ढो ढे लोपः

8-3-13 ढः ढे लोपः पदस्य पूर्वत्र असिद्धम् संहितायाम्

Sampurna sutra

Up

ढः ढे लोपः

Neelesh Sanskrit Brief

Up

ढकारस्य संहितायाम् ढकारे परे लोपः भवति ।

Neelesh English Brief

Up

A ढकार is removed when it is followed by another ढकार in the context of संहिता.

Kashika

Up

ढकारस्य ढकारे लोपो भवति। सत्यपि पदाधिकारे तस्यासंभवादपदान्तस्य ढकारस्यायं लोपो विज्ञायते। लीढम्। मीढम्। उपगूढम्। ष्टुत्वस्यात्र सिद्धत्वमाश्रयाद् द्रष्टव्यम्। श्वलिड् ढौकत इत्यत्र तु जश्त्वे कृते कार्यी नास्तीति लोपाभावः। न च ढलोपो जश्त्वापवादो विज्ञातुं शक्यते, तस्य हि लीढादिर्विषयः संभवति। तत्र हि श्रुतिकृतमानन्तर्यमस्ति। शास्त्रकृतं तु यदनानन्तर्यं ष्टुत्वस्यासिद्धत्वेन प्राप्तम्, तत् तु सूत्रकरणसामर्थ्याद् बाध्यते। श्वलिड् ढौकत इत्यत्र तु न श्रुतिकृतमानन्तर्यम्, न शास्त्रकृतमिति अविषयोऽयं ढलोपस्य॥

Siddhanta Kaumudi

Up

ढस्य लोपः स्याड्ढे परे । गाढा । गाहिष्यन्ते । घाक्ष्यते । गाहिषीष्ट । घाक्षीष्ट । अगाहिष्ट । अगाढ । अघाक्षाताम् । अघाक्षत । अगाढाः । अघाढ्वम् । अघाक्षि ।{$ {!650 गृहू!} गर्हणे$} । गर्हते । जगृहे ।<!ऋदुपधेभ्यो लिटः कित्वं गुणात्पूर्वविप्रतिषेधेन !> (वार्तिकम्) ॥ जगृहिषे । जघृक्षे । जघृढ्वे । गर्हिता । गर्ढा । गर्हिष्यते । घर्क्ष्यते । गर्हिषीष्ट । घृक्षीष्ट । लुङि । अगर्हिष्ट । इडभावे ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

संहितायाम् ढकारात् परः पुनः ढकारः विद्यते चेत् प्रथमढकारस्य लोपः भवति इति अस्य सूत्रस्य अर्थः । इदं सूत्रम् नित्यम् <<ष्टुना ष्टुः>> 8.4.41 इत्यस्मात् अनन्तरम् एव प्रयुज्यते । अपि च, अस्य सूत्रस्य प्रयोगः केवलम् तकारादि-प्रत्ययस्य विषये एव भवति । कानिचन उदाहरणानि एतादृशानि — 1. गुह्-धातोः निष्ठाप्रत्ययस्य प्रक्रियायाम् ढकारे परे ढकारलोपः गुहूँ (संवरणे, भ्वादिः, <{1.1043}>) → गुह् + क्त [<<निष्ठा>> 3.2.102 इति क्त-प्रत्ययः] → गुढ् + त [हकारस्य <<हो ढः>> 8.2.31 इति झलि परे ढकारः] → गुढ् + ध [<<झषस्तथोर्धोऽधः>> 8.2.40 इत्यनेन तकारस्य धकारः] → गुढ् + ढ [<<ष्टुना ष्टुः>> 8.4.41 इति ष्टुत्वे धकारस्य ढकारः] → गुढ [<<ढो ढे लोपः>> 8.3.13 इति ढकारे परे ढकारस्य लोपः ।] → गूढ [<<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> 6.3.111 इति उकारस्य दीर्घः ।] अत्र प्रक्रियायाम् <<ढो ढे लोपः>> 8.3.13 इत्यस्मात् अनन्तरम् <<सहिवहोरोदवर्णस्य>> 6.3.112 इति सूत्रम् प्रवर्तते । अनया एव प्रक्रियया लिह् + क्त → लीढ, मुह् + क्त → मूढ, मिह् + क्त → मीढ इत्येतानि अनेकानि रूपाणि सिद्ध्यन्ति । 2. गुह्-धातोः लुट्लकारस्य प्रक्रियायाम् ढकारे परे ढकारलोपः गुहूँ (संवरणे, भ्वादिः, <{1.1043}>) → गुह् + लुट् [<<अनद्यतने लुट्>> 3.3.15 इति लुट्-लकारः] → गुह् + तिप् [<<तिप्तस्झि...>> 3.4.78 इत्यनेन प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] → गुह् + डा [<<लुटः प्रथमस्य डारौरसः>> 2.4.85 इति डा-आदेशः । अत्र <<अनेकाल्शित्सर्वस्य>> 1.1.55 इति सर्वादेशः भवति यतः आदेशसमये डा-इत्यस्य प्रत्ययसंज्ञा नास्ति अतः <<चुटू>> 1.3.7 इति डकारस्य इत्संज्ञा न भवति, अतश्च तस्य लोपः अपि न सम्भवति ।] → गुह् + आ [स्थानिवद्भावेन डा-आदेशस्य प्रत्ययसंज्ञायाम् जातायाम् <<चुटू>> 1.3.7 इति डकारस्य इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः] → गुह् + तास् + आ [<<स्यतासी लृलुटोः>> 3.1.33 इति तास्-विकरणप्रत्ययः] → गुह् + त् + आ [डित्-प्रत्यये परे <<टेः>> 6.4.143 इति अङ्गस्य टिसंज्ञकस्य लोपः] → गुढ् + ध् + आ [<<झषस्तथोर्धोऽधः>> 8.2.40 इत्यनेन तकारस्य धकारः] → गुढ् + ढ् + आ [<<ष्टुना ष्टुः>> 8.4.41 इति ष्टुत्वे धकारस्य ढकारः] → गु + ढ् + आ [<<ढो ढे लोपः>> 8.3.13 इति ढकारे परे ढकारस्य लोपः ।] → गूढा [<<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> 6.3.111 इति उकारस्य दीर्घः ।] अत्र प्रकृतसूत्रस्य प्रयोगः तिङन्तप्रक्रियायाम् दर्शितः अस्ति । अत्रापि प्रक्रियायाम् <<ढो ढे लोपः>> 8.3.13 इत्यस्मात् अनन्तरम् <<सहिवहोरोदवर्णस्य>> 6.3.112 इति सूत्रम् प्रवर्तते । 3. वह्-धातोः तृच्-प्रत्ययान्तप्रक्रियायाम् ढकारे परे ढकारलोपः वह (प्रापणे, भ्वादिः <{1.1159}>) → वह् + तृच् [<<ण्वुल्तृचौ>> 3.1.133 इति तृच्-प्रत्ययः] → वढ् + तृ [हकारस्य <<हो ढः>> 8.2.31 इति झलि परे ढकारः] → वढ् + धृ [<<झषस्तथोर्धोऽधः>> 8.2.40 इत्यनेन तकारस्य धकारः] → वढ् + ढृ [<<ष्टुना ष्टुः>> 8.4.41 इति ष्टुत्वे धकारस्य ढकारः] → व ढृ [<<ढो ढे लोपः>> 8.3.13 इति ढकारे परे ढकारस्य लोपः ।] → वोढृ [<<सहिवहोरोदवर्णस्य>> 6.3.112 इति ओकारः] अत्र प्रक्रियायाम् <<ढो ढे लोपः>> 8.3.13 इत्यस्मात् अनन्तरम् <<सहिवहोरोदवर्णस्य>> 6.3.112 इति सूत्रम् प्रवर्तते । 4. तृह्-धातोः निष्ठाप्रत्ययस्य प्रक्रियायाम् ढकारे परे ढकारलोपः तृहूँ (हिंसायाम्, तुदादिः, <{6.0075}>) → तृह् + क्त [<<निष्ठा>> 3.2.102 इति क्त-प्रत्ययः] → तृढ् + त [हकारस्य <<हो ढः>> 8.2.31 इति झलि परे ढकारः] → तृढ् + ध [<<झषस्तथोर्धोऽधः>> 8.2.40 इत्यनेन तकारस्य धकारः] → तृढ् + ढ [<<ष्टुना ष्टुः>> 8.4.41 इति ष्टुत्वे धकारस्य ढकारः] → तृढ [<<ढो ढे लोपः>> 8.3.13 इति ढकारे परे ढकारस्य लोपः ।] अत्र प्रक्रियायाम् <<ढो ढे लोपः>> 8.3.13 इत्यस्मात् अनन्तरम् न किञ्चन अन्यत् सूत्रम् प्रवर्तते । आश्रयात् सिद्धत्वम् ; तस्य प्रयोजनम् चिन्त्यम् प्रकृतसूत्रस्य प्रयोगः नित्यम् <<ष्टुना ष्टुः>> 8.4.41 इत्यस्मात् अनन्तरम् एव भवितुम् अर्हति । अतः प्रकृतसूत्रस्य कृते <<ष्टुना ष्टुः>> 8.4.41 इति सूत्रम् आश्रयात् सिद्धम् स्वीक्रियते । अपि च, प्रकृतसूत्रस्य प्रयोगात् अनन्तरम् यदि प्रक्रिया अग्रे सम्भवति, तर्हि नित्यम् <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> 6.3.111 अथ वा <<सहिवहोरोदवर्णस्य>> 6.3.112 इत्येव सूत्रम् प्रयोक्तुं शक्यते । अतः प्रकृतसूत्रम् <<ढ्रलोपे पूर्वस्य दीर्घोऽणः>> 6.3.111 तथा च <<सहिवहोरोदवर्णस्य>> 6.3.112 एतयोः कृते आश्रयात् सिद्धम् ज्ञेयम् । वस्तुतस्तु, <<ढो ढे लोपः>> 8.3.13 इति सूत्रम् <<ष्टुना ष्टुः>> 8.4.41 इत्यस्मात् अनन्तरम् संस्थाप्यते चेदपि कुत्रापि कोऽपि दोषः न जायते । तथापि इदं सूत्रम् पाणिनिना अष्टमाध्यायस्य तृतीयपादे स्थापितम् अस्ति । एतादृश्याः सूत्ररचनायाः प्रयोजनम् चिन्त्यम् एव ।

Balamanorama

Up

<<ढो ढे लोपः>> - इडभावे तु गाह् ता इति स्थिते हस्य ढत्वे 'झषस्तथोर्धोऽधः' इति तकारस्य धत्वे, ष्टुत्वेन धस्य ढत्वे, गाढ् — ढा इति स्थिते — इडभावे तु गाह् ता इति स्थिते ढो ढे । 'ढः' इति षष्ठन्तम् । तदाह — ढस्येति । ढकारस्येत्यर्थः । इति पूर्वस्य ढकारस्य लोपे 'गाढा' इति रूपम् । ढलोपे ष्टुत्वस्याऽसिद्धत्वं तु न, तथा सति ढलोपविधिवैयथ्र्यात् । घाक्ष्यते इति । इडभावे हस्य ढः, गस्य भष् घकारः, ढस्य कः, सस्य ष इति भावः । अगाहिष्टेति । सिच इट्, सस्य षः, तकारस्य ष्टुत्वेन टः । इडभावे त्वाह — अगाढेति । अगाह् स् त इति स्थिते सिच इडभावेझलो झली॑ति लोपः । ढत्वधत्वष्टुत्वढलोपः । सलोपात्पूर्वं भष्भावस्तु न, भष्भावस्याऽसिद्धतयाझलो झली॑ति सलोपस्य पूर्वं प्रवृत्तेः । न च कृतेऽपि सलोपे प्रत्ययलक्षणेन सकारपरकत्वात् भष् दुर्वार इति शङ्क्यं, वर्णाश्रये प्रत्ययलक्षणाऽभावादिति भावः । अधाक्षातामिति । इडभावपक्षे ढघकषाः । अघाक्षतेति । पूर्ववत् । अगाढा इति । थास् सिच् । इडभावे सलोपः । ढत्वधत्वष्टुत्वढलोपाः । अघाढ्वमिति । ध्वमि इडभावपक्षे सलोपः । ढत्वघत्वष्टुत्वढलोपाः । ध्ममाश्रित्य ढलोपात्पूर्वं भष्भावः । अघाक्षीति । इडभावे हस्य ढः, भष्भावः, ढस्य कः, सस्य षत्वमिति भाव- । अघाक्ष्वहि । अघाक्ष्महि । अगाहिष्यत अघाक्ष्यत । गृहूधातुरूदित् ऋदुपधः । गर्हते इति । लटस्तिपि शपि लघूपधगुणे रपरत्वम् । जगृहे इति ।असंयोगा॑दिति कित्त्वाद्गुणाऽभावः । न च कित्त्वात् परत्वाद्गुणः शङ्क्यः ,ऋदुपधेभ्यो लिट कित्त्वं गुणात्पूर्वप्रतिषेधेने॑ति वार्तिकादिति भावः । ऊदित्त्वादिड्विकल्पं मत्वा आह — जगृहिषे जघृक्षे इति । अभ्यासे उरदत्वं, हलादिः शेषः, जश्त्वम्, इट्, षत्वम् । इडभावे तु ढत्वभष्भावकत्वषत्वानि । ध्वमि जगृहिध्वे इति सिद्धवत्कृत्य इडभावे आह — जघृढ्वे इति । हस्य ढः, भष्भावष्टुत्वढलोपाः । गर्ढेति । इडभावे गुणे रपरत्वे ढत्वधत्वष्टुत्वलोपाः । घक्ष्र्यते इति । गुणः, रपरत्वं, हस्य ढः, भष्भावः, ढस्य कः षत्वम् । अगर्हिष्टेति । सिच इटि गुणे रपरत्वे षत्वे रूपम् ।

Padamanjari

Up

आकार उच्चारणार्थः, ढकारमात्रं निमितम्; तेन लेढा, लेढैइत्यादावपि भवति । लीढमित्यादौ'हो ढः' ,'झषस्तथोर्धो' धःऽ,'झषस्तथोर्धो' धऋऽ, ष्टुअत्वम्, ततोऽनेन ढलोपः । ननु चासिद्धं ष्टुअत्वं तत्कथमत्र लोपः ? तत्राह - ष्टुअत्वस्येति । उच्यते चेदम् - ढेअ परतो ढस्य लोपो भवतीति, तत्र ष्टुअत्वस्यासिद्धत्वे निर्विषयमेतत्स्यात् । ननु च यत्रौत्पतिको ढकारः - श्वलिड्ढौकत इत्यादौ, तत्र सावकाशः स्यादत आह - श्वलिड्ढौकत इत्यत्रेति । जश्त्वे कृत इति । एकपदाश्रयत्वादन्तरङ्गत्वात्'पूर्वत्रासिद्धम्' इति लोपस्यासिद्धत्वाद्वा पूर्वं जश्त्वम् । ननु च निर्विषयत्वाद् ढलोपो जश्त्वं बाधेत ? नेत्याह - न चेति । कुतः ? इत्याह - तस्य हीति । कथं पुनर्लीढादिरवकाशः, यावता यथा श्वलिड्ढौकते इत्यत्र जश्त्वे कृते कार्यिणोऽभावः, तथा लीढादावपि ष्टुअत्वस्यासिद्धत्वान्निमितस्याभावः; अथ तत्र वचनसामर्थ्यात् ष्टुअत्वस्यासिद्धत्वं बाध्यते, तदेतरत्रापि जश्त्वं बाधनीयम्, वक्तव्यो वा विशेषः ? अत आह - तत्र हीति । अयमभिप्रायः - लोपेन तावदसिद्धत्वमवश्यं बाध्यम्, तत्र लीढमित्यादावेकमेव'पूर्वत्रासिद्धम्' इत्यसिद्धत्वम्, अतस्तदेव बाध्यते; श्वलिड्ढौकत इत्यत्र तु ढलोपस्य जश्त्वापेक्षया बहिरङ्गत्वात् परत्वाच्च द्विविधमसिद्धत्वमिति न तद्वाध्यते । ततो जश्त्वे कृते न श्रुतिकृतमानन्तर्यम्, नापि शास्त्रकृतम्; जश्त्वस्यासिद्धत्वाभावादिति ढलोपस्यायमविषय इति ॥