ससजुषो रुः
8-2-66 ससजुषोः रुः पदस्य पूर्वत्र असिद्धम्
Sampurna sutra
Up
पदस्य ससजुषोः रुँः
Neelesh Sanskrit Brief
Up
पदान्तसकारस्य सजुष्-शब्दस्य च रुँत्वं भवति ।
Neelesh English Brief
Up
The सकार at end of a पद, and the षकार at end of the सजुष् पद get a रुँ-आदेश ।
Kashika
Up
सकारान्तस्य पदस्य सजुष् इत्येतस्य च रुर्भवति। सकारान्तस्य — अग्निरत्र। वायुरत्र। सजुषः — स॒जू॑र्ऋ॒तु॑भिः॒ (मै०सं० २.८.१.)। स॒जूर्दे॒वेभिः॑ (ऋ०७.३४.१५)। जुषेः क्विपि सपूर्वस्य रूपमेतत्॥
Siddhanta Kaumudi
Up
पदान्तस्य सस्य सजुष्शब्दस्य च रुः स्यात् । जश्त्वापवादः ॥
Laghu Siddhanta Kaumudi
Up
पदान्तस्य सस्य सजुषश्च रुः स्यात्॥
Neelesh Sanskrit Detailed
Up
पदान्ते विद्यमानस्य सकारस्य, तथा च सजुष्-शब्दस्य (इत्युक्ते, <<अलोऽन्त्यस्य>> 1.1.52 इत्यनेन तदन्तस्य षकारस्य) प्रकृतसूत्रेण 'रुँ' इति आदेशः भवति । उदाहरणानि एतानि —
1. पदान्तसकारस्य रुँत्वम् —
1. राम-शब्दस्य प्रथमैकवचनस्य रूपे प्रकृतसूत्रेण रुँत्वं भवति —
राम + सुँ [प्रथमैकवचनस्य प्रत्ययः]
→ राम + स् [उकारस्य <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः। अग्रे <<सुप्तिङन्तम् पदम्>> 1.4.14 इत्यनेन 'राम+स्' इत्यस्य पदसंज्ञा भवति ।]
→ राम + रुँ [पदान्तसकारस्य <<ससजुषो रुँ>> 8.2.66 इति रुँत्वम् ]
→ राम + र् [उकारस्य <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः]
→ रामः [अवसाने परे रेफस्य <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः]
2. पयस्-शब्दस्य प्रथमा-द्वितीया-एकवचनस्य रूपे प्रकृसूत्रेण रुत्वं विधीयते —
पयस् + सुँ / अम् [प्रथमा-द्वितीया-एकवचनस्य प्रत्ययः]
→ पयस् + ० [<<स्वमोर्नपुंसकात्>> 7.1.23 इति सुँ-प्रत्ययस्य लुक् । प्रत्ययलोपे अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> 1.1.62 इति प्रत्ययविशिष्टं कार्यम् अवश्यम् प्रवर्तते, अतः पयस् शब्दस्य <<सुप्तिङन्तं पदम्>> 1.4.14 इत्यनेन पदसंज्ञा भवति ।]
→ पयरुँ [पदान्ते विद्यमानस्य सकारस्य <<ससजुषो रुः>> 8.2.66 इति रुँत्वम्]
→ पयर् [उकारस्य <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः]
→ पयः [अवसाने परे रेफस्य <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः]
3. पठ्-धातोः लङ्लकारस्य मध्यमपुरुषैकवचनस्य रूपे प्रकृतसूत्रेण रुँत्वे कृते विसर्गः विधीयते —
पठँ (व्यक्तायां वाचि, भ्वादिः, <{1.381}>)
→ पठ् + लङ् [<<अनद्यतने लङ्>> 3.2.111 इति लङ्]
→ अट् + पठ् + लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अडागमः]
→ अ + पठ् + सिप् [<<तिप्तस्झि..>> 3.4.78 इति मध्यमपुरुषैकवचनस्य विवक्षायाम् सिप्-प्रत्ययः]
→ अ + पठ् + स् [<<इतश्च>> 3.4.100 इति इकारलोपः]
→ अ + पठ् + शप् + स् [<<कर्तरि शप्>> 3.1.68 इति शप् विकरणप्रत्ययः]
→ अ + पठ् + अ + स् [इत्संज्ञालोपः]
→ अ + पठ् + अ + रुँ [तिङन्तस्य <<सुप्तिङन्तं पदम्>> 1.4.14 इति पदसंज्ञायां जातायाम्, पदान्ते विद्यमानस्य सकारस्य <<ससजुषो रुः>> 8.2.66 इति रुँत्वम् विधीयते ।]
→ अ + पठ् + अ + र् [उकारस्य <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः]
→ अपठः [अवसाने परे रेफस्य <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः]
2. सजुष्-शब्दस्य षकारस्य रुँत्वम् —
सजुष् ( = सहयोगी / companion) इति षकारान्तशब्दः । <<जुषीँ>> (प्रीतिसेवनयोः, तुदादिः, <{6.8}>) अस्मात् धातोः सहइति उपपदस्य उपस्थितौ <<क्विप् च>> 3.2.76 इत्यनेन क्विप्-प्रत्यये कृते, प्रक्रियायाम् <<सहस्य सः संज्ञायाम्>> 6.3.78 अनेन सूत्रेण सह-इत्यस्य सकारादेशे कृते सजुष् शब्दः सिद्ध्यति । सह जुषते (the one who accompanies along) इति सजूः — इति अस्य शब्दस्य अर्थः । अस्यैव सजुष् इति प्रथमैकवचनस्य रूपस्य सिद्धौ जुष्-धातोः षकारस्य प्रकृतसूत्रेण रुँत्वम् विधीयते —
सजुष् + सुँ [प्रथमैकवचनस्य प्रत्ययः]
→ सजुष् + स् [उकारस्य <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः। ]
→ सजुष् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति सकारस्य लोपः । लोपे सत्यपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> 1.1.62 इत्यनेन प्रत्ययविशिष्टं कार्यम् अवश्यं क्रियते, अतः <<सुप्तिङन्तं पदम्>> 1.4.14 इत्यनेन सजुष्-शब्दस्य पदसंज्ञा भवति ।]
→ सजुरुँ [<<ससजुषो रुँ>> 8.2.66 इति षकारस्य रुँत्वम् ]
→ सजुर् [उकारस्य <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः]
→ सजूर् [<<र्वोरुपधाया दीर्घ इकः>> 8.2.76 इति उकारस्य दीर्घः]
→ सजूः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः]
षत्वस्य असिद्धत्वम्
<<आदेशप्रत्यययोः>>
8.3.59 इत्यस्मिन् अधिकारे विहितम् षत्वम् प्रकृतसूत्रस्य कृते असिद्धम् अस्ति । अतएव,
आशीष्,
धनुष् इत्यादिषु शब्देषु अन्ते षकारस्य स्थाने मूलरूपेण सकारम् दृष्ट्वा प्रकृतसूत्रेण तस्य विसर्गादेशः सम्भवति । यथा,
धनुष् शब्दस्य प्रथमैकवचनस्य रूपम् एतादृशम् सिद्ध्यति —
धनँ (धान्ये, जुहोत्यादिः, <{3.24}>)
→ धन् + उस् (<<अर्तिपॄवपियजितनिधनितपिभ्यो नित्>> (2.117) इति उणादिसूत्रेण उस्-प्रत्ययः]
→ धनुस् [व्युत्पत्तिपक्षे उणादिप्रत्ययानाम् कृदन्तेषु ग्रहणं कृत्वा <<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा भवति । अव्युप्तत्तिपक्षे तु <<अर्थवदधातुरप्रत्ययः प्रातिपदिकम्>> 1.2.45 इति प्रातिपदिकसंज्ञा विधीयते ।]
→ धनुस् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]
→ धनुस् + ० [<<स्वमोर्नपुंसकात्>> 7.1.23 इति सुँ-प्रत्ययस्य लुक् । प्रत्ययलोपे अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> 1.1.62 इति प्रत्ययविशिष्टं कार्यम् अवश्यम् प्रवर्तते, अतः धनुस् शब्दस्य <<सुप्तिङन्तं पदम्>> 1.4.14 इत्यनेन पदसंज्ञा भवति ।]
→ धनुरुँ [<<ससजुषो रुः>> 8.2.66 इति रुँत्वम् ]
→ धनुर् [उकारस्य <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः]
→ धनुः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः]
एवमेव, आशिष्-शब्दस्य प्रथमैकवचने सकारस्य प्रकृतसूत्रेण रुँत्वम् भवति —
शासुँ (इच्छायाम्)
→ आङ् + शास् + क्विप् [<<क्विप् च>> 3.2.76 इति क्विप्-प्रत्ययः]
→ आ + शास् + ० [ङकारस्य, ककारपकारयोः च इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, अतः सोऽपि लुप्यते । अवशिष्टस्य अपृक्त-वकारस्य <<वेरपृक्तस्य>> 6.1.67 इति लोपः भवति ।]
→ आ + शिस् + ० [<<शास इदङ्हलोः>> 6.4.34 इति इत्वम्]
→ आ + शिस् + सुँ [क्विबन्तस्य <<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञायां सत्याम् प्रथमैकवचनस्य विवक्षायाम् सुँ-प्रत्ययः विधीयते ।]
→ आ + शिस् + स् [उकारस्य <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः]
→ आ + शिस् + ० [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति अपृक्त-सकारस्य लोपः । लोपे कृते अपि <<सुप्तिङन्तं पदम्>> 1.4.14 इति पदसंज्ञा ]
→ आ + शि रुँ [<<ससजुषो रुः>> 8.2.66 इति रुँत्वम्]
→ आशिर् [उकारस्य <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः]
→ आशीर् [<<र्वोरुपधाया दीर्घ इकः>> 8.2.76 इति उपधा-इकारस्य दीर्घः]
→ आशीः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति रेफस्य विसर्गः]
एवमेव अन्यान् अपि सर्वान् षकारान्तशब्दान् मूलरूपेण सकारान्तरूपेण एव गृहीत्वा तेषाम् प्रक्रियायाम् प्रकृतसूत्रेण रुत्वे कृते अग्रे विसर्गादेशः सम्भवति ।
बाध्यबाधकभावः
प्रकृतसूत्रम् <<झलां जशोऽन्ते>> 8.2.39 इत्यस्य अपवादरूपेण प्रवर्तते । <<झलां जशोऽन्ते>>
8.2.39 इत्यनेन पदान्त सकारषकारयोः जश्त्वे (यथासङ्ख्यम्) दकारडकारौ आदेशौ प्राप्नुतः । तौ बाधित्वा प्रकृतसूत्रेण सकारान्तस्य सजुष्-शब्दस्य च विषये रुँ-आदेशः विधीयते ।
आश्रयात् सिद्धत्वम्
प्रकृतसूत्रम् यद्यपि त्रिपाद्यां विद्यते, तथापि इदं सूत्रम् <<अतो रोरप्लुतादप्लुते>>
6.1.113 तथा च <<हशि >>
6.1.114 इत्येतयोः कृते
आश्रयात् सिद्धम् अस्ति । इत्युक्ते, प्रकृतसूत्रेण सिद्धस्य रुँत्वस्य एतयोः द्वयोः सूत्रयोः उकारादेशः अवश्यम् सम्भवति —
[1] प्रकृतसूत्रस्य प्रयोगात् अनन्तरम् <<अतो रोरप्लुतादप्लुते>> 6.1.113 इत्यस्य प्रयोगः —
राम सुँ अस्ति
→ राम रुँ अस्ति [<<ससजुषोः रुः>> 8.2.66 इति रुत्वम् ]
→ राम उ अस्ति [<<अतो रोरप्लुतादप्लुते>> 6.1.113 इति रुँ-इत्यस्य उत्वम्]
→ रामो अस्ति [<<आद्गुणः>> 6.1.87 इति गुण-एकादेशः]
→ रामोस्ति [<<एङः पदान्तादति>> 6.1.109 इति पूर्वपरयोः एकः ओकारादेशः]
[2] प्रकृतसूत्रस्य प्रयोगात् अनन्तरम् <<हशि च>> 6.1.114 इत्यस्य प्रयोगः —
राम सुँ गच्छति
→ राम रुँ गच्छति [<<ससजुषोः रुः>> 8.2.66 इति रुत्वम् ]
→ राम उ गच्छति [<<हशि च>> 6.1.114 इति रुँ-इत्यस्य उत्वम्]
→ रामो गच्छति [<<आद्गुणः>> 6.1.87 इति गुण-एकादेशः]
Balamanorama
Up
<<ससजुषो रुः>> - ससजुषो रुः । ससजुषो रु रिति छेदः ।रो रि॑इति रेफलोपः । सश्च सजूश्च ससजुषौ, तयोरिति विग्रहः । रुविधौ उकार इत् । तत्फलं त्वनुपदमेव वक्ष्यते । 'स' इति सकारो विविक्षितः । अकार उच्चारणार्थः । पदस्येत्यधिकृतं सकारेण सजुष्शह्देन च विशेष्यते । ततस्त दन्तविधिः । सकारान्तं सजुष्शब्दान्तं च यत् पदं तस्य रुः स्यादित्यर्थः । सचअलोऽन्त्ये॑त्यन्त्यस्य भवति । तत्फलितमाह-पदान्तस्य सस्येति । सजुष्शब्दस्य चेति । सजुष्शब्दान्तं यत् पदं तदन्तस्य षकारस्येत्यर्थः । ततश्च सजुषौ सजुष इत्यत्र षकारस्य न रुत्वम्, पदान्तत्वाभावात् ।सजुष्शब्दान्तं यत् पदं तदन्तस्य षकारस्येत्यर्थः । ततस्च सजुषौ सजुष इत्यत्र षकारस्य न रुत्वम्, पदान्तत्वाभावात् ।सजुष्शब्दान्तं यत्पद॑मिति तदन्तविधिना परमसजूरित्यत्र नाव्याप्तिः । न च सजूरित्यत्राव्याप्तिः शङ्क्या, व्यपदेशिवद्भावेन तदन्तत्वात् ।व्यपदेशिवद्भावो ।ञप्रातिपदिकेन॑ इतिग्रहणवता प्रातिपदिकेन तदन्तविधिर्न॑ इति च पारिभाषाद्वयंप्रत्ययग्रहणे यस्मा॑दितिविषयं, नतु येन विधिरितिविषयमितिअसमासे निष्कादिभ्यः॑ इति सूत्रे भाष्ये स्पष्टम् । ननु शिवसिति सकारस्य 'झलाञ्जशोन्ते' इति जश्त्वेन दकारः स्यात्, जश्त्वं प्रति रुत्वस्य परत्वेऽपि असिद्धत्वादित्यत आह — जश्त्वापवाद इति । तथा च रुत्वस्य निरवकाशत्वान्नासिदधत्वमिति भावः । तदुक्तं भाष्येपूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्ये॑ति ,अपवादो वचनप्रामाण्यादि॑ति च ।
Padamanjari
Up
सजूरिति । पूर्ववद्भावे क्विप्, रुत्वे कृते र्ठ्वोरुपधायाःऽ इति दीर्घत्वम्, बहुव्रीहौ सहस्य सभावः । सप्रीतिरित्यर्थः ॥