सूत्रम् सिद्धम् एव ज्ञेयम् । अतएव पॄ-धातोः विहितस्य निष्ठातकारस्य नकारादेशः न भवति । प्रक्रिया इयम् —
पॄ (पालनपूरणयोः, जुहोत्यादिः, <{3.4}>
→ पॄ + क्त [निष्ठा 3.2.102 इति क्तप्रत्ययः]
→ पुर् + त [उदोष्ठ्यपूर्वस्य 7.1.102 इति उत्वम् । उरण् रपरः 1.1.51 इति रेफः]
→ पूर्त [रदाभ्यां निष्ठातो नः पूर्वस्य च दः 8.2.42 इत्यनेन रेफात् परस्य निष्ठातकारस्य नत्वे प्राप्ते, न ध्याख्यापॄमूर्छिमदाम् 8.2.57 इत्यनेन तत् निषिध्यते । अत्र एते द्वे सूत्रे समानप्रकरणे ('निष्ठातकारादेशः' इति प्रकरणे) स्तः, अतः अत्र पूर्वसूत्रं प्रति परसूत्रम् सिद्धमेव ज्ञेयम् । अतः अत्र नत्वं न भवति । अग्रे उपधायां च 8.2.78 इत्यनेन उकारस्य दीर्घे कृते रूपं सिद्ध्यति ।]
2) अपदान्तस्य मूर्धन्यः 8.3.55 इत्यस्मात् सूत्रात् निव्यभिभ्योऽड्व्यवाये वा छन्दसि 8.3.119 इति यावत्सु सूत्रेषु अपदान्तसकारस्य षकारादेशः, तथा च कुत्रचित् अपदान्तधकारस्य ढकारादेशः उक्तः अस्ति । एतानि सर्वाणि सूत्राणि अपदान्तस्य मूर्धन्यः 8.3.55 तथा इण्कोः 8.3.57 इत्येतयोः अधिकारयोः विद्यन्ते । एतानि सर्वाणि एकप्रकरणस्थानि सूत्राणि, अतः अत्रापि पूर्वसूत्राणां प्रति परसूत्राणि सिद्धानि एव सन्ति । अतएव उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् 8.3.65 इत्यनेन सेध्-धातोः सकारस्य विहितः षकारादेशः सेधतेर्गतौ 8.3.113 इत्यनेन गत्यर्थक-सेध्-धातोः विषये निषिध्यते (इत्युक्ते, केवलम् शास्त्रार्थक-सेध्-धातोः विषये एव प्रसज्यते) । अतएव 'षिधूँ (गतौ, <{1.49}>)' इत्यस्य धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् 'विसेधति' इति सकारघटितं भवति, परन्तु 'षिधूँ (शास्त्रे माङ्गल्ये च, <{1.50}>)' इत्यस्य धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् 'विषेधति' इति षकारघटितं भवति ।
3) रषाभ्यां नो णः समानपदे 8.4.1 इत्यस्मात् आरभ्य क्षुभ्नादिषु च 8.4.39 इति यावत्सु सूत्रेषु रेफात् परस्य नकारस्य णकारादेशः विधीयते । एतानि सर्वाणि णत्वप्रकरणस्य सूत्राणि परस्पराणां विषये सिद्धानि एव भवन्ति । अतएव अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2 इत्यनेन उक्तस्य णत्वस्य पदान्तस्य 8.4.37 इति सूत्रेण पदान्तनकारस्य विषये निषेधः भवितुम् अर्हति । इदं निषेधसूत्रम् यद्यपि विधिसूत्रात् अनन्तरं विद्यते, तथापि समानप्रकरणस्थत्वात् विधिसूत्रस्य कृते सिद्धम् एव ज्ञेयम् । अतएव रामशब्दस्य द्वितीया बहुवचने 'रामान्' इत्यत्र नकारस्य णत्वं न भवति । प्रक्रिया इयम् —
राम + शस् [द्वितीयाबहुवचनस्य विवक्षायाम् शस्-प्रत्ययः]
→ रामास् [प्रथमयोः पूर्वसवर्णः 6.1.102 इति पूर्वसवर्णः]
→ रामान् [तस्माच्छसो नः पुंसि 6.1.103 इति सकारस्य नकारः । अत्र यद्यपि अत्र अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2 इत्यनेन णत्वस्य प्राप्तिः अस्ति, तथापि अयम् पदान्तनकारः अस्ति अतः पदान्तस्य 8.4.37 इत्यनेन निषेधसूत्रेण णत्वं निषिध्यते ।]
एवमेव — लत्वम्, श्चुत्वम्, ष्टुत्वम्, ढत्वम्, संयोगान्तलोपः — इत्येतेषाम् सर्वेषाम् प्रकरणानाम् विषये अपि बोध्यम् ।
अष्टाध्याय्याः संरचना प्रामुख्येण उत्सर्गापवादस्वरूपेण कृता अस्ति । उत्सर्गसूत्रेण सामान्यविधिः उच्यते, तदपवादत्वेन च अपवादसूत्रैः विशेषविधयः निर्दिश्यन्ते । यत्र प्रयोगे अपवादसूत्रस्य प्रसक्तिः भवितुम् अर्हति, तत्र अपवादसूत्रेण उत्सर्गसूत्रस्य नित्यं बाधः क्रियते । एतादृशम् उत्सर्गापवादत्वम् त्रिपाद्याम् अपि प्रयुक्तं दृश्यते । अतः त्रिपाद्याम् विद्यमानम् अपवादसूत्रम् उत्सर्गसूत्रस्य कृते सिद्धमेव भवति । यत्र अपवादसूत्रस्य प्रयोगः भवितुम् अर्हति, तत्र उत्सर्गं बाधित्वा अपवादसूत्रम् एव प्रवर्तते । । अस्य स्पष्टीकरणार्थम् अधः द्वे उदाहरणे दीयेते —
तक्ष् + सुँ [प्रथमैकवचस्य सुँ-प्रत्ययः]
→ तक्ष् [उकारस्य उपदेशेऽजनुनासिक इत् 1.3.2 इति इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः । हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति अपृक्त-सुँ-प्रत्ययस्य लोपः]
→ तष् [संयोगान्तस्य लोपः 8.2.23 इत्यनेन षकारस्य लोपे प्राप्ते, तदपवादत्वेन स्कोः संयोगाद्योरन्ते च 8.2.29 इत्यनेन संयोगस्य आदिस्थस्य ककारस्य एव लोपः भवति ।]
→ तड् [झलां जशोऽन्ते 8.2.39 इति जश्त्वम्]
→ तड् / तट् [खरि च 8.4.55 इति चर्त्वम् ]
पयस् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]
→ पयस् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँलोपः]
→ पयरुँ [झलां जशोऽन्ते 8.2.39 इत्यनेन प्राप्तं जश्त्वम् अपवादत्वेन बाधित्वा ससजुषो रुः 8.2.66 इति रुत्वम् ]
→ पयः [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गादेशः]
अष्टाध्याय्याम् विद्यमानाः सर्वाः संज्ञाः परिभाषाः च सपादसप्ताध्याय्याम् एव पाठिताः सन्ति । एताः संज्ञाः परिभाषाः च सम्पूर्णस्य सूत्रपाठस्य कृते एव आवश्यक्यः, न हि केवलम् सपादसप्ताध्याय्याः कृते । अतः संज्ञासूत्राणाम्, परिभाषासूत्राणाम् च विषये त्रिपादीविशिष्टम् असिद्धत्त्वम् न हि प्रवर्तते । अतएव, ससजुषो रुः 8.2.66, संयोगान्तस्य लोपः 8.2.23, अभ्यासे चर्च 8.4.54 , अणोऽप्रगृह्यस्यानुनासिकः 8.4.57 एतादृशेषु सूत्रेषु विद्यमानानाम् 'इत्/लोपः/अभ्यासः/प्रगृह्यम्' एतादृशानाम् संज्ञानाम्, तथा च झलां जश् झशि 8.4.53, चोः कुः 8.2.30 आदिषु सूत्रेषु विद्यमानानाम् षष्ठी-सप्तमी-पञ्चमीविभक्तीनाम् अर्थबोधः सम्भवति । एतेषाम् संज्ञासूत्राणां परिभाषासूत्राणाम् च त्रिपाद्यां कथं सञ्चारः भवति, तेषाम् विषये त्रिपाद्यां विप्रतिषेधः कथं प्रवर्तते, त्रिपादीसूत्राणाम् अर्थनिर्णयसमये संज्ञासूत्राणाम् परिभाषासूत्राणां च कथं एकवाक्यता कर्तव्या — इत्यादीनाम् प्रश्नानाम् विषये परिभाषेन्दुशेखरे <ऽयथोद्देशं संज्ञापरिभाषम्ऽ>, <ऽकार्यकालं संज्ञापरिभाषम्ऽ> एतयोः द्वयोः परिभाषयोः विस्तरेण ऊहः कृतः वर्तते । जिज्ञासुभिः एते अपि परिभाषे अवश्यं द्रष्टव्ये ।
यद्यपि — 'सपादसप्ताध्यायीं प्रति त्रिपादी असिद्धा, त्रिपाद्यां च पूर्वं प्रति परं शास्त्रम् असिद्धम्' — इति असिद्धाधिकारस्य सिद्धान्तः, तथापि केषाञ्चन विशिष्टानां सूत्राणां कृते असिद्धत्वस्य नियमस्य प्रयोजनपूर्वकम् उल्लङ्घनं कृतं दृश्यते । इत्युक्ते, सपादसप्ताध्याय्याः केषाञ्चन सूत्राणां प्रयोगः त्रिपाद्याः सूत्राणाम् अनन्तरम् एव सम्भवति, तेभ्यः पूर्वम् (तैः विना वा) न सम्भवति । एवमेव, त्रिपाद्याम् अपि केषाञ्चन पूर्वसूत्राणां प्रयोगः परसूत्राणाम् अनन्तरम् एव सम्भवति, तेभ्यः पूर्वम् (तैः विना वा) न सम्भवति । एतादृशेषु स्थलेषु, तानि परसूत्राणि पूर्वसूत्राणां कृते आश्रयात् सिद्धानि सन्ति इति उच्यते । एतादृशम् आश्रयसिद्धत्वम् (तस्य प्रयोजनम्, उपयोजनं च) तत्तत्स्थले व्याख्यानात् एव ज्ञातव्यम् । अस्य केवलम् कानिचन उदाहरणानि अधः प्रदर्शितानि सन्ति ।
1) हशि च 6.1.114 इति सूत्रम् सपादसप्ताध्याय्यां स्थापितम् अस्ति । अनेन सूत्रेण 'रुँ' इत्यस्य उकारादेशः विधीयते । यद्यपि इदं सूत्रम् सपादसप्ताध्याय्याम् वर्तते, तथापि अस्य सूत्रस्य कृते आवश्यकः 'रुँ' इति स्थानी त्रिपाद्याः सूत्रैः एव सिद्ध्यति, तस्य कृते सपादसप्ताध्याय्यां सूत्रमेव न विद्यते । अतः हशि च 6.1.114 सूत्रस्य विषये यदि असिद्धत्त्वम् उपयुज्य त्रिपाद्याः सर्वाणि अपि सूत्राणि असिद्धानि एव मन्येरन्, तर्हि हशि च 6.1.114 इति सूत्रमेव व्यर्थं स्यात् । अतएव, हशि च 6.1.114 इति सूत्रविधानमेव एतत् ज्ञापयति, यत् तस्य कृते त्रिपाद्याः रुँ-विधायकानि सूत्राणि सिद्धानि ज्ञेयानि —इति । अतएव, 'मनोरथ'शब्दस्य सिद्धौ ससजुषो रुः 8.2.66 इत्यनेन रुँत्वे कृते, ततः हशि च 6.1.114 इत्यनेन उत्वं सम्भवति । प्रक्रिया इयम् —
मनसः रथः [षष्ठी 2.2.8 इति षष्ठीतत्पुरुषसमासः]
→ मनस् + रथ [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्यययोः लोपः]
→ मनरुँ + रथ [ससजुषो रुँ 8.2.66 इति रुँत्वम्]
→ मनउ + रथ [हशि च 6.1.114 इत्यनेन रेफस्य उत्वम् । हशि च 6.1.114 इति सूत्रस्य कृते ससजुषो रुँ 8.2.66 इति सूत्रम् आश्रयात् सिद्धं वर्तते ।]
→ मनोरथ [आद्गुणः 6.1.87 इत्यनेन गुणैकादेशः भवति । पूर्वस्मिन् सोपाने जातः उकारादेशः हशि च 6.1.114 इति सपादसप्ताध्याय्याः सूत्रेण निर्मितः अस्ति, अतः सः आद्गुणः 6.1.87 इत्यस्य कृते सिद्धः एव ।]
लिहँ (आस्वादने, अदादिः, <{2.6}>)
→ लिह् + क्त [निष्ठा 3.2.102 इति क्त-प्रत्ययः]
→ लिढ् + त [हो ढः 8.2.31 इति ढत्वम्]
→ लिढ् + ध [झषस्तथोर्धोऽधः 8.2.40 इति धत्वम्]
→ लिढ् + ढ [ष्टुना ष्टुः 8.4.41 इति ष्टुत्वम् ]
→ लि + ढ [ढो ढे लोपः 8.3.13 इति ढकारलोपः । अस्य कृते ष्टुना ष्टुः 8.4.41 एतत् सूत्रम् आश्रयात् सिद्धम् ज्ञेयम् ।]
→ ली + ढ [ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 इत्यनेन दीर्घादेशः । अस्य कृते ढो ढे लोपः 8.3.13 एतत् सूत्रम् आश्रयात् सिद्धम् ज्ञेयम् ।]
→ लीढ
3) प्लुतस्वरस्य निर्माणम् वाक्यस्य टेः प्लुत उदात्तः 8.2.82 इत्यस्मिन् अधिकारे विद्यमानैः सूत्रैः भवति । एतादृशानां प्लुतस्वराणाम् अच्-वर्णे परे प्लुतप्रगृह्या अचि नित्यम् 6.1.125 इत्यनेन प्रकृतिभावः भवति । एतत् सूत्रम् सपादसप्ताध्याय्यां विद्यते, तथापि एतस्य कृते प्लुत-विधायकानि त्रिपादीसूत्राणि आश्रयात् सिद्धानि एव भवन्ति । अतएव दूराद्धूते च _ 8.2.84 इत्यनेन प्लुतसंज्ञायाम् कृतायाम्, तस्याः सिद्धत्वात् 'कृष्ण3 एहि' इत्यत्र _प्लुतप्रगृह्या अचि नित्यम् 6.1.125 इत्यनेन प्रकृतिभावः एव भवति । यदि अत्र प्लुतप्रगृह्या अचि नित्यम् 6.1.125 इत्यनेन प्रकृतिभावः न स्यात्, तर्हि प्लुतस्य असिद्धत्वात् 'कृष्ण एहि' इति स्थिते अकार-एकारयोः वृद्धिरेचि 6.1.88 इत्यनेन अनिष्टा वृद्धिः अभविष्यत् । तस्याः निवारणार्थम् प्लुतप्रगृह्या अचि नित्यम् 6.1.125 इत्यस्य कृते प्लुतविधायकानि सूत्राणि सिद्धानि एव स्वीक्रियन्ते ।
आश्रयसिद्धत्वस्य मुख्यानाम् सूत्रयुगलानाम् सङ्कलनम् अधः दीयते । एतेषाम् विवरणम् तु तत्तत्स्थले एव द्रष्टव्यम् ।
ससजुषो रुः 8.2.66 इत्यनेन कृतम् रुत्वम्, तथा च वाक्यस्य टेः प्लुत उदात्तः 8.2.82 इत्यस्मिन् अधिकारे विद्यमानैः सूत्रैः कृता प्लुतसंज्ञा — एते अतो रोरप्लुतादप्लुते 6.1.113 तथा च हशि च 6.1.114 इत्येतयोः कृते आश्रयात् सिद्धे वर्तेते । प्लुतसंज्ञा तु प्लुतप्रगृह्या अचि नित्यम् 6.1.125 इत्यस्य कृते अपि आश्रयात् सिद्धा भवति ।
ष्टुना ष्टुः 8.4.41 इत्यनेन कृतम् ष्टुत्वम् ढो ढे लोपः 8.3.13 इत्यस्य कृते आश्रयात् सिद्धम् भवति । एवमेव, ढो ढे लोपः 8.3.13 इत्यनेन कृतः ढकारलोपः ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 तथा च सहिवहोरोदवर्णस्य 6.3.112 एतयोः कृते आश्रयात् सिद्धः ज्ञेयः । अपि च, रो रि 6.1.114 इत्यनेन कृतः रेफलोपः अपि ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 इत्यस्य कृते आश्रयात् सिद्धः ज्ञेयः ।
मादुपधायाश्च मतोर्वोऽयवादिभ्यः 8.2.9 इति सूत्रम् अन्तोऽवत्याः 6.1.220 इत्यस्य कृते आश्रयात् सिद्धं भवति ।
सिद्धान्तकौमुद्याम् प्रकृतसूत्रस्य व्याख्याने दीक्षितः वदति — त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रम् असिद्धम् । अस्य वाक्यस्य स्पष्टीकरणार्थम् बालमनोरमाकारः वदति — परम् शास्त्रम् इत्यनेन प्रक्रियाकौमुद्यादिग्रन्थोक्तम् कार्यासिद्धत्वम् अप्रामाणिकम् इति ध्वनितम् । इत्युक्ते, पूर्वत्रासिद्धम् 8.2.1 इत्यनेन केवलम् 'परकार्याणि पूर्वकार्याणाम् अपेक्षया असिद्धानि भवन्ति' — इति सिद्धान्तः न दीयते, अपितु परसूत्राणि एव पूर्वसूत्राणाम् अपेक्षया असिद्धानि प्रतिपाद्यन्ते । यदि केवलम् कार्याणि एव असिद्धानि भवेयुः (सूत्राणि सिद्धानि एव भवेयुः) तर्हि 'मनोरथ' इति शब्दस्य प्रक्रियायाम् दोषः उत्पद्येत — इति दीक्षितः प्रौढमनोरमायाम् विवृणोति ।
तदित्थम् — 'मनस् + रथ' इत्यत्र ससजुषो रुँः 8.2.66 इत्यनेन रुत्वे कृते 'मनर् + रथ' इति स्थिते अत्र (आश्रयसिद्धत्वात्) हशि च 6.1.114 तथा च (परत्वात्) रो रि 8.3.14 एतयोः द्वयोः अपि सूत्रयोः युगपत् प्राप्तिः भवति । अस्यां स्थितौ 'कार्यासिद्धत्त्व'पक्षे हशि च 6.1.114 इत्यस्य कृते रो रि 8.3.14 इति सूत्रम् तु सिद्धम् एव भवेत्, केवलम् रो रि 8.3.14 इत्येनन कृतम् कार्यम् एव असिद्धं भवेत् । तथा भवति चेत्, हशि च 6.1.114 तथा च रो रि 8.3.14 एतयोः युगपत् प्राप्तौ सत्याम्, परत्वात् रो रि 8.3.14 इत्यनेन आदौ रेफस्य लोपः प्रसज्येत । अस्मिन् लोपे कृते, यद्यपि तस्य असिद्धत्वात् हशि च 6.1.114 इत्यनेन 'मनर् + रथ' इत्येव दृश्यते; तथापि वस्तुतः प्रक्रियायां लोपः जातः एव अस्ति, अतः तत्र अविद्यमानस्य रेफस्य स्थाने उकारप्राप्तिः नैव सम्भवति । यथा, देवदत्तस्य हन्तरि हते देवदत्तः न पुनः जीवति, तथैव, एकवारं रेफस्य लोपे कृते, तत् कार्यम् असिद्धम् मन्यते चेदपि लुप्तः रेफः (कस्मिन्नपि स्वरूपे) न पुनः उपस्थातुम् शक्नोति । Just like how Devadatta cannot come back to life even when the killer of Devadatta gets killed, in the same way once elided र् cannot come back to life just because that karya has been voided by हशि च 6.1.114 । अतः प्रक्रियायाम् अग्रे हशि च 6.1.114 इत्यस्य प्रसक्तिः नैव सम्भवेत् । न हि केवलं तत्, अपितु रेफस्य लोपात् अनन्तरम् 'मन रथ' इति स्थिते अग्रे ढ्रलोपे पूर्वस्य दीर्घोणः 6.3.111 इत्यनेन दीर्घादेशः अपि भवेत्, येन 'मनारथ' इति अनिष्टं रूपं प्रसज्येत । एतादृशम् मा भूत्, इति हेतुना दीक्षितः अत्र 'शास्त्रस्य' असिद्धत्त्वं प्रतिपादयति ।
अस्मिन् विषये अधिकं पिपठिषवः प्रौढमनोरमायां शब्देन्दुशेखरे च विस्तरं पश्येयुः ।
index: 8.2.1 sutra: पूर्वत्रासिद्धम्
पूर्वत्रासिद्धम् - तथाविधं सूत्रमाह-पूर्वत्रासिद्धम् । पाणिनिप्रणीता अष्टाध्यायी । तत्र अष्टमाध्याये द्वितीयपादस्येदमादिमं सूत्रम् । इतः प्राक्तनं कृत्स्नं सूत्रजालंसपादसप्ताध्यायी॑ति व्यवह्यियते । उपरितनं तु कृत्स्नं सूत्रजालं त्रिपादीति व्यवह्यियत इति स्थितिः । तत्र यदीदं सूत्रं स्वतन्त्रविधिः स्यात्, तदा इतः पूर्वस्मिन् शास्त्रे प्रवर्तमाने उपरितनं शास्त्रमसिद्धं स्यादित्यर्थो लभ्येत । ततश्च सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धेति पर्यवस्येत् । एवं सति त्रिपाद्यामपि पूर्वं शास्त्रं प्रति परं शास्त्रमसिद्धमित्यर्थो न लभ्येत । तथा सति किमु उक्तं किम्वुक्तमित्यत्र 'मोऽनुस्वारः' इति शास्त्रं त्रैपादिकं प्रति 'मय उञो वो वा' इति वत्वशास्त्रं त्रैपादिकं नासिद्धं स्यादित्यत आह-अधि-कारोऽयमिति । अधिक्रियते उपरितनसूत्रजालशेषत्वेन पठत इत्यधिकारः । कर्मणि घञ् । 'घञजबन्ताः पुंसि' इति पुंस्त्वम्॥ अयमिति तदपेक्षया पुंलिङ्गनिर्देशः । इदं सूत्रमुपरितनसूत्रेष्वनुवृत्त्यर्थमेव, न तु स्वतन्त्रविधिरिति यावत् । 'मय उञो वो वा' इति सूत्रे पूर्वत्रासिद्धमित्यनुवर्तते । ततश्चमयः परस्य वकारो वो वा स्यात् । इदं श#आस्त्रं पूर्वत्रासिद्ध॑मिति तदेकवाक्यं संपद्यते । तत्र च अनुवृत्तपूर्वशब्देनैतः प्राक्तनं त्रिपादीस्थं सपादसप्ताध्यायीस्थं च कृत्स्नं सूत्रजालं विवक्षितमिति 'मोऽनुस्वारः' इति त्रैपादिकं शास्त्रं प्रति 'मय उञो वो वा' इति शास्त्रस्याऽसिद्धत्वं निर्बाधमित्याह-तेनेति । अदिकारत्वेनेत्यर्थः । परं शास्त्रमसिद्धमिति । असिद्धत्वं चाऽत्र नात्यन्ताऽसत्त्वम् । किंतु पूर्वशास्त्रदृष्ठएत्यनुपदेमेवोक्तम् ।परं शास्त्र॑मित्यनेन प्रक्रियाकौमुद्यादिग्रन्थोक्तं कार्यासिद्धत्वमप्रामाणिकमिति ध्वनितम् । कार्याऽसिद्धत्वं पूर्वपक्षयित्वा शास्त्रासिद्धत्वस्यैवात्र सूत्रे, 'असिद्धवदत्राभात्' दिति सूत्रे च भाष्ये सिद्धान्तितत्वात् । शास्त्रसिद्धत्वकार्याऽसिद्धत्वयोः फलभेदस्तु शब्देन्दुशेखरे व्यक्तः । अस्माभिश्च स्वादिसन्धौ 'मनोरथ' इत्यत्र मूलव्याख्यावसरे , हलन्तशब्दाधिकारे च अदःशब्दप्रक्रियाव्याख्यावसरे प्रपञ्चयिष्यते । तदेवम् 'अ अ' इति संवृतविधेः स्वप्राक्तनीं कृत्स्नामष्टाध्यायीं प्रत्यसिद्धत्वात् प्रक्रियादसायामवर्णस्य ह्रस्वस्य विवृतत्वमेव । परिनिष्ठितदशायामेव संवृतत्वमिति स्थितम् । यद्यपि परिनिष्ठ#इतदशायां संवृतविधिः क्वचिदप्यस्मिन् शास्त्रे नोपयुज्यते, तथापि परिनिष्ठिते संवृतविंधिबलात्संवृतत्वेन ज्ञाने सत्येव प्रयोगार्हतेति कल्प्यम्, विवृतसंवृतयोरुच्चारणभेदो वा कल्प्य इत्यलं बहुना । अथ बाह्रप्रयत्नान् प्रपञ्चयति — बाह्रप्रयत्नस्त्विति । प्रशब्दोऽत्र चिन्त्यः, प्रशब्दबलेन आभ्यन्तरयत्नस्यैव प्रयत्नशब्दवाच्यताया तुल्यास्यसूत्रे उक्तत्वात्, यत्नो द्विधेत्युपक्रमाच्च । अविवक्षितार्थो वाऽत्र प्रशब्दः । उदात्तानुदात्तस्वरितशब्दा धर्मपराः । कस्य को बाह्रयत्न इत्याकाङ्क्षायां तद्व्यवस्थां श्लोकद्वयेन संगृह्णाति — खयामिति । 'यम' शब्दो व्याख्यास्यते । आआसोऽनुप्रदानो येषां ते आआसानुप्रदानाः=आआसाख्यबाह्रयत्नवन्तः । विवृण्वते कण्ठमिति । विवार एषां यत्न इति भावः । संवृताः=संवाराख्ययत्नवन्तः । नादभागिनः=नादाख्ययत्नभाजः । अयुग्मा वर्गयमगा इति । कादिपञ्चकं टादिपञ्चकं तादिपञ्चकं पादिपञ्चकमिति पञ्च वर्गाः । वर्गगता यमगताश्च अयुग्माः=प्रथमतृतीयपञ्चमवर्णा इत्यर्थः । अल्पासवः=अल्पप्राणाः ।अथ श्लोकद्वयं व्याख्यास्यन् यमशब्दं तावत्सामान्यतो व्याचष्टे — वर्गेष्वित्यादिना ।आद्यानां चतुर्णा॑मिति निर्धारणे षष्ठी ।एकैकस्मा॑दित्यव्याहार्यम् । तेन 'अन्यारादितरर्ते' इति परशब्दयोगे पञ्चमीप्रसङ्गादाद्यानां चतुर्णामिति षष्ठनुपपन्नेति निरस्तम् । यमो नामेति । नामशब्द इतिपर्यायः । तदयमर्थः — कादिचादिटादितादिपादिपञ्चकात्मकेषु वर्णेषु एकैकस्य वर्गस्य आद्यानां चतुर्णां मध्ये एकैकस्मात्पञ्चमे वर्णे परे मध्ये पूर्ववर्णसदृशो वर्णो यम इति प्रातिशाख्ये प्रसिद्ध इति । अथ यमानुदाहृत्य दर्शयति — पलिक्क्नीत्यादिना तत्सदृशा एव यमा इत्यन्तेन । एवं वर्गान्तरयमानामप्युदाहरणं याच्च्ञेत्यादि द्रष्टव्यम् । तदेवं यमशब्दं सामान्यतो व्याख्याय श्लोकद्वयं व्याचष्टे — तत्रेत्यादिना । तत्र 'खय' इत्यस्य व्याख्या — वर्गाणां प्रथमद्वितीयाः खय इति । 'खयां यमा' इत्यस्य विवरणं — तथा तेषामेव यमा इति । 'क पौ' इत्यस्य विवरणं — जिह्वामूलीयोपध्यमानीयाविति । विसर्गशब्दः प्रसिद्धत्वात् स णवोपात्तः । 'शर' इत्यस्य विवरणं — शषसा इति ।एते आआसानुप्रदाना अघोषाश्च विवृण्वते कण्ठ॑मित्येतद्व्याचष्टे-एतेषां विवारः आआसोऽघोषश्चेति ।अन्ये तु घोषाः स्युः संवृता नादभागिन॑ इत्येतद्व्याचष्टे-अन्येषां तु संवारो नादो घोषश्चेति । 'अयुग्मा वर्गयमगा' इत्येतद्व्याचष्टे — वर्गाणां प्रथमतृतीयपञ्चमाः प्रथमतृतीययमाविति । पञ्चमानां यमाऽभावादिति बावः ।यणश्चाल्पासवः स्मृता॑ इत्येतद्व्याचष्टे — यरलवाश्चाल्पप्राणा #इति । ननु श्लोकद्वये महाप्राण एतेषामिति नोक्तम् । अतो न्यूनतेत्याशङ्क्य तदपि परिशेषादुक्तप्रायमित्याह — अन्ये महाप्राणा इति । वर्गाणां द्वितीयचतुर्थाः शलश्च महाप्राणाः ॑ इति । नन्विह बाह्रयत्नप्रपञ्चनं व्यर्थं, तुल्यास्यसूत्रे प्रयत्नशब्दस्य आभ्यन्तरयत्नमात्रपरत्वादित्याशङ्कते — बाह्रप्रयत्नाश्चेति ।यद्यपी॑ति समुदायः शङ्काद्योतकः । परिहरति-तथापीति । सवर्णसंज्ञाप्रस्तावे बाह्रयत्नानामुपयोगाभावेऽपि 'स्थानेऽन्तरतमः' इति वक्ष्यमाणान्तरतम्य्विचारे तेषामुपयोगसत्त्वान्न वैयर्थ्यम् । इह तत्प्रपञ्चनं तुल्यास्यसूत्रे आभ्यन्तरत्वविशेषणव्यावर्त्त्यत्वेनोपस्थितत्वात्प्रासङ्गिकमिति भावः । उदात्तादित्रयस्य तु अज्धर्मत्वस्य प्रसिद्धत्वादिह न तद्व्यवस्थोक्ता । अथ स्पृष्टं प्रयतनं स्पर्शानामित्यादिसंदर्भे उपन्यस्तान् स्पर्शादिशब्दान् व्याचष्टे-कादञ इत्यादिना । क आदिर्येषां तेकादयः॑ । मः अवसाने येषां तेमावसानः॑ । इदं च लोकप्रसिद्धपाठपेक्षम् । इति स्थानयत्नविवेक इति । स्थानयत्निविवेचनं समाप्तमित्यर्थः । स्थानप्रयत्नेति प्रशब्दपाठस्तु चिन्त्यः, अविवक्षितार्थो वाप्र॑शब्द । ऋलृवर्णयोर्मूर्धदन्तात्मकभिन्नस्थानकत्वात्सवर्णसंज्ञायामप्राप्तायाम्ऋकारलृकारयोः सवर्णविधिः॑ इति तद्विधायकं वार्तिकमर्थतः संगृह्र पठति-ऋलृवर्णयोर्मिथः । आ च आ च रलौ । ऋशब्दस्य च 'आ' इति प्रथमैकवचनम् । ऋ लृ औ इति स्थिते लृकारस्यऋतो ङि सर्वनामस्थानयोः॑ इति गुणः, अकारः,उरण्परः॑इति लपरत्वम्, ञकारस्य यणादेशो रेफः । रलौ च तौ वर्णौ च ऋलृवर्णौ । तयोर्मिथः परस्परं सावण्र्यं=सवर्णत्वं वक्तव्यं, तुल्यास्यसूत्रेण तदलाभादिति सूत्रकारः शिक्ष्यते (वार्तिककृता) । उक्तामुक्तदुरुक्तचिन्तनात्मकं हि वार्तिकम् । अकारहकारयोरिति । उभयोः कण्ठस्थानविवृतप्रयत्नसाम्यात्सावण्र्यं प्राप्तम् । अकारस्य कवर्गेण तु न सावण्र्यप्रसक्तिः, कण्ठस्थानसाम्ये सत्यपि विवृतस्पृष्टप्रयत्नभेदात् । विसर्जनीयस्य तु अकारोपरि शर्षु च पाठस्योपसङ्ख्यातत्वेन विवृतत्वेऽपि तेन अकारस्य न सवर्णसंज्ञा, प्रयोजनाऽभावात् । ततश्च अकारस्य हकारेण सावण्र्यं परिशिष्टत इति भावः । इकारशकारयोरिति । तालुस्थानविवृतप्रयत्नसाम्यादुभयोः सावण्र्यं प्राप्तम् । इकारस्य चवर्गेण यकारेण च न सावण्र्यप्रसक्तिः,इकारस्य विवृतत्वात् , चवर्गस्य स्पृष्टत्वात्, यकारस्य ईषत्स्पृष्टत्वाच्च । अत इकारस्य शकारेण सावण्र्यं परिशिष्यत इति भावः । ऋकारषकारयोरिति । मूर्धस्थानविवृतयत्नसाम्यादुभयोः सावण्र्यं प्राप्तम् । ऋकारस्य टवर्गेण रेफेण च न सावण्र्यप्रसक्तिः ऋकारस्य विवृतत्वात्, टवर्गस्य स्पृष्टत्वात् , रेफस्यैइषत्स्पृष्ट्वाच्च । अत ऋकारषकारयोः सावण्र्यं परिशिष्टत इति भावः । लृकारसकारयोरिति । दन्तस्थानविवृतप्रयत्नसाम्यादुभयोः सावण्र्यं प्राप्तम् । लृकारस्य तवर्गेण लकारेण च न सावण्र्यप्रसक्तिः, लृकारस्य विवृतत्वात्, तवर्गस्य स्पृष्टत्वात्, लकारस्य ईषत्सपृष्टत्वाच्च । अतः लृकारस्य सकारेण सावण्र्यं परिशिष्यते ।
index: 8.2.1 sutra: पूर्वत्रासिद्धम्
पूर्वत्रासिद्धमित्ययमधिकार इति । यदि तु स्वतन्त्रो विधिः स्यात्, ततो वक्ष्यमाणस्य त्रिपादीलक्षणसमुदायस्य पूर्वत्र सपादसप्ताध्यायीलक्षणे समुदायेऽसिद्धत्वमुक्तं स्यात्, न तु त्रिपाद्यां पूर्वत्र परस्यासिद्धत्वमापादितं स्यात्; ततश्च गुडलिण्मान्, गोधुङ्मानित्यादौ ढत्वघत्वादेरसिद्धत्वाभावात्'झयः' इति मतुपो वत्वप्रसङ्गः । तस्मान्न विधिः । अथ परिभाषा स्यात्, सर्वत्रैवाष्टाध्याय्यां पूर्व प्रति परस्यासिद्धत्वात् तेन, तैः, तस्य - इत्यादाविनादिषु कर्तव्येषु त्यदाद्यत्वस्यासिद्धत्वादकारान्तनिमिता इनादयो न स्युः । तस्माद् - अधिकारः । एवं सति यदनेन सम्पादितं भवति तद्दर्शयति - तत्रेति । तत्राधिकारे सतीत्यर्थः । अधिकारे हि त्रिपादीगतानामप्यविशेषेण सपादसप्ताध्यायीगतान्प्रत्यसिद्धत्वं त्रिपाद्यं च पूर्वत्र परस्यासिद्धत्वं सिद्ध्यति । विधौ तु नैतावत्सम्पादयितुं शक्यम्; त्रिपाद्यां पूर्वत्र परस्यासिद्धत्वानापादनात् । परिभाषायां च नैतावति पर्यवस्यति; सर्वत्रैव प्रसङ्गात् । तस्मादधिकारत्वादेतावत्सन्पद्यते । एतावदेव च सम्पद्यत इत्यर्थः । न चैवमत्र भ्रमितव्यम् - येयं सपादसप्ताध्यायी अनुक्रान्तेत्यनेन विधिरूपेण प्रवृत्तिर्दर्शिता, इत उतरमित्या दिना त्वधिकाररूपेण, ततश्च शेष इतिवल्लक्षणं चाधिकारश्चेति ? निष्प्रयोजनत्वाद्, अधिकारोऽयमित्युक्तत्वाच्च । किं हि नामाधिकार एवास्मिन्न सिध्यति, यदर्थो विधिराश्रीयते ! सप्तानामध्यायानां सामाहारः सप्ताध्यायी, सपादाचासौ सप्ताध्यायी चेति कर्मधारयः, सपादेति टाबन्तपाठे त्वसमासः । उतरौतरो योग इति पाठः;वीप्सायां द्विर्वचने सुब्लुकोऽसम्भवात् । अत्राध्यायग्रहणेन योगग्रहणेन च शास्त्रासिद्धत्वमाश्रीयत इति दर्सयति । एतच्च पूर्वत्रेति वचनाल्लभ्यते । शास्त्रस्य हि मुख्यं पूर्वत्वम्; सन्निवेशविशेषयोगित्वात् । कार्यस्य तु शास्त्रद्वारकमौपचारिकम्, न हि मुख्ये सम्भवति गौणस्य ग्रहणं युक्तम् । कथं पुनरुच्चरितं शास्त्रमसिद्धमित्युच्यते, न हि वचनशतेनापि सिद्धमपि असिद्धं भवति ? अत आह - सिद्धकायं न करोतीत्यर्थ इति । वचनादतिदेश आश्रीयत इत्यर्थः । शास्त्रास्यासिद्धत्वमाश्रीयते, न कार्यस्येति दर्शितम् । तत्र प्रयोजनमाह - तदेतदिति । यदिदं शास्त्रविषयमसिद्धवचनं तदेतदित्यर्थः । आदेशो लक्षणं निमितं यस्य कार्यस्य तस्य प्रतिषेधार्थमुत्सृज्यते आदेशेन निवर्तत इति उत्सर्गःउस्थानी, स लक्षणं निमितं यस्य तस्य भावः प्रवृत्तिर्यथा स्यादित्येवमर्थं चासिद्धवचनम् । कार्यासिद्धत्वे तूत्सर्गलक्षणस्य भावो न न सिध्यति । तत्रादेशलक्षणप्रतिषेधस्योदाहरणमाह - अस्मा उद्धरेत्यादि । आयावोः कृतयोः'लोपः शकल्यस्य' इति लोपः । व्यलोपस्यासिद्धत्वादिति । शास्त्रद्वारकं व्यलोपस्यासिद्धत्वम् । यदा हि पूर्वशास्त्रसन्निधौ परशास्त्रमसिद्धम्, तदा तत्प्रतिपादितं कार्यं सुतरामसिद्धं भवति । उत्सर्गलक्षणभावस्योदाहरणमाह -अमुष्मै इति । अत्रासत्यसिद्दत्वे परत्वाद् ठदसोऽसेर्दादु दो मःऽ इत्युत्वे सत्यत इति स्मायादयो न स्युः । असिद्धत्वे तु पूर्वं स्मादयः, पश्चादुत्वमिति सिद्धमिष्टम् । उत्वस्येति । उत्वशास्त्रस्येत्यर्थः । शुष्किकेत्यादिश्लोकः । अत्र निदर्शनमिति प्रत्येकमभिसम्बध्यते । निदर्शनमुदाहरणदिगित्यर्थः । मतोर्वत्वे कर्तव्ये'झलां जशो' न्तेऽ इति जश्त्वेऽसिद्धे सति गुडलिण्मानिति दर्शनम् । न कोपधाया इति पुंवद्भावप्रतिषेधो न भवतीति । कोपधप्रतिषेधे तद्धितवुग्रहणमित्येतनाश्रित्येदं प्रयोजनमुक्तम् । क्षामिमानिति ।'क्षायो मः' इति निष्ठातकारस्य मत्वम्, ततः ठत इञ्ऽ इति इञन्ताद् ठत इनिठनौऽ इतीन्, तदन्ताद्वा मतुप् । वहेरित्यादि ।'वह प्रापणे' , निष्ठा, सम्प्रसारणम्,'हो ढः' ,'झषस्तथोर्धो' धःऽ, ष्टुअत्वम्,'ढो ढेअ लोपः' ,'ढ्रलोपे पूर्वस्य दीर्घो' णःऽ, ऊढ इति स्थिते णिचि टिलोपः, लुङ्, च्छेश्चङ् । हतैत्येतद् द्विरुच्यते इति । ठजादेर्वितीयस्यऽ इति वचनात्, ततः'हलादिः शेषः' ,'कुहोश्चुः' , इति चुत्वम् - हकारस्य झकारः, तस्य ठभ्यासे चर्चऽ इति जश्त्वं जाकरः । अथात्र'सन्वल्लघुनि' इतीत्वं कस्मान्न भवति ? तत्राह -अनग्लोप इति वचनादिति । कथं पुनरौजिढदिति भवति ? इत्यत आह - अनग्लोप इति वचनादिति । कथं पुनरौजिढदिति भवति ? इत्यत आह - औजिढदित्येतत्विति । पूर्वत्रासिद्धीयमद्विर्वचनेऽ इत्येतत्विह प्रवर्तते; अनिस्यत्वात् । अनित्यत्वं च ठुभौ साभ्यासस्यऽ इति वचनाद्विज्ञायते, अन्यथा ठनितेःऽ इति णत्वे कृते तस्य सिद्धत्वात् सह णकारेण द्विर्वचने सति सिद्धं स्यात् - प्राणिणिवतीति । गुडलिण्मानिति । गुडं लेढैइति क्विप्, तदन्तान्मतुप्, ढत्वजश्त्वयोः कृतयोः'यरो' नुनासिकत्वे तद्धिते भाषायां नित्यवचनम्ऽ इति णकारः । षष्ठीनिर्देशा इति ।'संयोगान्तस्य लोपः' इत्यादयः, पञ्चमीनिर्देशाः'ह्रस्वादङ्गात्' इत्यादयः, सप्तमीनिर्देशाः'झलो झलि' इत्यादयलस्तेषाम् । असिद्धत्वं न भवतीति । यदि स्यात्'संयोगान्तस्य लोपः' इत्यत्र'षष्ठी स्थानेयोगा इत्येतस्याभावातच्छेषस्य ठलो।ञन्त्यस्य' इत्यस्याप्रवृतेः सर्वस्य पदस्य लोपप्रसङ्गः;'ह्रस्वादङ्गात्' इत्यत्राप्यनियमेन दिक्शब्दाध्याहारात्पूर्वस्य परस्य च लोपप्रसङ्गः;'झलो झलि' इत्यत्राप्यौपश्लेषिकेऽधिकरणे सप्तमी विज्ञायेतेति पूर्वपरयोरविशेषेण प्रसङ्गः, सत्सप्तमीविज्ञाने तु व्यवहितस्यापि प्रसङ्गः । कथं पुनः पूर्वासु परिभाषासु कर्तव्यासु तेषामसिद्धत्वं न भवति ? अत आह - कार्यकालं हीति । संज्ञापरिभाषमिति समाहारद्वन्द्वः । अयमभिप्रायः - संज्ञाः परार्था अत्यन्तं परिभाषाश्च तद्विधाः । न स्वातन्त्र्येण तास्तस्मात् कार्यावगतिहेतवः ॥ अनेकस्य प्रधानस्य शेषभूता भवन्त्विति । एताः केवलमाचार्यः पृथन्देशा उपादिशत् ॥ विधिवाक्यैस्तु संहत्य यत्र तत्र स्थितैरपि । बोधयन्त्यः स्वकार्याणि नैकपूर्वाः परा इमाः ॥ इति । यदि कार्यकालं संज्ञापरिभाषम्,'विप्रतिषेधे परम्' इत्येषापि परिभाषात्रोपतिष्ठेत, ततश्च विस्फोर्यम्, अवगोर्यमित्यत्र गुणं बाधित्वा परत्वात्'हलि च' इति दीर्घत्वं स्यात् ? इत्यत आह -विप्रतिषेधे परमित्येषा त्विति । एषा तु न प्रवर्तत इति सम्बन्धः । मध्ये हेतुर्येनेति । विप्रतिषेधो हि तस्या निमितम् । कश्च विप्रतिषेधः ? द्वयोस्तुल्यबलयोरेकस्मिन्विषये त्वं चाहं चेति प्रवृत्तिप्रसङ्गः । न चायमत्र सन्भवति, तस्मान्निमिताभावान्न प्रवर्तत इत्यथः । यद्येवम्, अपवादोऽपि परः पूर्वमुत्सग न बाधेत ? अत आह - अपवादस्येति । यद्यपवादस्यासिद्धत्वादुत्सर्ग एव स्यात्, अपवादविधानं व्यर्थं स्यात् ॥