खरि च

8-4-55 खरि च पूर्वत्र असिद्धम् संहितायाम् झलां चर्

Sampurna sutra

Up

झलाम् खरि चर् संहितायाम्

Neelesh Sanskrit Brief

Up

झल्-वर्णस्य खर्-वर्णे परे चर्-वर्णादेशः भवति ।

Neelesh English Brief

Up

A झल्-letter is converted to a corresponding चर्-letter when followed by a खर्-letter.

Kashika

Up

खरि च परतो झलां चरादेशो भवति। जश्ग्रहणं नानुवर्तते पूर्वसूत्रे चानुकृष्टत्वात्। भेत्ता। भेत्तुम्। भेत्तव्यम्। युयुत्सते। आरिप्सते। आलिप्सते॥

Siddhanta Kaumudi

Up

खरि परे झलां चरः स्युः । इति जकारस्य चकारः । तच्छिवः । तच्शिवः ।<!छत्वममीति वाच्यम् !> (वार्तिकम्) ॥ तच्श्लोकेन । तच्छलोकेन । अमि किम् । वाक् श्च्योतति ॥

Laghu Siddhanta Kaumudi

Up

खरि झलां चरः स्युः । इत्युदो दस्य तः। उत्थानम्। उत्तम्भनम्॥

Neelesh Sanskrit Detailed

Up

झल् = वर्गचतुर्थाः + वर्गतृतीयाः + वर्गद्वितीयाः + वर्गप्रथमाः + ऊष्माणः । आहत्य 24 वर्णाः । खर् = वर्गद्वितीयाः + वर्गप्रथमाः + श् + ष् + स् । आहत्य 13 वर्णाः । चर् = वर्गप्रथमाः + श् + ष् + स् । आहत्य 8 वर्णाः । प्रकृतसूत्रेण झल्-वर्णस्य खर्-वर्णे परे अन्तरतमः चर्-वर्णादेशः भवति । इदमेव परिवर्तनम् चर्त्वम् नाम्ना ज्ञायते । क्रमेण उदाहरणानि एतादृशानि — 1. क्/ख्/ग्/घ् — एतेषां चर्त्वे कृते तेषां स्थाने आन्तरतम्येन ककारः विधीयते । यथा, भज्-धातोः क्त-प्रत्ययान्तरूपे प्रकृतसूत्रेण चर्त्वम् भवति — भजँ (सेवायाम्, भ्वादिः, अनिट्, <{1.1153}>) → भज् + क्त [<<निष्ठा>> 3.2.102 इति क्तप्रत्ययः] → भग् + त [<<चोः कुः>> 8.2.30 इति कुत्वम्] → भक् + त [<<खरि च>> 8.4.55 इति चर्त्वे ककारः] → भक्त 2. च्/छ्/ज्/झ् — एतेषां प्रकृतसूत्रेण चर्त्वम् नैव सम्भवति, यतः <<चोः कुः>> 8.2.30 इत्यनेन चवर्गस्य झलि परे (अतः खरि परे अपि) कुत्वम् भवति । 3. ट्/ठ्/ड्/ढ् — एतेषां चर्त्वे कृते तेषां स्थाने आन्तरतम्येन टकारः विधीयते । परन्तु अस्य उदाहरणानि नैव सन्ति । 4. त्/थ्/द्/ध् — एतेषां चर्त्वे कृते तेषां स्थाने आन्तरतम्येन तकारः विधीयते । यथा, दा-धातोः क्त-प्रत्ययान्तरूपे थकारस्य चर्त्वे तकारः भवति — डुदाञ् (दाने, जुहोत्यादिः, <{3.10}>) → दा + क्त [<<निष्ठा>> 3.2.102 इति क्तप्रत्ययः] → दथ् + त [<<दो दद् घोः>> 7.4.46 इति दथ्-आदेशः] → दत् + त [<<खरि च>> 8.4.55 इति थकारस्य चर्त्वे तकारः] → दत्त 5. प्/फ/ब्/भ् — एतेषां चर्त्वे कृते तेषां स्थाने आन्तरतम्येन पकारः विधीयते । यथा - लभ्-धातोः लृट्लकारस्य रूपेषु भकारस्य चर्त्वे पकारः भवति — डुलभँष् (पाके, भ्वादिः, <{1.1130}>) लभ् + लृट् [<<लृट् शेषे च>> 3.3.13 इति लृट्] → लभ् + स्य + लृट् [<<स्यतासी लृलुटोः>> 3.1.33 इति 'स्य' विकरणम्] → लभ् + स्य + तिप् [<<तिप्तस्झि...>> 3.4.78 इति प्रथमपुरुषैकवचनस्य सि-प्रत्ययः] → लप् + स्य + ति [<<खरि च>> 8.4.5 इति भकारस्य चर्त्वे पकारः] → लप्स्यति 6. शकार-षकार-सकाराणां चर्त्वे कृते तत्स्थाने सः एव वर्णः विधीयते । उदाहरणम् एतादृशम् — ओँव्रस्चूँ (छेदने, तुदादिः, <{6.12}>) → व्रस्च् + अनीयर् [<<तव्यत्तव्यानीयरः>> 3.1.96 इति अनीयर्-प्रत्ययः] → व्रश्च्+ अनीय [जकारे परे <<स्तोः श्चुना श्चुः>> 8.4.40 इति सकारस्य शकारः । अस्य असिद्धत्त्वात् <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> 8.2.36 इति षत्वं न भवति ।] → व्रश्चनीय [चकारे परे <<खरि च>> 8.4.53 इति शकारस्य चर्त्वे शकारः एव भवति ।] 7.हकारस्य प्रकृतसूत्रेण चर्त्वम् नैव सम्भवति, यतः <<हो ढः>> 8.2.31 इत्यनेन हकारस्य झलि परे (अतः खरि परे अपि) ढकारादेशः भवति ।

Balamanorama

Up

<<शरोऽचि>> - शरोऽचि ।अचो रहाभ्या॑मित्यतो 'द्वे' इति, 'नादिन्याक्रोशे' इत्यतो नेति चानुवर्तते । तदाह अचि पर इत्यादिना । तथाच 'चतुर्षु' इत्येकषकारमेव रूपम् । नच सत्यपि द्वित्वे 'झरो झरि सवर्णे' इति लोपादेव एतषकाररूपसिद्धेरिदं व्यर्थमिति वाच्यं, लोपस्य वैकल्पिकत्वादिति भावः । प्रियाश्चत्वारो यस्येति बहुव्रीहौ प्रियचतुर्शब्दो विशेष्यनिघ्न एकद्विबहुवचनान्तः । तस्य सौ रूपमाह — प्रियचत्वा इति । प्रियचतुर् स् इति स्थिते 'चतुरनडुहोः' इत्युकारादाम् । तस्याङ्गत्वेन तदन्तेऽपि प्रवृत्तेः । तत उकारस्य यण् । हल्ङ्यादिलोपश्चेति भावः । हे प्रियचत्व इति । 'अम् संबुद्धौ' इत्यमिति भावः । प्रयिचत्वाराविति । सुटि सर्वनामस्थानत्वादाम् । प्रियचत्वारः । प्रियचत्वारम्, प्रयिचत्वारौ । शसादावाम् न । प्रियचतुरः । प्रियचतुरा प्रियचतुभ्र्याम् प्रियचतुर्भिः । प्रियचतुरे । प्रयिचतुरः २ । प्रियचतुरोः । आमिषट्चतुभ्र्यश्चे॑ति नुटमाशङ्क्याह — गौणत्वे त्विति ।षट्चतुभ्र्यश्चे॑ति बहुवचननिर्देशात्तदर्थप्राधान्य एव नुडिति भावः । प्रियचतुरि । प्रयिचतुर्षु । परमचतुर्ण्णामिति । कर्मधारयः । आङ्गत्वात्तदन्तादपि नुटिति भावः । इति रान्ता#ः । अथ लकारान्ताः । कमलमिति । कमलं=पद्मम् । कमला=लक्ष्मीः । कमलमाचष्टे इत्यर्थे कमलशब्दात्, कमलामाचष्टे इत्यर्थे कमलाशब्दा॒त्तत्करोति तदाचष्टे॑ इति णिचि 'सनाद्यन्ताः' इति धातुत्वात्तदवयवस्य सुपो लुकिणाविष्ठत्प्रातिपदिकस्ये॑ति इष्ठवत्त्वाट्टिलोपे कमव्-इ इत्यतः कर्तरि क्विपि णेरनिटीति णिलोपे अपृक्तलोपे च कमलिति रूपम् । ततः सोर्हल्ङ्यादिलोपे कमलिति रूपम् । कमलाविति । औजसादिषु न कोऽपि विकार इति भावः । कमलं कमलौ कमलः । कमला कमल्भ्यां कमल्भिः । कमले । कमल्भ्यः । कमलः । कमलः कमलोः कमलाम् । सुपि विशेषमाह — षत्वं कमल्ष्विति । लकारस्य इण्त्वादिति भावः । तोयमाचष्टे तोयित्यादियकारान्तास्तु न सन्त्येव, क्विपिलोपो व्योः इति यलोपस्य दुर्वारत्वा । णिलोपस्य स्थानिवत्त्वं तु न भवति, यलोपे तन्निषेधात् । वस्तुतस्तुन पदान्ता हलो यणः सन्ती॑ति लण्सूत्रस्थभाष्यादनभिधानमेवंजातीयकानामिति हरदत्तः । 'भोभगो' इति सूत्रेवृक्षव्करोती॑ति भाष्यं तु एकदेश्युक्तिरिति तदाशय इत्यलम् । इति लान्ताः ।

Padamanjari

Up

युयुत्सत इति । युधेः सन्, धकारस्य तकारः । आरिप्सते, आलिप्सत इति । रभिलभ्योः'सनि मीमाघु' इत्यादिना अच इस्,'स्कोः संयोगाद्योः' इति सलोपः, भकारस्य पकारः ॥