8-2-64 मः नः धातोः पदस्य पूर्वत्र असिद्धम्
मः धातोः पदस्य नः
धातोः पदान्ते विद्यमानस्य मकारस्य नकारादेशः भवति ।
A मकार occurring at end of a धातु which in turn occurs at end of a पद is converted to नकार.
मकारान्तस्य धातोः पदस्य नकारादेशो भवति। प्रशान्। प्रतान्। प्रदान्। शमितमिदमादीनां क्विप्। <<अनुनासिकस्य क्विझलोः क्ङिति>> ६.४.१५ इति दीर्घत्वम्। नत्वस्यासिद्धत्वाद् नलोपो न भवति। म इति किम्? भित्। छित्। धातोरिति किम्? इदम्। किम्। पदस्येत्येव — प्रतामौ। प्रतामः॥
धातोर्मस्य नः स्यात्पदान्ते । नत्वस्यासिद्धत्वान्नलोपो न । प्रशाम्यतीति प्रशान् । प्रशामौ । प्रशामः । प्रशान्भ्यामित्यादि ॥
धातोर्मस्य नः पदान्ते। प्रशान्॥
अस्य सूत्रस्य अर्थम् ज्ञातुमस्मिन् शब्दे उपस्थितानां शब्दानाम् परस्परसम्बन्धः कथम् कर्तव्यः तत् आदौ पश्यामः - अ) 'मः धातोः' इत्यत्र <<येन विधिस्तदन्तस्य>> इत्यनेन 1.1.72 इत्यनेन 'मकारान्तधातोः' इति अर्थः जायते । आ) 'धातोः पदस्य' इत्यत्र <<पदाङ्गाधिकारे तस्य च तदन्तस्य च>> इत्यनेन 'धात्वन्तस्य पदस्य' इति अर्थः जायते । इ) 'पदस्य नः' इत्यत्र <<अलोऽन्त्यस्य>> 1.1.52 इत्यनेन 'पदस्य अन्तिमवर्णस्य नकारादेशः' इति अर्थः जायते । अतः अस्य सूत्रस्य सम्पूर्णः अर्थः अयम् - यस्य पदस्य अन्ते धातोः मकारः अस्ति, तस्य मकारस्य नकारादेशः भवति । यथा, 'प्र+शम्' अस्मात् धातोः क्विप्-प्रत्यये परे <<अनुनासिकस्य क्विझलोः क्ङिति>> 6.4.15 इत्यनेन अङ्गस्य उपधादीर्घे कृते 'प्रशाम्' इति प्रातिपदिकं सिद्ध्यति । अत्र 'शाम्' इत्यस्य <<क्विबन्ताः धातुत्वं न जहति>> इत्यनेन धातुसंज्ञा अपि अस्ति । अस्य शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् 'प्रशाम् + सुँ' इत्यत्र <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इत्यनेन सुँलोपे कृते, <<प्रत्ययलोपे प्रत्ययलक्षणम्>> 1.1.62 इत्यनुसृत्य <<सुप्तिङन्तं पदम्>> 1.4.14 इत्यनेन 'प्रशाम्' इत्यस्य पदसंज्ञा भवति । अस्यामवस्थायाम् वर्तमानसूत्रेण अस्य अन्ते विद्यमानस्य मकारस्य नकारादेशः भवति, अतः 'प्रशान्' इति प्रथमैकवचनस्य रूपं सिद्ध्यति । तथैव प्र+दम्+क्विप् → प्रदाम् इत्यस्य प्रथमैकवचनम् प्रदान्, तथा प्र + तन् + क्विप् → प्रताम् इत्यस्य प्रथमैकवचनम् प्रतान् - एते अपि सिद्ध्यतः । अन्यानि उदाहरणानि - 1. प्रशाम् + भ्याम् → प्रशान् + भ्याम् → प्रशान्भ्याम् 2. प्रशाम् + सुप् → प्रशान् सु [<<मो नो धातोः>> 8.2.64 → प्रशान् सु / प्रशान् ध् सु [<<नश्च>> 8.3.30 इति वैकल्पिकः धुडागमः] → प्रशान्सु / प्रशान्त्सु [<<खरि च>> 8.4.55 इति चर्त्वम्] ज्ञातव्यम् - प्रशान्, प्रदान्, प्रतान् इत्यत्र <<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इत्यस्य असिद्धत्वात् नकारलोपः न भवति ।
<<मो नो धातोः>> - अथ मकारान्ताः । अथ प्रपूर्वात्शमुधातोः क्विपिअनुनासिकस्य क्वझलोः क्ङिति॑ इति दीर्घे सति निष्पन्ने प्रशाम्शब्दो विशेषमाह — मो नो धातोः । 'म' इति षष्ठन्तंधातो॑रित्यस्य विशेषणं, ततस्तदन्तविधिः । पदस्येत्यधिकृतं, 'स्कोः संयोगाद्योः' इत्यतोऽन्ते इत्यनुवर्तते । तदाह-मान्तस्येत्यादिना ।अलो ।ञन्त्यस्ये॑ति मकारस्य भवति । तत्र सोर्हल्ङ्यादिलोपे सति नकारस्य प्रातिपदिकान्तत्वात्पदान्तत्वाच्चन लोपः प्रातिपदिकान्तस्ये॑ति नलोपमाशङ्क्याह — नत्वस्येति । प्रशानिति । स्वरादिपाठेऽप्यस्य नाव्ययत्वं, सत्त्ववाचित्वात् । असत्त्ववाचित्वे तु स्वरादिपाठाद्वययत्वमेवेति भावः । प्रशान्भ्यामिति । भ्यामादो हलिस्वादिष्वसर्वनामस्थाने॑ इति पदत्वान्नत्वमिति भावः । इत्यादीति । प्रशान्भिः । प्रशामे । प्रशान्भ्यः । प्रशामः । प्रशामः । प्रशामोः । प्रशामाम् । प्रशामि प्रशान्त्सु-प्रशान्सु ।नश्चेति॑धृड्विकल्पः । अथ कायतेर्ङिमिरिति निष्पन्नः किम्शब्दः प्रष्टव्ये वर्तते ।
नलोपो न भवतीति ॥ नत्वं तु लोपार्थमेव स्यादिति मन्यते ॥