झलां जश् झशि

8-4-53 झलां जश् झशि पूर्वत्र असिद्धम् संहितायाम्

Sampurna sutra

Up

झलां झशि जश्

Neelesh Sanskrit Brief

Up

झल्-वर्णस्य झश्-वर्णे परे जश्-वर्णादेशः भवति ।

Neelesh English Brief

Up

A झल्-letter is converted to a corresponding जश्-letter when followed by a झश् letter.

Kashika

Up

झलां स्थाने जशादेशो भवति झशि परतः। लब्धा। लब्धुम्। लब्धव्यम्। दोग्धा। दोग्धुम्। दोग्धव्यम्। बोद्धा। बोद्धुम्। बोद्धव्यम्। झशीति किम्? दत्तः। दत्थः। दध्मः॥

Siddhanta Kaumudi

Up

स्पष्टम् । इति धकारस्य दकारः ॥

Laghu Siddhanta Kaumudi

Up

स्पष्टम्। इति पूर्वधकारस्य दकारः॥

Neelesh Sanskrit Detailed

Up

झल् = वर्गचतुर्थाः + वर्गतृतीयाः + वर्गद्वितीयाः + वर्गप्रथमाः + ऊष्माणः । आहत्य 24 वर्णाः । जश् = वर्गतृतीयाः । झश् = वर्गतृतीयाः + वर्गचतुर्थाः । प्रकृतसूत्रेण झल्-वर्णस्य झश्-वर्णे परे अन्तरतमः जश्-वर्णादेशः भवति । इदमेव परिवर्तनम् जश्त्वम् नाम्ना ज्ञायते । अस्य सूत्रस्य प्रसक्तिः अपदान्त-झल्-वर्णस्य विषये एव वर्तते, यतः पदान्त-झल्-वर्णस्य तु <<झलां जशोऽन्ते>> 8.2.39 इत्यनेन एव जश्त्वम् विधीयते (तत्र 'झश्' इति निमित्तम् नैव आवश्यकम्) । क्रमेण उदाहरणानि एतादृशानि —

1. क्/ख्/ग्/घ् एतेषां जश्त्वे कृते तेषां स्थाने आन्तरतम्येन गकारः विधीयते । यथा, दुह्-धातोः तुमुन्-प्रत्यये परे प्रकृतसूत्रेण जश्त्वं भवति — दुहँ (प्रपूरणे, अदादिः, <{2.4}> ) → दुह् + तुमुन् [<<तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्>> 3.3.10 इति तुमुन्] → दोह् + तुम् [<<पुगन्तलघूपधस्य च>> 7.3.86 इति उपधायाः गुणः] → दोघ् + तुम् [<<हो ढः>> 8.2.31 इति हकारस्य ढकारे प्राप्ते अपवादत्वेन <<दादेर्धातोर्घः>> 8.2.32 इति घत्वम्] → दोघ् + धुम् [<<झषस्तथोर्धोऽधः>> 8.2.40 इति तकारस्य धकारः] → दोग् + धुम् [<<झलां जश् झशि>> 8.4.53 इति घकारस्य गकारः] → दोग्धुम् 2. च्/छ्/ज्/झ् एतेषाम् प्रकृतसूत्रेण जश्त्वम् नैव सम्भवति, यतः <<चोः कुः>> 8.2.30 इत्यनेन अपदान्त-चवर्गस्य झलि परे कुत्वम् भवति । 3. ट्/ठ्/ड्/ढ् एतेषां जश्त्वे कृते तेषां स्थाने आन्तरतम्येन डकारः विधीयते । परन्तु अस्य उदाहरणानि नैव सन्ति । 4. त्/थ्/द्/ध् एतेषां जश्त्वे कृते तेषां स्थाने आन्तरतम्येन दकारः विधीयते । यथा, बुध्-धातोः तृच्-प्रत्यये परे प्रकृतसूत्रेण जश्त्वं भवति — बुधँ (अवगमने, भ्वादिः, <{1.994}>) → बुध् + तृच् [<<ण्वुल्तृचौ>> 3.1.133 इति तृच्-प्रत्ययः] → बोध् + तृ [<<पुगन्तलघूपधस्य च>> 7.3.86 इति गुणः] → बोध् + धृ [<<झषस्तथोर्धोऽधः>> 8.2.40 इति तकारस्य धकारः] → बोद्धृ [<<झलां जश् झशि>> 8.4.53 इति धकारस्य दकारः] 5. प्/फ/ब्/भ् एतेषां जश्त्वे कृते तेषां स्थाने आन्तरतम्येन बकारः विधीयते । यथा - लभ्-धातोः क्त-प्रत्यये परे प्रकृतसूत्रेण जश्त्वं भवति — डुलभँष् (प्राप्तौ, भ्वादिः, <{1.1130}>) → लभ् + क्त [<<निष्ठा>> 3.2.102 इति क्त-प्रत्ययः] → लभ् + ध [<<झषस्तथोर्धोऽधः>> 8.2.40 इति तकारस्य धकारः] → लब्ध [<<झलां जश् झशि>> 8.4.53 इति भकारस्य बकारः] 6. शकारस्य जश्त्वे कृते तस्य स्थाने उच्चारणस्थानसाधर्म्यम् अनुसृत्य आन्तरतम्येन जकारः विधीयते । उदाहरणम् एतादृशम् — भ्रस्जँ (पाके, तुदादिः, <{6.4}>) → भ्रस्ज् + अनीयर् [<<तव्यत्तव्यानीयरः>> 3.1.96 इति अनीयर्-प्रत्ययः] → भ्रश्ज् + अनीय [जकारे परे <<स्तोः श्चुना श्चुः>> 8.4.40 इति सकारस्य शकारः । अस्य असिद्धत्त्वात् <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> 8.2.36 इति षत्वं न भवति ।] → भ्रज्ज् + अनीय [जकारे परे <<झलां जश् झशि>> 8.4.53 इति शकारस्य जकारः] → भ्रज्जनीय एवमेव मस्ज्-धातोः विषये अपि अनेन सूत्रेण जश्त्वे कृते मज्जनीय इति रूपं सम्भवति । 7. षकारस्य जश्त्वे कृते तस्य स्थाने उच्चारणस्थानसाधर्म्यम् अनुसृत्य आन्तरतम्येन डकारः विधीयते । यथा, द्विष्-धातोः आत्मनेपदस्य लोट्लकारस्य मध्यमपुरुष-बहुवचनस्य रूपसिद्धौ प्रकृतसूत्रेण षकारस्य जश्त्वम् विधीयते — द्विषँ (अप्रीतौ, अदादिः, उभयपदी, <{2.3}>) → द्विष् + लोट् [<<लोट् च>> 3.3.162 इति लोट्] → द्विष् + ध्वम् [<<तिप्तस्झि..>> 3.4.78 इति आत्मनेपदस्य मध्यमपुरुषबहुवचनस्य विवक्षायाम् ध्वम्-प्रत्ययः] → द्विष् + शप् + ध्वम् [<<कर्तरि शप्>> 3.1.68 इति विकरणप्रत्ययः शप्] → द्विष् + ध्वम् [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शप्-प्रत्ययस्य लुक्] → द्विष् + ढ्वम् [<<ष्टुना ष्टुः>> 8.4.41 इति धकारस्य ष्टुत्वे ढकारः] → द्विड् + ढ्वम् [<<झलां जश् झशि>> 8.4.53 इति झलि परे षकारस्य जश्त्वे डकारः] → द्विड्ढ्वम् 8. सकारस्य जश्त्वे कृते तस्य स्थाने उच्चारणस्थानसाधर्म्यम् अनुसृत्य आन्तरतम्येन दकारः विधीयते । । यथा, भ्रस्ज्-धातोः ण्यत्-प्रत्यये परे इयं प्रक्रिया भवति — भ्रस्जँ (पाके, तुदादिः, <{6.4}>) → भ्रस्ज् + ण्यत् [<<ऋहलोर्ण्यत्>> 3.1.124 इति ण्यत्-प्रत्ययः] → भ्रस्ग् + य [<<चजोः कु घिण्ण्यतोः>> 7.3.52 इति जकारस्य कुत्वे तत्सदृशः वर्गतृतीयः गकारः] → भ्रद् ग् + य [गकारे परे सकारस्य <<झलां जश् झशि>> 8.4.53 इति जश्त्वे दकारः] → भ्रद्ग्य 9.हकारस्य प्रकृतसूत्रेण जश्त्वम् नैव सम्भवति, यतः <<हो ढः>> 8.2.31 इत्यनेन हकारस्य झलि परे ढकारादेशः भवति ।

Balamanorama

Up

<<झलां जश् झशि>> - झलाञ्जश् झशि । स्पष्टमिति । झलां स्थाने जश् स्यात् झशि परत इति सप्ष्टार्थकम् । तत्र न किञ्चिद्व्याख्यातव्यमस्ति, पदान्तरस्यानुवृत्त्यभावादित्यर्थः । इति धकारस्येति । प्रथमधकारस्येत्यर्थः । दकार इति । स्थानत आन्तर्यादिति भावः ।

Padamanjari

Up

उदाहरणेषु भ-घ-धानां ब-ग-दाः ॥