1-2-48 गोस्त्रियोः उपसर्जनस्य ह्रस्वः प्रातिपदिकस्य
index: 1.2.48 sutra: गोस्त्रियोरुपसर्जनस्य
प्रातिपदिकस्य इति वर्तते। गो इति स्वरूपग्रहणं स्त्री इति प्रत्ययग्रहणं स्वरितत्वात्। उपसर्जनग्रहणं तयोर्विशेषणम्। गोरुपसर्जनस्य स्त्रीप्रत्ययान्तस्य उपसर्जनस्य इति। ताभ्यां प्रातिपदिकस्य तदन्तविधिः। उपसर्जनगोशब्दान्तस्य उपसर्जनस्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्वो भवति। चित्रगुः। शबलगुः। स्त्रियाः निष्कौशाम्बिः। निर्वाराणसिः। अतिखट्वः। अतिमालः। उपसर्जनस्य इति किम्? राजकुमारी। स्वरितत्वं किम्? अतितन्त्रीः। अतिलक्ष्मीः। अतिश्रीः। ईयसो बहुव्रीहेः प्रतिषेधो वक्तवयः। बहुश्रेयसी। विद्यमानश्रेयसेई।
index: 1.2.48 sutra: गोस्त्रियोरुपसर्जनस्य
उपसर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात् । अव्ययीभावश्च <{SK451}> इत्यव्ययत्वम् ॥
index: 1.2.48 sutra: गोस्त्रियोरुपसर्जनस्य
उपसर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात्। अतिमालः। अवादयः क्रुष्टाद्यर्थे तृतीयया (वार्त्तिकम्)। अवक्रुष्टः कोकिलया - अवकोकिलः। पर्यादयो ग्लानाद्यर्थे चतुर्थ्या (वार्त्तिकम्)। परिग्लानोऽध्ययनाय पर्यध्ययनः। निरादयः क्रान्ताद्यर्थे पञ्चम्या (वार्त्तिकम्) । निष्क्रान्तः कौशाम्ब्याः - निष्कौशाम्बिः॥
index: 1.2.48 sutra: गोस्त्रियोरुपसर्जनस्य
गोस्त्रियोरुपसर्जनस्य - प्रकृते च दिशयोर्मध्यः मध्यं मध्येनेत्यादिविग्रहवाक्येषु दिशाशब्दस्य नियतविभक्तिकत्वात्समासविधौ प्रथमानिर्दिष्टत्वाऽभावेऽपि अनेनोपसर्जनत्वं भवति । पूर्वनिपातस्तु न भवतीति स्थितम् । गोस्त्रियोः ।ह्रस्वो नपुंसके प्रातिपदिकस्ये॑त्यतो 'ह्रस्व' इतिप्रातिपदिकस्ये॑ति चानुवर्तते । उपसर्जनस्येति गोस्त्रिर्विशेषणम् । प्रत्येकाभिप्रायमेकवचनम् । स्त्रीशब्देन स्त्रीप्रत्ययो गृह्रते । प्रत्ययग्रहणपरिभाषया तदन्तविधिः । उपसर्जनभूतस्य गोशब्दस्य स्त्रीप्रत्ययान्तस्य चेति लभ्यते । तदुभयं प्रातिपदिकस्य विशेषणम् । तेन तदन्तविधिः । तदाह — उपसर्जनमित्यादिना । अत्र च शास्त्रीयमेवोपसर्जनं गृह्रते,न त्वप्रधानमात्रं, कुमारीमिच्छन् कुमारीवाचरन्वा ब्राआहृणः कुमारीत्यत्रातिप्रसङ्गात् । अव्ययीभावश्चेत्यव्ययत्वमिति ।
index: 1.2.48 sutra: गोस्त्रियोरुपसर्जनस्य
स्त्रीति प्रत्ययग्रहणमिति । अत्र हेतुमाह-स्वरितत्वादिति । ऽस्वरितेनाधिकारःऽ इत्यस्य यत्र स्वरितत्वं प्रतिज्ञायते तत्र तदधिकारो ग्राह्य इत्ययमप्यर्थः । इह च स्त्रीग्रहणं स्वर्यते, तेन स्त्रियामित्यधिकृत्य विहितानां टाबादीनां ग्रहणं भवति; नार्थस्य, नापि स्वरूपस्य । क्तिन्नादीनां तु ह्रस्वभावित्वाभावादग्रहणम् । उपर्स्जनग्रहणं तयोर्विशेषणमिति । प्रत्येकं सम्बन्धातु द्विवचनं न भवतीत्याह-गोरुपसर्जनस्येत्यादि । स्त्रीप्रत्ययान्तस्येति पाठः । पारिभाषिकं ह्यत्रोपसर्जनं गृह्यते । न च स्त्रीप्रत्ययमात्रस्य पारिभाषिकोपसर्जनत्वसम्भवः । ताभ्यामिति । उपसर्जनेन गोशब्देन स्त्रीप्रत्ययान्तेन च यदि ताभ्यां तदन्तविधिर्न विज्ञायते, तदा उपसर्जनस्य गोशब्दस्य स्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्व इत्यर्थः स्यात्; ततश्च गोकुलं राजकुमारीपुत्र इत्यत्रापि स्यादिति भावः । इह तु ऽकुमारीपुत्रःऽ इत्यत्र प्रातिपदिकत्वादेवाप्रसङ्गः । उपसर्जनस्त्रीप्रत्ययान्तान्तस्येति पाठः । उपसर्जनं यत् स्त्रीप्रत्ययान्तं तदन्तस्येत्यर्थः । यदि तु लौकिकेनोपसर्जनेन स्त्रीप्रत्ययमात्रं विशेष्य पश्चातेन प्रातिपदिकस्य तदन्तविधर्विज्ञायिते - उपसर्जनं यः स्त्रीप्रत्ययस्तदन्तस्य प्रातिपदिकस्येति, ततो हरीतक्यः फलानीत्यत्रापि स्यात्; स्त्रीप्रत्ययार्थस्य फलं प्रत्युपसर्जनत्वातद्धितान्तत्वेन प्रातिपदिकत्वाच्च । अत एवमेवाश्रयणीयम् - स्त्रीप्रत्ययान्तं यच्छास्त्रीयमुपसर्जनं तदन्तस्य प्रातिपदिकस्येति । निष्कौशाम्बिरिति । कौशम्बीत्येकबिभक्तीत्युपसर्जनं स्त्रीः त्ययान्तं तदन्तं समासप्रातिपदिकम् । अथेह कथं ह्रस्वत्वमतिराजकुमारिरिति, यावता कुमारशब्दान् ङीब्विहतो न तु राजकुमारशब्दात् ? सत्यम्; अनुपर्जने स्त्रीप्रत्यये तदादिनियमो नास्ति । अथ गोशब्देन स्त्रीप्रत्ययान्तेन च प्रातिपदिकस्य तदन्तविधौ सत्यपि गोकुलं राजकुमारीपुत्र इत्यत्र कस्मान्न भवति, यावता ऽयेन विधिस्तदन्तस्यऽ इत्यत्र ऽस्वं रूपम्ऽ इत्यनुवर्तते, ततश्च येन तदन्तविधिः तत्स्वरूपस्यापि ग्रहणेन भाव्यम् ? एवं तर्हि गोशब्देन प्रातिपदिकस्य विशेषणसामर्थ्यात् केवलस्य न भवति; अन्यथा गोशब्दस्यैवोपसर्जनस्य ह्रस्वं विदध्याद्, ऽयेन विधिस्तदन्तस्यऽ इत्यत्र ऽस्वंरुपम्ऽ इति निवर्त्यम् । व्यपदेशिवद्भावोऽपि प्रातिपदिके नास्ति । राजकुमारीपुत्र इत्यत्र तु परिहारः - शास्त्रीयमप्युपसर्जनं सति सम्भवेऽन्वर्थमेवाप्रधानमुपसर्जनमिति, प्रधानं चापेक्ष्याप्रधानं भवति । स्त्रीप्रत्ययान्तस्य च प्रातिपदिकत्वं समासमन्तरेणानुपपन्नम्, समासश्चावयवात्मकः; द्वयं चात्र संनिहितम्-प्रधानमप्रधानमिति; तत्रैवं विज्ञास्यामः-यत् स्त्रीप्रत्ययान्तं समासप्रातिपदिकं तदन्तर्भूतमेवापेक्ष्य स्त्रीप्रत्ययान्तस्याप्राधान्यमिति । इह तु तत्रानन्तर्भूतं पुत्रमपेक्ष्याप्राधान्यमिति न भवति ह्रस्वः । ईयस इत्यादि । ईयसुन्नन्ताद्यः स्त्रीप्रत्ययो विहितस्तदन्तान्तस्येत्यर्थः । बहुश्रेयसीति । ऽप्रशस्यस्य श्रःऽ ङीप्, बह्व्यः श्रेयस्योऽस्येति बहुव्रीहिः, ऽनद्यःतश्चऽ इति कप्, ऽईयसश्चऽ इति प्रतिषेधः, पुंस्यपि सोर्हल्ङ्यादिलोपः । बहुव्रीहेरिति किम् ? अतिश्रेयसिः ॥