6-4-21 रात् लोपः क्वि झलोः क्ङिति च्छ्वोः
रेफादुत्तरयोश्छ्वोर्लोपो भवति क्वौ परतो झलादौ क्ङिति च परतः। मुर्छा — मूः, मुरौ, मुरः। मूर्तः। मूर्तवान्। मूर्तिः। ‘न ध्याख्यापृमूर्च्छिमदाम् ८.२.५७ इति निष्ठानत्वाभावः। हुर्छा — हूः, हुरौ, हुरः। हूर्णः। हूर्णवान्। हूर्तिः। राल्लोपे सतुक्कस्य छस्याभावात् केवलो गृह्यते। वकारस्य — तुर्वी — तूः, तुरौ, तुरः। तूर्णः। तूर्णवान्। तूर्तिः। धुर्वी — धूः, धुरौ, धुरः। धूर्णः। धूर्णवान्। धूर्तिः॥
रेफात्परयोश्छ्वोर्लोपः स्यात् क्वौ झलादावनुनासिकादौ च प्रत्यये । इति वलोपः । लघूपधगुणः ॥
रेफाच्छ्वोर्लोपः क्वौ झलादौ क्ङिति। धूः। विद्युत्। ऊर्क। पूः। दृशिग्रहणस्यापकर्षाज्जवतेर्दीर्घः। जूः। ग्रावस्तुत्। <<क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसम्प्रसारणं च>> (वार्त्तिकम्)। वक्तीति वाक्॥
मुर्छेअति । मुर्छा मोहसमुच्छ्राययोः । हुर्छेअति । हुर्छा कौटिल्ये । ननु च पूर्वत्र सतुक्कस्य च्छकारस्य ग्रहणं वितुक्कश्चायम्, तत्कथमत्र लोपः इत्याह - राल्लोप इत्यादि । ननु यदि नाम रेफात्परः सतुक्कशच्छकारो न सम्भवति, किमेतावताऽप्रकृतस्यासंस्थितस्य केवलस्य च्छस्य ग्रहणं भवति तस्मादेवं व्याख्येयम् - पूर्वत्र द्विच्छकारो निर्द्देशः, तत्रैकः सतुक्कः, अपरस्तु केवलो गृहीतः, त त्र च राल्लोप सतुक्कस्य च्छस्यासम्भाव्तकेवलो गृह्यत इति । यदि द्विच्छकारकः पूर्वत्र निर्द्देशः, च्छवोरिति निर्द्देशो नोपपद्यते, कथम् समाहारद्वन्द्वे एकवचनप्रसङ्गः नैष दोषः पूर्वं द्वयोरच्छकारयोः समाहारद्वन्द्वं कृत्वा पश्चाद्वकारेणेतरेतरयोग द्वन्द्वः करिष्यते । एवमपि द्वन्द्वाच्चुदषहान्तात्समहारे इति समासान्तः प्राप्नोति तर्हि च्छकारवकारयोः समाहारद्वन्द्वं कृत्वा तेन सह सतुक्कस्य च्छस्येतरेतरयोगे द्वन्द्वो भविष्यति । यदि पूर्वत्र वितुक्को गृह्यते, वाञ्च्छतेः क्विपि शत्वं प्राप्नोति इष्टमेवैतत्संगृहीतम् - वांशौ, वांश इत्येव भवितव्यम् ॥