8-2-36 व्रश्चभ्रस्जसृजमृजयजराजभ्राजछशां षः पदस्य पूर्वत्र असिद्धम् झलि अन्ते धातोः
व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राज-च्छ-शाम् झलि पदस्य अन्ते च षः
व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज् - एतेषां शब्दानाम् , शकारान्तशब्दानाम् छकारान्तशब्दानाम् च झलि परे तथा च पदान्ते षकारादेशः भवति ।
The laster letter of the word व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज् and शकारान्त / च्छकारान्त words gets षकारादेश at पदान्त, or when झल् letter is in front.
व्रश्च भ्रस्ज सृज मृज यज राज भ्राज इत्येतेषाम्, छकारान्तानाम्, शकारान्तानां च षकार आदेशो भवति झलि परतः, पदान्ते च। व्रश्च — व्रष्टा। व्रष्टुम्। व्रष्टव्यम्। मूलवृट्। भ्रस्ज — भ्रष्टा। भ्रष्टुम्। भ्रष्टव्यम्। धानाभृट्। सृज — स्रष्टा। स्रष्टुम्। स्रष्टव्यम्। रज्जुसृट्। मृज — मार्ष्टा। मार्ष्टुम्। मार्ष्टव्यम्। कंसपरिमृट्। यज — यष्टा। यष्टुम्। यष्टव्यम्। उपयट्। राज — सम्राट्। स्वराट्। विराट्। भ्राज — विभ्राट्। राजभ्राजोः पदान्तार्थं ग्रहणम्, झलादिराभ्यामिटा पर्यवपद्यते। केचित् तु राष्टिर्भ्राष्टिरिति क्तिन्नन्तम् इच्छन्ति। छकारान्तानाम् — प्रच्छ — प्रष्टा। प्रष्टुम्। प्रष्टव्यम्। शब्दप्राट्। <<च्छ्वोः शूडनुनासिके च>> ६.४.१९ इत्यत्र क्ङितीत्यनुवर्तत इति छग्रहणमिह क्रियते। शकारान्तानाम् — लिश् — लेष्टा। लेष्टुम्। लेष्टव्यम्। लिट्। विश् — वेष्टा। वेष्टुम्। वेष्टव्यम्। विट्॥
व्रश्चादीनां सप्तानां छशान्तयोश्च षकारोऽन्तादेशः स्याज्झलि पदान्ते च । षस्य जश्त्वेन डकारः । निड्भ्याम् । निड्भिः । सुपि डः सीति पक्षे धुट् । चर्त्त्वम् । तस्यासिद्धत्वाच्चयो द्वितीया इति टतयोष्ठथौ न । न पदान्ताट्टोः इति ष्टुत्वं न । निट्त्सु । निट्सु ॥
झलि पदान्ते च। जश्त्वचर्त्वे। राट्, राड्। राजौ। राजः। राड्भ्याम्॥ एवं विभ्राट्, देवेट्, विश्वसृट्॥ <<परौ व्रजेः षः पदान्ते>> (वार्त्तिकम्) । परावुपपदे व्रजेः क्विप् स्याद्दीर्घश्च पदान्ते षत्वमपि। परिव्राट्। परिव्राजौ॥
अनेन सूत्रेण निर्दिष्टः षकारादेशः <<अलोऽन्त्यस्य>> 1.1.52 इत्यनेन स्थानिनः अन्तिमवर्णस्य स्थाने विधीयते । उदाहरणानि - 1) व्रश्च् + तुमुन् → व्रष्टुम् । षकारादेशात् परमत्र <<ष्टुना ष्टुः>> 8.4.41 इति ष्टुत्वमपि भवति । 2) भ्रस्ज् + तृच् → भ्रष्टा । अत्र <<स्कोः संयोगाद्योरन्ते च>> 8.2.29 इत्यनेन सकारलोपे कृते, वर्तमानसूत्रेण षकारादेशः भवति । ततश्च <<ष्टुना ष्टुः>> 8.4.41 इति ष्टुत्वमपि भवति । 3) सृज् + क्त → स्रष्ट । अत्र आदौ वर्तमानसूत्रेण षकारादेशः भवति, ततश्च <<ष्टुना ष्टुः>> इति ष्टुत्वमपि भवति । 4) मृज् + तिप् → मार्ष्टि । प्रक्रिया इयम् - मृज् + तिप् लट्-लकारस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् 'ति' प्रत्ययः → मृज् + शप् + ति [<<कर्तरि शप्>> 3.1.68 इति औत्सर्गिकं विकरणम् शप् ] → मृज् + ति [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इत्यनेन शप्-इत्यस्य लुक्] → मार्ज् + ति [<<मृजेर्वृद्धिः>> 7.2.114 इति ऋकारस्य वृद्धि-आदेशः । सः च <<उरण् रपरः>> 1.1.51 इति रपरः] → मार्ष् + ति [<<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> 8.2.36 इति षकारादेशः] → मार्ष् टि [<<ष्टुना ष्टुः>> 8.4.41 इति ष्टुत्वम्] → मार्ष्टि 5) यज् + तृच् → यष्टा । षकारादेशात् परमत्र <<ष्टुना ष्टुः>> 8.4.41 इत्यनेन ष्टुत्वम् विधीयते । 6) सम्राज् + भ्याम् → सम्राड्भ्याम् । अत्र वर्तमानसूत्रेण पदान्ते जकारस्य षत्वम्, ततः च <<झलां जशोऽन्ते>> 8.2.39 इति जश्त्वे डकारः भवति । 7) भ्राज् + भ्याम् → भ्राड्भ्याम् । 8) च्छकारान्तशब्दाः - यथा - प्रच्छ् + तुमुन् → प्रष्टुम् । वर्तमानसूत्रेण 'च्छ्' इति समुदायस्य षत्वं भवति, यतः सूत्रे 'च्छ्' इत्यस्य निर्देशः कृतः अस्ति । 9) शकारान्तशब्दाः - यथा - विश् + भ्याम् → विड्भ्याम् । अत्र वर्तमानसूत्रेण पदान्ते शकारस्य षत्वम्, ततः च <<झलां जशोऽन्ते>> 8.2.39 इति जश्त्वे डकारः भवति ।
<<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> - ब्राश्चभ्रस्ज । व्रश्चादयः सप्त धातवः । छशौ वर्णौ, ताभ्यां शब्दरूपविशेष्यमादाय तदन्तविधिः ।झलो झली॑त्यतोझली॑त्यनुवर्तते ।पदस्ये॑त्यधिकृतम् ।स्कोःसंयोगाद्योरन्ते चे॑त्यतोऽन्ते इत्यनुवर्तते । तदाह — व्रश्चादीनामिति । अन्तादेश इत्यलोऽन्त्यसूत्रलभ्यम् । षस्य जश्त्वेनेति । प्रकृतसूत्रेण शस्य षत्वे तस्य षकारस्य 'स्वादिषु' इति पदत्वाज्झलाञ्जशोऽन्ते॑ इति जश्त्वेन स्थानसाम्याड्डकारे निड्भ्यामित्यादि रूपमित्यर्थः । सुपीति । निश्-सु इति स्थितेव्रश्चे॑ति षत्वे तस्य जश्त्वेन डकारे 'ङसि धुट्' इति कदाचिद्धुडागमः । चर्त्वमिति ।डधयो॑रिति शेषः । स्थानसाम्याड्डस्य टः, धस्य तः । तस्येति । चर्त्वस्येत्यर्थः । ठथौ नेति । धुडभावपक्षे टस्य ठो न, धुट्पक्षे तस्य थो नेत्यर्थः । 'नादिन्याक्रोशे' इति सूत्रस्थभाष्ये 'चयो द्वितीया' इत्यस्य पाठदर्शनात्तदपेक्षया चर्त्वस्य परत्वम् । अथ तकारस्य ष्टुत्वेन टकारमाशङ्क्य आह — न पदान्तादिति । 'स्वादिषु' इति पदत्वं बोध्यम् । निट्त्सु इति । धुट्पक्षे रूपम् । तदभावपक्षे तु निट्सु ।
अत्र शकारान्तस्य जश्त्वे प्राप्ते, इतरेषां तु कुत्वे तदपवादः षत्वं विधीयते । मूलवृट्, धानामृडिति । ग्रहिज्यादिना सम्प्रसारणम्,'स्कोः संयोगाद्योः' इति सलोपः, षकारस्य जश्त्वम् - डकारः,'वावसाने' इति पक्षे टकारः । झलादिराभ्यामित्यादि । पर्यवपद्यतेउव्यवधीयते । राष्टिः, भ्राष्टिरिति ।'गुरोश्च हलः' इत्यकारे प्राप्ते'क्तिन्नाबादिभ्यः' इति क्तिन्प्रत्ययः,'तितुत्रतथ' इत्यादिनेट्प्रतिषेधः । शब्दप्राडिति ।'क्विब्वचि' इत्यादिना क्विप्, दीर्घत्वम्, सम्प्रसारणाभावश्च । च्छग्रहणमनर्थकम्;'च्छ्वोः शूड्' इत्यादिना च्छस्य शत्वे कृते शान्तानामित्येव षत्वं सिद्धम् ? अत आह - च्छ्वोः शूडित्यादि ॥