1-3-2 उपदेशेअच् अनुनासिकः इत् धातवः
उपदेशे अनुनासिकः अच् इत्
उपदेशे विद्यमानः अनुनासिकस्वरः इत्संज्ञकः भवति ।
An अनुनासिक स्वर present in an उपदेश is called 'इत्'.
उपदिश्यतेऽनेनेत्युपदेशः शास्त्रवाक्यानि, सूत्रपाठः खिलपाठश्च। तत्र योऽच् अनुनासिकः स इत्संज्ञो भवति। एध। स्पर्द्ध। <<प्रतिज्ञानुनासिक्याः पाणिनीयाः>> (व्या०प० १२१)। उपदेश इति किम्? अ॒भ्र आँ अ॒पः (ऋ० ५.४८.१)। अजिति किम्? <<आतो मनिन्क्वनिब्वनिपश्च>> ३.२.७४। अनुनासिक इति किम्? सर्वस्याचो मा भूत्। इत्प्रदेशाः — <<आदितश्च>> ७.२.१६ इत्येवमादयः॥
उपदेशेऽनुनासिकोऽजित्संज्ञः स्यात् । प्रतिज्ञानुनासिक्याः पाणिनीयाः । लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा । प्रत्याहारेष्वितां न ग्रहणम् । अनुनासिक इत्यादिनिर्देशात् ॥ नह्यत्र ककारे परेऽच्कार्यं दृश्यते । आदिरन्त्येनेत्येतत्सूत्रेण कृताः संज्ञाः प्रत्याहारशब्देन व्यवह्रियन्ते ॥
उपदेशेऽनुनासिकोऽजित्संज्ञः स्यात्। प्रतिज्ञानुनासिक्याः पाणिनीयाः। लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा॥
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'इत्' इति संज्ञा । इयम् संज्ञा <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इत्यस्मात् <<लशक्वतद्धिते>> 1.3.8 इत्येतेषु सूत्रेुषु पाठिता अस्ति । एतेषाम् सूत्राणाम् सङ्कलनम् 'इत्संज्ञाप्रकरणम्' नाम्ना ज्ञायते । अस्य प्रकरणस्य इदम् प्रथमम् सूत्रम् । उपदेशे विद्यमानस्य अनुनासिकसंज्ञकस्य स्वरस्य अनेन सूत्रेण इत्संज्ञा भवति इति अस्य सूत्रस्य आशयः ।
<<उपदेशेऽजनुनासिक इत्>> - लण्सूत्रे अकारश्चेति प्रतिज्ञातम् । तस्य अकारस्य अनन्त्यत्वादहल्त्वाच्च हलन्त्यमिति इत्संज्ञायामप्राप्तायां तत्प्रापकं सूत्रमाह — उपदेशे । संज्ञाप्रस्तावात्संज्ञेति । लभ्यते । तदाह — उपदेशे अनुनासिक इत्यादिना । सूत्रे अजिति कुत्वाऽभाव आर्षः ।अजित्संज्ञः स्या॑दिति विवरणे कुत्वाभावोऽसन्देहार्थः । ननु मुखेन नासिकया चोच्चार्यमाणो वर्णोऽनुनासिक इत्यनुपदमेव वक्ष्यते । शास्त्रकृता च एते कतिपयवर्णास्तथोच्चारिताः, इतरे तु केवलं मुखेन उच्चारिता इति कथमिदानीन्तनैरवगन्तव्यमित्यत आह — प्रतिज्ञानुनासिक्याः पाणिनीया इति । प्रतिज्ञायते अभ्युपगम्यत इति प्रतिज्ञा । नित्यस्त्रीलिङ्गोऽयम् । स्त्रियामित्याधिकारे 'आतश्चोपसर्गे' इकति कर्मण्यङ् । अनुनासिकस्या भावः आनुनासिक्यम् । प्रतिज्ञा आनुनासिक्यं येषां ते प्रतिज्ञानुनासिक्याः पाणिनिशिष्या इत्यर्थः । शिष्यपरंपरया शास्त्रकृतां तथाविधमुच्चारणमिदनींन्तनानां सुगममिति यावत् । तदेवं लण्सूत्रे अकारस्य अनुनासिकत्वादित्संज्ञा सिद्धा । ततः किमित्यत आह — लण्सूत्रस्थेति । लण्सूत्रे तिष्ठतीति लण्सूत्रस्थः, स चासाववर्णश्च लण्सूत्रस्थावर्णः, तेन सहोच्चार्यमाणो रेफो र इत्येवंरूपो रेफलकारयोः संज्ञेत्यर्थः । वस्तुतस्तु रप्रत्याहार एव नास्तीति शब्देन्दुशेखरे व्यक्तम् । ननु आदिरन्त्येनेति सूत्रे मध्यगानामादेश्च संज्ञेति स्थितम् । एवंच अजादिप्रत्याहारेषु संज्ञाकोटिप्रविष्टानामन्त्यानामितां ग्रहणाऽभावेऽपि णकारादीनामपि मध्यगत्वाऽविशेषाद्ग्रहणं स्यात् । ततश्च रलयोः संज्ञेति पूर्वग्रन्थे रलयोरिति न्यूनं, टकारस्यापि मध्यगत्वेन ग्राह्रत्वादित्यत आह — प्रत्याहारेष्वितां न ग्रहणमिति । प्रत्याहारेषु=अजादिसंज्ञासु मध्यवर्तिनामपि इतां न ग्रहणमित्यर्थः । कुत इत्यत आह — अनुनासिक इत्यादिनिर्देशादिति । आदिनातृषिमृषिकृषेः काश्ग्रपस्य॑ इत्यादिसंग्रहः । कथमयं निर्देश उक्तार्थे हेतुरित्यत आह — न हीति । अत्र अनुनासिकशब्दे ककारे परे इकारस्य अच्प्रयुक्तं कार्यम्इको यणची॑ति यणादेशो न दृश्यते हीति योजना । यदि हि अजादिप्रत्याहारेषु इतामपि ग्रहणं स्यात्तर्हि अच्प्रत्याहारे ॠलृक् इति ककारस्यापि प्रविष्टत्वेन च्त्वात्तस्मिन् परे इकारस्य 'इको यणचि' इति यणादेशे 'लोपो व्योर्वलि' इति लोपे 'अनुनास्क' इति स्यात् । इकारो न श्रूयते । श्रूयते च । अतः प्रत्याहारेष्वितां न ग्रहणमिति विज्ञायत इति भावः । यत्तु ॠलृगिति ककारस्य अच्प्रत्याहारप्रविष्यत्वेऽपि 'प्रत्ययस्थात्' इत्यादिना इत्वविधिसामर्थ्यादेव यण् लोपश्च न भवति । अन्यथा लाघवाल्लोपमेव विदध्यात् । अतः प्रत्याहारेष्वितां न ग्रहणमित्यत्र अनुनासिक इत्यादिनिर्देशो न लिङ्गमित्याहुः । तन्न,प्रत्ययस्थात्कात्पूर्वस्यातो लोप आप्यसुपः॑ इति लोपविधौ वर्णादिक्यप्रसङ्गात् । प्रत्याहारशब्दस्याऽप्रसिद्धार्थत्वादाह — आदिरन्त्येनेत्यादिना । प्रत्याह्यियन्ते संक्षिप्यन्ते वर्णा इति व्युत्पत्तेरिति भावः । नच अणुदित्सूत्रसिद्धासु ऐउ इत्यादिसंज्ञास्वतिप्रसङ्गः शङ्क्यः, योगरूढआश्रयणात् । वैयाकरणप्रसिद्धिवशाच्च तथा रूढिरिति भावः । तत्र वर्णसमाम्नायसूत्रेषु पूर्वेण णकारेण एकः प्रत्याहारः-अण् । ककारेण त्रयः-अक् इक् उक् । ङकारेण एकः-एङ् । चकारेण चत्वारः-अच् इच् एच् ऐच् । टकारेण एकः-अट् । परेण णकारेण त्रयः-अण् इण् यण् । मकारेण चत्वारः-अम् यम् ञम् ङम् । ञकारेण एकः-यञ् । षकारेण द्वौ-झष् भष् । शकारेण षट्-अश् हश् वश् झश् जश् बश् । वकारेण एकः-छव् । यकारेण पञ्च-यय् मय झय् खय् चय् । रेफेण पञ्च-यर् झर् खर्चर् शर् । लकारेण षट्-अल् हल् वल् रल् झल् शल् । अकारेण एको रप्रत्याहारः इति वार्णसमाम्नायिकाः प्रत्याहाराश्चतुश्चत्वारिंशत्, एतेषामेव शास्त्रे उपयोगात् । इङित्यादिप्रत्याहारास्तु प्रयोजनाऽभावान्न भवन्ति, शास्त्रे तद्व्यवहाराऽभावात् । अत्राऽस्मदीया सङ्ग्रहकारिका — ॒स्यादेको ङञणवटैः, षेण द्वौ, त्रय इह कणाभ्याम् । चत्वारश्च चमाभ्यां, पञ्च यराभ्यां, शलाभ्यां षट्॥॑
उपदिश्यतेऽनेनेत्युपदेश इति। अकर्तरि च कारके इति करणे घञ् । ननु च नेयं संज्ञा, परत्वाच्च करणाधिकरणयोः इति ल्युट् प्राप्नोति, हलश्च इत्यत्रापि संज्ञायामित्येव। ल्युट् तावन्न भवति, कृत्यल्युटो बहुलम् इति। अकर्तरि च इत्यत्र चकारो भिन्नक्रमः-संज्ञायां चेति, तेन क्कचिदसंज्ञायामपि भवति। अथोपदिश्यतेऽनेनेत्यत्रोपदेशः कोऽर्थः? विधानम्। यद्येवम् लण् एध वृद्धौ इत्यादौ न स्यात्, न ह्यत्र किञ्चिद्विधीयते। अथानिर्ज्ञातस्वरूपस्य स्वरूपज्ञापनं तत्, आचारेऽवगल्भक्लीबहोडेभ्यः क्किप् इत्यत्र गल्भाद्यकारस न स्यात् न हि गल्भादीनां स्वरूपज्ञापनार्थमुच्चारणम्;पञ्चमीनिर्द्देशेन क्किपो विधानात्। यद्येवम्, क्किबनेनानिर्ज्ञातरूपो ज्ञाप्ते, तत्र चायं भवत्यकार इति भविष्यति। शास्त्रवाक्यानीति। लण्-एध-स्पर्द्धेत्यादीनामपि विशिष्टप्रयोजनपरत्वेनोच्चारणाद् वाक्यत्वम्। अस्यैव विवरणम्-सूत्रपाठ इति। खिलपाठःउधातुपाठः प्रातिपदिकपाठः, वाक्यपाठश्च। तत्र सूत्रे मतुबादेरुकारः, धातुषु एधाद्यकारः प्रातिपदिकेषु भवच्छब्दस्योकारः,वाक्ये गल्भाद्यकारः। ननु च सर्वत्रात्र शुद्धोऽच् पठ।ल्ते, नानुनासिक इत्यत आह-प्रतिज्ञानुनासिक्या इति। प्रतिज्ञामात्रेण समधिगम्यमानुनासिक्यं येषां ते तथोक्ताः। प्रतिज्ञानुनासिका इति तु प्रसिद्धः पाठः। तत्र प्रतिज्ञासमधिगम्यत्वाद् अनुनासिके प्रतिज्ञाशब्दो द्रष्टव्यः। ततः समानाधिकरणपदो बहुव्रीहिः। तच्च प्रतिज्ञानं नानियमेन भवति, कि तर्हि? यत्राचार्याः स्मरन्ति तत्रैव। सूत्रकारेण तावद्विवक्षिताः सर्वेऽनुनासिकाः पठिताः, डुलभÄष् प्राप्तौ इतिवत्, लेखकैस्तु संकीर्णा लिखिताः तत्र स्मृतिपरम्परया निर्णेयमित्यर्थः। अभ्र आÄ अप इति। नायं सूत्रादिषु स्वरूपेणोच्चरितो।नुनासिकः किं तर्हि ? ठाङेऽनुनासिकश्च्छन्दसिऽइत्यनुनासिकशब्देन विहितः। अथ क्रियमाणेऽप्युपदेशग्रहणे उञः Äष् इत्यत्र कस्मान्न भवति ? विधानसामर्थ्याद्। इत्संज्ञायां हि तस्य लोपः इति लोपः स्यात्। यद्येवम्, अत्रापि विधानसामर्थ्यादेव न भविष्यति। एवं तर्हि उदाहरणदिगियं दर्शता । इदं तत्रोदाहरणम्-अणोऽप्रगृह्यस्यानुनासिकः कधीच्छति ब्राह्यणकुलमिति क्यजन्तात्क्विपि अल्लोपे, वलि लोपे, नपुंसकह्रस्वत्वं दधि इति। यद्यत्रेत्संज्ञा स्यात् ठिदितो नुम् धातोः इति नुम् स्यात्। अत्राप्यनुनासिकविधानसामर्थ्यादेवेत्संज्ञा न भविष्यति । ननु च यत्रेत्संज्ञायां सत्यां प्रयोजनं न सम्भवति, यथा-दधि, मध्विति प्रातिपदिकेषु तत्रेत्संज्ञाया अभावः। अत्रानुनासिकविधानमर्थवत्, नैतदेवम्; लोपस्येत्कार्यस्य सर्वत्र सम्भवात् । तस्मादणोऽप्रगृह्यस्य इत्संज्ञायामेव विधेयायामनुनासिकविधानसामर्थ्यादेवात्र लोपो न भविष्यति। एवं तर्ह्युतरार्थमवश्यम् ठुपदेशऽ इति वक्तव्यम्, तदिहापि विस्पष्टर्थं भविष्यतीति मन्यते। आतो मनिन्निति। अत्र मकारस्येत्संज्ञा न भवति। यदि स्याद्, अन्येभ्योऽपि द्दश्यन्ते इति हलन्तेऽन्त्यादचः परः स्यात् । सर्वस्येति। दरिद्राप्रभृतिसम्बन्धिनोऽपि ॥