प्लुतप्रगृह्या अचि नित्यम्

6-1-125 प्लुतप्रगृह्याः अचि नित्यम् संहितायाम् अचि प्रकृत्या

Sampurna sutra

Up

प्लुत-प्रगृह्याः अचि नित्यम् प्रकृत्या

Neelesh Sanskrit Brief

Up

प्लुतवर्णेभ्यः प्रगृह्यसंज्ञकशब्देभ्यः अनन्तरम् संहितायाम् स्वरः विद्यते चेद् अपि तत्र सन्धिः न भवति ।

Neelesh English Brief

Up

प्लुत letters and प्रगृह्य words do not undergo a सन्धि when followed by an अच्-letter, even when there is संहिता.

Kashika

Up

प्लुताश्च प्रगृह्याश्चाचि प्रकृत्या भवन्ति। देवदत्त३ अत्र न्वसि। यज्ञदत्त३ इदमानय। आश्रयादत्र प्लुतः सिद्धः। प्रगृह्याः — अग्नी इति। वायू इति। खट्वे इति। माले इति। अचीत्यनुवर्तमाने पुनरज्ग्रहणमादेशनिमित्तस्याचः परिग्रहार्थम्। तेनेह न भवति — जानु उ अस्य रुजति, जान्वस्य रुजति। प्रगृह्यादुकारात् परस्याकारस्य सवर्णदीर्घत्वं प्रत्यनिमित्तत्वादत्र प्रकृतिभावो न भवति। नित्यग्रहणमिहानुवर्तते। प्लुतप्रगृह्याणां नित्यमयमेव प्रकृतिभावो यथा स्याद् <<इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च>> ६.१.१२७ इत्येतन् मा भूदिति॥

Siddhanta Kaumudi

Up

प्लुताः प्रगृह्याश्च वक्ष्यन्ते तेऽचि परे नित्यं प्रकृत्या स्युः । एहि कृष्ण 3 अत्र गौश्चरति । हरी एतौ । नित्यम् इति किम् । हरी एतावित्यादावयमेव प्रकृतिभावो यथा स्यात् इकोऽसवर्णे <{SK91}> इति ह्रस्वसमुच्चितो माभूत् ॥

Laghu Siddhanta Kaumudi

Up

एतेऽचि प्रकृत्या स्युः। आगच्छ कृष्ण ३ अत्र गौश्चरति॥

Neelesh Sanskrit Detailed

Up

प्लुतसंज्ञकवर्णाः, प्रगृह्यसंज्ञकशब्दाः च तेभ्यः अनन्तरम् विद्यमानैः अच्-वर्णैः सह सन्धिकार्यम् न कुर्वन्ति, प्रकृत्या (मूलस्वरूपे) एव तिष्ठन्ति इति प्रकृतसूत्रस्य अर्थः । क्रमेण उदाहरणे एते - 1. प्लुतवर्णानाम् अचि प्रकृतिभावः — <<ऊकालोऽज्झ्रस्वदीर्घप्लुतः>> 1.2.27 इत्यनेन स्वराणाम् ह्रस्व-दीर्घ-प्लुतादयः भेदाः कृताः सन्ति । त्रिमात्रिकः स्वरः प्लुतसंज्ञकः भवति इति अस्य सूत्रस्य आशयः । शब्देषु मूलरूपेण प्लुतस्वरः कुत्रापि न दृश्यते, परन्तु <<वाक्यस्य टेः प्लुतः उदात्तः>> 8.2.82 इत्यस्मिन् अधिकारे विद्यमानैः 27-सूत्रैः भिन्नेषु सन्दर्भेषु स्वराणाम् प्लुतसंज्ञा दीयते । एतैः सूत्रैः सिद्धः प्लुतः स्वरः तस्मात् अग्रे विद्यमानेन अच्-वर्णेन सह सन्धिकार्यम् न करोति इति प्रकृतसूत्रस्य आशयः । यथा, एहि कृष्ण3, अत्र गौश्चरति अस्मिन् वाक्ये कृष्ण-शब्दस्य अन्तिम-अकारस्य <<दूराद्धूते च>> 8.2.84 इत्यनेन प्लुतसंज्ञायाम् कृतायाम् तस्य अत्र-शब्दस्य अकारेण सह संहितायाम् सवर्णदीर्घः न भवति । 2. प्रगृह्यशब्दानाम् अचि प्रकृतिभावः — <<ईदूदेद् द्विवचनम् प्रगृह्यम्>> 1.1.11 इत्यस्मात् सूत्रात् <<ईदूतौ च सप्तम्यर्थे>> 1.1.19 एतेषु नव सूत्रेषु प्रगृह्यसंज्ञा पाठिता अस्ति । एतैः सूत्रैः सिद्धः प्रगृह्यसंज्ञकः वर्णः / शब्दः तस्मात् अग्रे विद्यमानेन अच्-वर्णेन सह सन्धिकार्यम् न करोति इति प्रकृतसूत्रस्य आशयः । यथा, मुनी एतौ इत्यत्र मुनी-शब्दस्य <<ईदूदेद् द्विवचनम् प्रगृह्यम्>> 1.1.11 इति सूत्रेण प्रगृह्यसंज्ञायाम् कृतायाम् तस्य एतौ-शब्दे परे संहितायाम् यणादेशः न भवति । बाध्यबाधकभावः प्रकृतसूत्रम् सर्वेषाम् अपि अच्-सन्धि-विधायकसूत्राणाम् बाधकरूपेण प्रवर्तते । इत्युक्ते, प्लुतस्वरात् प्रगृह्यस्वरात् च संहितायाम् अच्-वर्णः विद्यते चेत् कोऽपि अच्-सन्धिः कदाऽपि नैव सम्भवति । अपि च, प्रकृतसूत्रे 'नित्यम्' इति ग्रहणसामर्थ्यात् इदं सूत्रम् <<इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च>> 6.1.127 इति सूत्रस्य बाधकरूपेण प्रवर्तते । इत्युक्ते, यत्र <<इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च>> 6.1.127 तथा च <<प्लुतप्रगृह्या अचि नित्यम्>> 6.1.125 इति द्वयोः अपि सूत्रयोः प्रसक्तिः अस्ति, तत्र <<इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च>> 6.1.127 इत्यनेन विकल्पेन प्रकृतिभावे उक्ते, तद्बाधित्वा प्रकृतसूत्रेण नित्यम् एव प्रकृतिभावः विधीयते । अतएव, मुनी इतौ इत्यत्र यद्यपि <<इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च>> इत्यस्य प्राप्तिः अस्ति, तथापि तद्बाधित्वा मुनी-शब्दस्य प्रगृह्यसंज्ञां दृष्ट्वा <<प्लुतप्रगृह्याः अचि नित्यम्>> 6.1.125 इत्येव सूत्रम् प्रवर्तते, येन अत्र नित्यम् प्रकृतिभावः भवति । पूर्वम् विद्यमानस्य अच्-वर्णस्य विषये प्रकृतिभावः न भवति प्रकृतसूत्रे 'अचि' इति सप्तम्यन्तपदेन परनिमित्तस्यैव निर्देशः भवति । इत्युक्ते, यत्र सन्धिकार्ये प्लुतसंज्ञकात् / प्रगृह्यसंज्ञकात् वा अनन्तरम् अच्-वर्णः विद्यते, तत्रैव अनेन सूत्रेण प्रकृतिभावः भवति । यदि प्लुतसंज्ञकात् / प्रगृह्यसंज्ञकात् पूर्वम् अच्-वर्णः अस्ति, तर्हि तत्र सन्धिकार्यम् अवश्यम् भवति । यथा — जानु उ अत्र ['उ' इति अव्ययस्य <<निपात एकाजनाङ्>> 1.1.14 इत्यनेन प्रगृह्यसंज्ञा ] → जानू अत्र [जानु-शब्दस्य उकारस्य 'उ' इति प्रगृह्यसंज्ञकेन सह <<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घैकादेशः भवति । अत्र प्रगृह्यसंज्ञकस्य पूर्ववर्णेन सह सन्धिः कृता अस्ति अतः <<प्लुतप्रगृह्या अचि नित्यम्>> 6.1.125 इति सूत्रम् अत्र न प्रवर्तते ।] → जानू अत्र, जान्वत्र [दीर्घ-ऊकारः आदिवद्भावेन प्रगृह्यसंज्ञां प्राप्नोति, अतः अकारे परे <<इको यणचि>> 6.1.77 इत्यनेन तस्य यणादेशे प्राप्ते <<प्लुतप्रगृह्या अचि नित्यम्>> 6.1.125 इत्यनेन प्रकृतिभावः अवश्यम् भवति । परन्तु <<मय उञो वो वा>> 8.3.33 इति सूत्रेण 'उ' इति निपातस्य अचि परे विकल्पेन वकारादेशः अपि भवति । इदम् सूत्रम् 'उ' इति निपातविशिष्टम् अस्ति, अतः <<प्लुतप्रगृह्या अचि नित्यम्>> 6.1.125 इत्यनेन अस्य बाधः न भवति । अतः उकारस्य पाक्षिके वकारादेशे कृते 'जान्वत्र' इत्यपि रूपं सिद्ध्यति ।]

Balamanorama

Up

<<प्लुतप्रगृह्या अचि नित्यम्>> - अथ प्रकृतिभाव इति । 'निरूप्यते' इति शेषः । प्लतुप्रगृह्राः । वक्ष्यन्त इति ।दूराद्धूते चे॑त्यादिना, ईदूदेदित्यादिना चेत्यर्थः । प्रकृत्येति । 'प्रकृत्यान्तः पाद' मित्यतदस्तदनुवृत्तेरिति भावः । प्रकृत्या स्वभावेनाऽवस्थिताः स्युरित्यर्थः । सन्धयो न भवन्तीति यावत् । एहि कृष्णा३ अत्रेति ।दूराद्धूते चे॑ति णकारादकारः प्लुतः । तस्य अकारे न सवर्णदीर्घः । हरी एताविति ।ईदूदे॑दिति रेफादीकारः प्रगृह्रः । तस्य यणादेशो न भवति । ननु सर्वत्र विभाषेति पूर्वसूत्रे विभाषेत्यस्याऽस्वरितत्वादेव निवृत्तिसिद्धेरिह नित्यग्रहणं किमर्थमिति पृच्छति-नित्यमिति किमिति । उत्तरमाह-हरी एताविति । नित्यग्रहणे सत्येव हरी एतावित्यादौप्लुतप्रगृह्रा अची॑ त्ययमेव केवलः प्रकृतिभावः स्यादित्यर्थः ।यथा॑शब्दो योग्यतायाम् । अयमेव प्रकृतिभावः प्राप्तुं योग्यः । स च नित्यग्रहणे सति प्राप्नुयादित्यर्थः । एवमग्रेऽप्येवंजातीयकेषु ।एव॑शब्दव्यवच्छेद्यं दर्शयति-इक इति ।इकोऽसवर्णे शाकल्यस्य ह्रस्वश्चे॑ति वक्ष्यमाणः ह्रस्वसमुच्चितः प्रकृतिभावो माभूत्=न भवेत् । माङि लुङ् । सर्वलकारापवादः । अकृते सति नित्यग्रहणे परत्वाच्छाकलह्रस्वसहितप्रकृतिभावः प्रसज्येत । नित्यग्रहणे कृते तु तत्सामर्थ्यादेव परमपि शाकलं ह्रस्वसमुच्चितप्रक-तिभावं 'प्लुतप्रगृह्रा' इति केवलः प्रकृतिभावो बाधत इत्यर्थः ।

Padamanjari

Up

ननु यस्य विकारः प्राप्तस्तस्य प्रकृतिभावो विधेयः, न च प्लुतस्य विकारः प्राप्तः, स्वरसन्धिषु तस्यासिद्धत्वात्? इत्यत आश्रयात्प्लुतः सिद्धः इति। यदिदं प्लुतस्य प्रकृतिभावं प्रति कायित्वेनाश्रयणम्, आह -अस्मादेव ज्ञापकात्'स्वरसन्धिषु प्लुतः सिद्धः' इति कल्प्यत इत्यर्थः। आदेशनिमितस्याचः परिग्रहार्थमिति। यस्मिन्नादेशो विधीयते स एव प्रकृतिभावस्यापि निमितत्वेन परिगृहीतो यथा स्यादित्येवमर्थमित्यर्थः। जानु उ अस्येति। उञ् निपातः, तस्य पूर्वेण सहैकादेशस्य यन्निमितं न सप्रगृह्यादुतरः, यश्च ततः परो न स एकादेशस्य निमितमिति प्रकृतिभावाभावादेकादेशो भवत्येव। असति पुनरज्ग्रहणे'प्रगृह्यए' चि परतः प्रकृत्या भवतिऽ इत्युच्यमाने पूर्वेणसह यो विकारः प्राप्तस्तस्यापि प्रकृतिभावः स्यात्। पुनरज्ग्रहणे तु न भवति, तत्रैकादेशे कृते तस्यादिवद्भावात्प्रगृह्यग्रहणेन ग्रहणात्। ठिको यणचिऽ इति यणादेशः प्रकृतिवद्भावान्न भवति,'मय उञो वो वा' इति पक्षे वकारः। नित्यग्रहणमनुवर्तत इति। पूर्वसूत्रे नित्यग्रहणमेतदर्खमेव कृतम्, तत्र त्वारन्भसामर्थ्यादेव नित्यो विधिः सिद्धः। नित्यमेव प्रकृतिभावो यथा स्यादिति। अयमेव प्रकृतिभावो नित्यं यथा स्यात्, शास्त्रान्तरेण कार्यान्तरसहितो मा भूदित्यर्थः ॥