ढ्रलोपे पूर्वस्य दीर्घोऽणः

6-3-111 ढ्रलोपे पूर्वस्य दीर्घः अणः उत्तरपदे

Sampurna sutra

Up

index: 6.3.111 sutra: ढ्रलोपे पूर्वस्य दीर्घोऽणः


ढ्रलोपे पूर्वस्य अणः दीर्घः

Neelesh Sanskrit Brief

Up

index: 6.3.111 sutra: ढ्रलोपे पूर्वस्य दीर्घोऽणः


ढलोपनिमित्तके ढकारे परे ढकारलोपे कृते , रलोपनिमित्तके रेफे परे रलोपे कृते वा, तस्मात् पूर्वस्य अण्-वर्णस्य दीर्घः भवति ।

Neelesh English Brief

Up

index: 6.3.111 sutra: ढ्रलोपे पूर्वस्य दीर्घोऽणः


When a ढकार is deleted due to a ढकार that follows it, or when a रेफ is deleted due to a रेफ that follows the अण् letter occurring before the deleted ढकार/रेफ becomes दीर्घ.

Kashika

Up

index: 6.3.111 sutra: ढ्रलोपे पूर्वस्य दीर्घोऽणः


ढकाररेफयोः लोपः यस्मिन् स ढ्रलोपः, तत्र पूर्वस्य अणः दीर्घो भवति। लीढम्। मीढम्। उपगूढम्। मूढः। रलोपे नीरक्तम्। अग्नीरथः। इन्दूरथः। पुना रक्तं वासः। प्राता राजक्रयः। पूर्वग्रहणमनुत्तरपदेऽपि पूर्वमात्रस्य दीर्घार्थम्। अणः इति किम्? आतृढम्। आवृढम्।

Siddhanta Kaumudi

Up

index: 6.3.111 sutra: ढ्रलोपे पूर्वस्य दीर्घोऽणः


ढरेफौ लोपयतीति तथा तस्मिन्वर्णेऽर्थाद् ढकाररेफात्मके परे पूर्वस्याणो दीर्घः स्यात् । पुनारमते । हरीरम्यः । शंभूराजते । अणः किम् । तृढः । वृढः । तृहू हिंसायाम् । वृहू उद्यमने । पूर्वग्रहणमनुत्तरपदेऽपि पूर्वमात्रस्य दीर्घार्थम् । लीढः । अजर्घाः । मनस् रथ इत्यत्र रुत्वे कृते हशि चेत्युत्वे रोरीति लोपे च प्राप्ते ॥

Laghu Siddhanta Kaumudi

Up

index: 6.3.111 sutra: ढ्रलोपे पूर्वस्य दीर्घोऽणः


ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः। पुना रमते। हरी रम्यः। शम्भू राजते। अणः किम्? तृढः। वृढः। मनस् रथ इत्यत्र रुत्वे कृते हशि चेत्युत्वे रोरीति लोपे च प्राप्ते -

Neelesh Sanskrit Detailed

Up

index: 6.3.111 sutra: ढ्रलोपे पूर्वस्य दीर्घोऽणः


अण् = अ, आ, इ, ई, उ, ऊ । अत्र पूर्वेण णकारेण प्रत्याहारनिर्माणम् ।

अण्-वर्णात् परः यः ढकारः, तस्य ढकारे परे लोपे कृते अण्-वर्णस्य दीर्घः भवति । एवमेव, अण्-वर्णात् परः यः रेफः, तस्य रेफे परे लोपे कृते अण्-वर्णस्य दीर्घः भवति ।

अस्य सूत्रस्य प्रसक्तिः तदा एव विद्यते यदा ढकारलोपःढो ढे लोपः 8.3.13 इत्यनेन क्रियते, तथा च रेफलोपः रो रिः 8.3.14 इत्यनेन क्रियते । अतएव, निर्देशसामर्थ्यात् अस्य सूत्रस्य कृते ढो ढे लोपः 8.3.13 तथा च रो रिः 8.3.14 इति द्वे सूत्रे सिद्धे भवतः ।

क्रमेण उदाहरणानि एतानि —

1. ढकारलोपे कृते अण्-वर्णस्य दीर्घादेशः —

  1. लिह्-धातोः लोट्लकारस्य मध्यमपुरुषस्य बहुवचनस्य रूपसिद्धौ प्रकृतसूत्रेण इकारस्य दीर्घः भवति —

लिहँ (आस्वादने, अदादिः, उभयपदी, <{2.6}>)

→ लिह् + लोट् [लोट् च 3.3.162 इति लोट्]

→ लिह् + ध्वम् [लोट्लकारस्य मध्यमपुरुषबहुवचनस्य विवक्षायाम् तिप्तस्झि.. 3.4.78 इति ध्वम्-प्रत्ययः]

→ लिह् + शप् + ध्वम् [कर्तरि शप् 3.1.68 इति शप्-विकरणप्रत्ययः]

→ लिह् + ध्वम् [अदिप्रभृतिभ्यः शपः 2.4.72 इति शप्-प्रत्ययस्य लुक्]

→ लिढ् + ध्वम् [हो ढः 8.2.31 इति ढत्वम्]

→ लिढ् + ढ्वम् [झषस्तथोर्धोऽधः 8.2.40 इति ढत्वम्]

→ लि + ढ्वम् [ढो ढे लोपः 8.3.13 इति ढकारलोपः]

→ लीढ्वम् [ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 इति अण्-वर्णस्य दीर्घः]

  1. गुह् -धातोः क्त-प्रत्ययान्तरूपस्य सिद्धौ प्रकृतसूत्रेण उकारस्य दीर्घः भवति —

गुहूँ (संवरणे, भ्वादिः, <{1.1043}>)

→ गुह् + क्त [निष्ठा 3.2.102 इति सूत्रेण क्त-प्रत्ययः]

→ गुढ् + त [ हो ढः 8.2.31 इति ढत्वम्]

→ गुढ् + ढ [झषस्तथोर्धोऽधः 8.2.40 इति भष्भावे ढत्वम्]

→ गु + ढ [ढो ढे लोपः 8.3.13 इति ढकारस्य ढकारे परे लोपः]

→ गूढ [लुप्तढकारात् पूर्वस्य इकारस्य ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 इति दीर्घः]

2. रेफलोपे कृते अण्-वर्णस्य दीर्घादेशः —

  1. पुनर्-इति अव्ययस्य रेफस्य लोपे कृते नकारात् अनन्तरम् विद्यमानस्य अकारस्य दीर्घः भवति —

पुनर् + रमते

→ पुन + रमते [रो रि [8.3.14]] इति रेफस्य लोपः]

→‌ पुना रमते [ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 इति लुप्तरेफात् पूर्वस्य अण्-वर्णस्य दीर्घः]

  1. इवर्णान्तशब्देभ्यः उवर्णान्तशब्देभ्यः विहितस्य सुँ-प्रत्ययस्य रुँत्वे कृते तस्य रो रि 8.3.14 इत्यनेन लोपः भवति चेत् इवर्णस्य / उवर्णस्य प्रकृतसूत्रेण दीर्घः भवति —

हरि / शम्भु + सुँ + राजते

→ हरि / शम्भु + रुँ + राजते [ससजुषो रुँः 8.2.66 इति रुँत्वम्]

→ हरि+ शम्भु + र् + राजते [उपदेशेऽजनुनासिक इत् 1.3.2 इति उकारस्य इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः]

→ हरि + शम्भु + राजते [रो रि 8.3.14 इति रेफलोपः]

→ हरी / शम्भू राजते [ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 इति अण्-वर्णस्य दीर्घः]

  1. निर् इति उपसर्गस्य अन्ते विद्यमानस्य पदान्तरेफस्य रेफे परे प्रकृतसूत्रेण लोपः भवति —

निर्गतः रसः यस्य सः [अनेकमन्यपदार्थे 2.2.24 इति बहुव्रीहिसमासः]

→ निर् + रस [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुँलोपः]

→ नि रस [रो रि 8.3.14 इति रेफस्य रेफे परे लोपः]

→‌ नीरस [ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 इति दीर्घः]

  1. सिद्धान्तकौमुद्याम् अत्र अजर्घाः इति शब्दः उदाहरणरूपेण दत्तः अस्ति ।गृधुँ-धातोः यङ्लुकि लङ्लकारस्य मध्यमपुरुषैकवचनस्य रूपम् इदम् । अस्य सिद्धिः इयम् —

गृधुँ (अभिकाङ्क्षायाम्, दिवादिः, <{4.161}>)

→ गृध् + यङ् [धातोरेकाचो हलादेः क्रियासमभिहारे यङ् 3.1.22 इति यङ्-प्रत्ययः । ]

→ गृध् [यङोऽचि च 2.4.74 इत्यत्र चकारग्रहणसामर्थ्यात् अच्-प्रत्ययभिन्नस्थले अपि यङ्-प्रत्ययस्य लुक् भवति । अन्तरङ्गात् अयम् द्वित्वात् पूर्वं भवति ।]

→ गृध् गृध् [सन्यङोः 6.1.9 इति द्वित्वम्]

→ गृ गृध् [हलादिः शेषः 7.4.60 इति अभ्यासस्य हलादिः अवशिष्यते ]

→ गर् गृध् [गुणो यङ्लुकोः 7.4.82 इति इगन्तस्य अभ्यासस्य गुणः । उरण् रपरः 1.1.51 इति सः रपरः]

→ ग गृध् हलादिः शेषः 7.4.60 इति अभ्यासस्य हलादिः अवशिष्यते ]

→ ग रुक् गृध् [रुग्रिकौ च लुकि 7.4.91 इति यङ्लुकि रुगागमः]

→ गर् गृध् [इत्संज्ञालोपः । रेफोत्तरः उकारः उच्चारणार्थः, सोऽपि लुप्यते ।]

→ जर्गृध् [कुहोश्चुः 7.4.62 इति अभ्यासस्य चुत्वम् । ]

→ जर्गृध् + लङ् [सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा । ततः अनद्यतने लङ् 3.2.111 इति लङ्]

→ अट् + जर्गृध् + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]

→ अ + जर्गृध् + सिप् [तिप्तस्झि... 3.4.78 इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]

→ अ + जर्र्गृध् + स् [हलन्त्यम् 1.3.3 इति पकारस्य इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः । इतश्च 3.4.100 इति इकारलोपः]

→ अ + जगृध् + शप् + सि [कर्तरि शप् 3.1.68 इति शप्]

→ अ + जर्गृध् + अ + सि [शकारपकारयोः इत्संज्ञा, लोपः]

→ अ + जर्गृध् + स् [यङ्लुङन्ताः नित्यम् अदादिगणे एव स्वीक्रियन्ते, अतः तेभ्यः विहितस्य शप्-प्रत्ययस्य अदिप्रभृतिभ्यः शपः 2.4.72 इति लुक् भवति ।]

→ अ + जर्गर्ध् + स् [पुगन्तलघूपधस्य च 7.3.86 इति ऋकारस्य गुणः । उरण् रपरः 1.1.51 इति सः रपरः]

→ अ + जर्गर्ध् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति अपृक्तसकारस्य लोपः]

→ अ + जर्घर्ध् [एकाचो बशो भष् झषन्तस्य स्ध्वोः 8.2.37 इति गकारस्य भष्भावे घकारः]

→ अ + जर्घर्द् [झलां जशोऽन्ते 8.2.39 इति पदान्तधकारसस्य जश्त्वे दकारः]

→ अ + जर्घर् र् [दश्च 8.2.75 इति दकारस्य रेफः]

→ अ + जर्घ र् [रेफे परे रो रि 8.3.14 इति रेफस्य लोपः]

→ अ + जर्घा र् [ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 इति दीर्घः]

→ अजर्घाः [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]

अण्-ग्रहणम् पूर्वेण णकारेण

अस्मिन् सूत्रे विद्यमानः अण् इति प्रत्याहारः अइउण् इति सूत्रस्थणकारेण सिद्ध्यति । इत्युक्ते, अनेन प्रत्याहारेण केवलम् अवर्ण-इवर्ण-उवर्णानाम् एव निर्देशः भवति । एतान् विहाय अन्यस्वराणाम् अनेन सूत्रेण दीर्घः न भवति इति अत्र आशयः । यथा, तृहूँ-धातोः क्त-प्रत्ययान्त-रूपस्य सिद्धौ ढकारलोपे कृते अपि प्रकृतसूत्रेण दीर्घः नैव विधीयते ।

तृहूँ (हिंसायाम्, <{6.75}>)

→ तृह् + क्त [निष्ठा 3.2.102 इति क्त-प्रत्ययः]

→ तृढ् + त [हो ढः 8.2.31 इति हकारस्य झलि परे ढकारः]

→ तृढ् + ध [झषस्तथोर्धोऽधः 8.2.40 इत्यनेन तकारस्य धकारः]

→ तृढ् + ढ [ष्टुना ष्टुः 8.4.41 इति ष्टुत्वे धकारस्य ढकारः]

→ तृढ [ढो ढे लोपः 8.3.13 इति ढकारे परे ढकारस्य लोपः]


अत्र ढकारलोपे कृते अपि ऋकारस्य ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 इति दीर्घः न भवति यतः अण्-प्रत्याहारे ऋकारः न स्वीक्रियते ।

<qt>ढ्रलोपः</qt> इति शब्दस्य अर्थः

अस्मिन् सूत्रे प्रयुक्तः ढ्रलोपः इति शब्दः ढकारस्य, रेफस्य च विशेषणरूपेण प्रयुक्तः अस्ति । ढ्रलोपः इत्युक्ते सः ढकारः / रेफः, येन पूर्वम् विद्यमानस्य ढकारस्य / रेफस्य लोपः कृतः अस्ति । अतः ढ्रलोपे परे (= ढकारलोपकारिणि ढकारे परे, रेफलोपकारिणि रेफे वा परे) पूर्वस्य अणः दीर्घः भवति इति सूत्रार्थः अत्र घटते ।

सूत्रे 'पूर्वस्य' इति शब्दस्य प्रयोजनम्

प्रकृतसूत्रे ढ्रलोपे इति सप्तम्यन्तम् पदम् प्रयुक्तम् अस्ति । तस्मिन्निति निर्दिष्टे पूर्वस्य 1.1.66 इत्यनेन सप्तमी विभक्तिः परनिमित्तं दर्शयति, अतः अत्र सप्तमीविभक्तेः प्रयोगेण एव 'पूर्वस्य' इति अर्थः अवश्यम् स्पष्टी भवति । तथापि अस्मिन् सूत्रे पाणिनिः पूर्वस्य इति पदं स्थापयति । अस्य किं कारणम् इति चेत्, प्रकृतसूत्रम् अलुगुत्तरपदे 6.3.1 इति उत्तरपदाधिकारे पाठ्यते । अस्मिन् अधिकारे पाठितानां सूत्राणां प्रयोगः प्रायेण तदा एव भवति यदा स्थानी पूर्वपदे, निमित्तं च उत्तरपदे विद्यते । यथा, पुनर् रमते इत्यत्र रो रि 8.3.14 इत्यनेन रेफलोपे कृते पुन रमते इति प्राप्ते; नकारोत्तरः अकारः (अण्-वर्णः) पूर्वपदे विद्यते, ढ्रलोपः (इत्युक्ते, रेफस्य लोपकारी रेफः) च उत्तरपदे विद्यते — अस्यां स्थितौ प्रकृतसूत्रेण पूर्वपदस्थस्य अण्-वर्णस्य उत्तरपदस्थरेफेण दीर्घः भवति । परन्तु, बहुषु स्थलेषु, यत्र निमित्तं स्थानी च एकस्मिन् एव पदे स्तः, तत्र अपि वर्तमानसूत्रस्य प्रयोगः इष्यते । एतदेव ज्ञापयितुम् अस्मिन् सूत्रे पूर्वस्य इति पदं स्थापितम् अस्ति । एतादृशं क्रियते अतएव उपरि निर्दिष्टासु लीढ, अजर्घाः एतादृशेषु स्थलेषु समानपदे विद्यमानेन रेफेण दीर्घादेशः सम्भवति । एतमेव बिन्दुं स्पष्टीकर्तुं काशिकाकारः ब्रूते — पूर्वग्रहणमनुत्तरपदेऽपि पूर्वमात्रस्य दीर्घार्थम् । उत्तरपदम् नास्ति चेदपि पूर्वस्यैव दीर्घः भवेत्, इति पूर्वग्रहणस्य प्रयोजनम् — इति अस्य आशयः ।

बाध्यबाधकभावः

सहिवहोरोदवर्णस्य 6.3.112 इति सूत्रम् प्रकृतसूत्रस्य अपवादरूपेण प्रवर्तते सह् तथा वह् धात्वोः अकारस्य प्रकृतसूत्रेण प्राप्तं दीर्घं बाधित्वा सहिवहोरोदवर्णस्य 6.3.112 इत्यनेन ओकारादेशः भवति ।

त्रिपादीसूत्रयोः आश्रयात् सिद्धत्वम्; प्रकृतसूत्रस्य सपादसप्ताध्याय्यां उपस्थितिः चिन्त्या एव

यद्यपि एतत् सूत्रम् सपादसप्ताध्याय्याम् विद्यते, तथापि अस्य सूत्रस्य प्रसक्तिः केवलं ढो ढे लोपः 8.3.13 उत रो रिः 8.3.14 इत्यस्मात् अनन्तरम् एव विद्यते । अतः अस्य सूत्रस्य कृते एते द्वे त्रिपादीसूत्रे आश्रयात् सिद्धे स्तः ।

वस्तुतस्तु, प्रकृतसूत्रस्य सपादसप्ताध्याय्याम् (उत्तरपदाधिकारे) स्थापनस्य प्रयोजनम् चिन्त्यम् एव । प्रकृतसूत्रात् अनन्तरम् केवलम् खरवसानयोर्विसर्जनीयः 8.3.15 इत्यस्यैव प्रयोगः भवितुम् अर्हति, अतः प्रकृतसूत्रम् रो रि 8.3.14 इत्यस्मात् अनन्तरम् संस्थाप्यते चेदपि नैव दोषाय । किञ्च, एतादृशं क्रियते चेत् प्रकृतसूत्रे विद्यमानः पूर्वस्य इति शब्दः अपि निष्कासयितुम् शक्यः —

(8.3.13) ढो ढे लोपः

(8.3.14) रो रि

(8.3.14अ) ढ्रलोपे दीर्घोऽणः — अत्र पूर्वस्य इति शब्दस्य ग्रहणम् नैव आवश्यकम्, यतः इदं सूत्रम् उत्तरपदाधिकारे नास्ति, अतः ढ्रलोपे इत्यत्र विद्यमानेन सप्तमीप्रयोगेनैव पूर्वस्य इति अर्थः स्पष्टी भवति ।

8.3.15 खरवसानयोर्विसर्जनीयः

एतादृशम् क्रियते चेद् सूत्रलाघवम् अपि जायते, आश्रयात् सिद्धत्वस्य अपि न काचित् आवश्यकता वर्तते ।

Balamanorama

Up

index: 6.3.111 sutra: ढ्रलोपे पूर्वस्य दीर्घोऽणः


ढ्रलोपे पूर्वस्य दीर्घोऽणः - ढ्रलोपे । ढच् रेफश्च ढ्रौ, तौ लोपयतीति-ढ्रलोपः । ण्यन्तात्कर्मण्युपपदे अण्, उपपदसमासः । ढलोपनिमित्तं रेफलोपनिमित्तञ्च विवक्षितम् । तच्च ढकाररेफात्मकमेव, ढो ढे लोपः, रो रीति तयोरेव ढ्रलोपनिमित्तत्वात् । तथाच ढलोपनिमित्ते ढकारे, रेफलोपनिमित्ते रेफे च परतः पूर्वस्याणो दीर्घ इत्यर्थः फलति । तदाह — ढरेफाविति ।ढलोपे रेफलोपे च पूर्वस्याणो दीर्घ॑ इति तु न व्याख्यातं, तथा सति चयनीयमित्यनीयप्र्रत्ययान्ते 'तस्य लोप' इति रेफलोपे यकारादकारस्य, चकार चचारेत्यादौ अभ्यासे अकारस्य च हलादिशेषेण रेफलोपे दीर्घापत्तेः । पुना रमत इति । 'पुनर्-रमते' इति स्थिते 'रो री' ति रेफलोपः । तन्निमित्ते रेफे परे नकारादकारस्य दीर्घः । हरी रम्य इति । हरिस् — रम्य इति स्थिते रुत्वे रेफलोपे चाऽनेन दीर्घः । शम्भू राजत इति । शम्बुस्-राजते इति स्थिते रुत्वे रेफलोपेऽनेन दीर्घः । त्रयाणामुदाहरणात्पूर्वेणैव णकारेणात्राण् गृह्रत इति सूचितम् । तृढो वृढ इति । अत्र ऋकारस्य दीर्घनिवृत्त्यर्थमण्ग्रहणम् । ऋकारश्चात्र अण्ग्रहणे न गृह्रते । पूर्वेणैव णकारेण प्रत्याहाराश्रयणात्, अन्यथा दीर्घश्रुत्या 'अच' इत्युपस्थितौ किमण्ग्रहणेनेति भावः । ननु तृढो वृढ इत्यत्र ढ्रलोपस्यैवाऽभावाद्दीर्घाऽप्रसक्तेरण्ग्रहणं व्यर्थमित्याशङ्क्य तत्र ढलोपं दर्शयितुमाह — तृहू हिंसायाम् । वृहू उद्यमन इति । आभ्यां क्तप्रत्यये 'हो ढः' इति ढत्वे 'झषस्तथोः' इति तकारस्य धत्वे, तस्य ष्टुत्वेन ढकारे, ढो ढे लोप इति पूर्वस्य ढकारस्य लोपे, तृढो वृढ इति रूपे । अत्र ढलोपनिमित्ते ढकारे परे ऋकारस्य दीर्घनिवृत्त्यर्थमण्ग्रहणमिति भावः । ननुतस्मिन्निति निर्दिष्टे पूर्वस्य॑त्येव सिद्धौ पूर्वस्येति किमर्थमित्यत आह — पूर्वग्रहणमिति । 'ढ्रलोप' इति सूत्रस्य 'अलुगुत्तरपदे' इत्युत्तरपदाधिकारस्थत्वादुत्तरपदस्थयोरेव ढ्रलोपनिभित्तभूतढरेफयोः परतः पूर्वपदस्थत्वाभावाच्च । इष्यते च लीढो गुढ इति । अतः पूर्वग्रहणम् । कृते तु पूर्वग्रहणे तत्सामर्थ्यादनुत्तरपदस्थयोरपि ढरेफयोः परतोऽपूर्वपदस्थस्यापि पूर्वस्या.ञणो दीर्घः सिध्यतीत्यर्थः । तथा उत्तरपद इत्यस्यानुवृत्तौ अजर्घा इत्यत्रापि दीर्घो न स्यात् ।गृधु अभिकाङ्क्षायाम् । यङ्लुक्, द्वित्वम्, हलादिः शेषः, अब्यासस्य रुक्, कुहोश्चुः, जश्त्वम् , लङ् सिप्, शप्, लुक्, लघूपधगुणः, रपरत्वम्, इतश्चेति इकारलोपः, हल्ङ्यादिना सुलोपः, जर्गर्ध् इति स्थिते 'एकाचो बश' इति गकारस्य भष्भावो घकारः, जश्त्वं दकारः, दश्चेति रुः, अडागमः, अजर्घर् र् इति स्थिते रो रीति रेफलोपः, ढ्रलोप इति दीर्घः, विसर्गः । अजर्घा इति रूपम् । अत्रापि रेफलोपनिमित्तरेफस्य उत्तरपदस्थत्वाभावात्तस्मिन् परतोऽकारस्य दीर्घो न स्यात् । अत उत्तरपदानुवृत्तिनिवृत्तये पूर्वग्रहणम् । यद्यपि ढ्रलोपे इत्यत्र ढलोपनिमित्तढकारविषये उत्तरपद इत्यस्यानुवृत्तिसंभवादेव न सम्भवति, तथापि 'अजर्घा' इत्यत्र रेफलोपनिमित्तरेफविषये उत्तरपद इत्यस्यानुवृत्तिनिवृत्तये पूर्वग्रहणम् । तदनुवृत्तौ हि नीरक्तम्, दूरक्तमित्यादावेव स्यात् । 'अजर्घा' इत्यत्र न स्यात् । पुना रमत इत्यादावसमासे ।ञपि न स्यात् । उत्तरपदशब्दस्य समासचरमावयव एव रूढत्वादित्यलम् । ननु मनोरथ इत्यत्र मनस्-रथ इति स्थिते, सस्य रुत्वे, तस्य रेफस्यहशि चे॑त्युत्वं रो री॑ति लोपश्चेत्युभयं प्रसक्तं, तत्र कतरद्बाध्यमित्यत्र निर्धारयति — मनस् रथ इत्यत्रेति । मनस्-रथैत्यत्र रुत्वे कृते, हशि चेत्युत्वे, रो रीति रेफलोपे च प्राप्ते उत्वमेवेत्यन्वयः ।

Padamanjari

Up

index: 6.3.111 sutra: ढ्रलोपे पूर्वस्य दीर्घोऽणः


रेफे अकार उच्चारणार्थः । यद्ययं षष्ठीतत्पुरुषः स्यात्, तदाणः पूर्वत्वं नोपपद्यते, लोपस्याभावरुपत्वात् । अथापि बुद्धिपरिकल्पितं पौर्वापर्यमाश्रीयते एवमपि करणीयमित्यादावप्यनीयरो रेफस्य लोपे परतः पूर्वस्य दीर्घप्रसङ्ग इति तत्पुरुषे एवं दोषं दृष्ट्वा कण्ठेकालवद्व्यधिकरणपदो बहुव्रीहिरित्याह - ढकाररेफयोर्लोपो यस्मिन्निति । अत्र लिङ्गम् - भव्यगेयप्रवचनीय इति निर्देशः । लीढमिति । लिह आस्वादने, निष्ठा, ढत्वधत्वष्टुअत्वढलोपेषु रुपम्, मिह सेचने, गुह संवरणे, मुह नैचित्ये । पूर्वग्रहणमनर्थकम्, तस्मिन्निति निर्दिष्टे पूर्वस्य इति सिद्धेः इत्यत आह - पूर्वग्रहणमित्यादि । सति पूर्वग्रहणे यद्यपि ढलोपे वचनप्रामाण्यादनुतरपदेऽपि स्यात्, रलोपे त्वनुतरपदे न स्यात् नीरक्तमित्यादाबुतरपदस्यापि सम्भाव्त । आतृढमिति । तृहूहिंसायाम् यस्य विभाषा इतीट्प्रतिषेधः । क्वचिदादृढमिति पाठः, तदसत् ,सेट्त्वादस्य धातोः दृढः स्थूलबलयोः इति हलोपो निपात्यते । आवृढमिति वृहू उद्यमने ॥