हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्

6-1-68 हल्ङ्याब्भ्यः दीर्घात् सुतिसि अपृक्तं हल्

Sampurna sutra

Up

दीर्घात् हल्-ङी-आब्भ्यः सु-ति-सि-अपृक्तम् हल् लोपः

Neelesh Sanskrit Brief

Up

हलन्तात्, दीर्घात् ङ्यन्तात्, दीर्घात् आबन्तात् च परस्य सुँ-ति-सि-प्रत्ययानाम् अपृक्तः हल् लुप्यते ।

Neelesh English Brief

Up

The सुँ, ति, or सि प्रत्यय, when present as a single letter, is removed when attached to - (1) a word ending in a हल् letter, or (2) A दीर्घ word ending in the ङीप् / ङीष् / ङीन् / चाप् / टाप् / डाप् प्रत्यय.

Kashika

Up

लोप इति वर्तते। तदिह लौकिकेनार्थेनार्थवत् कर्मसाधनं द्रष्टव्यम्। लुप्यत इति लोपः। हलन्ताद् ङ्यन्तादाबन्तात् च दीर्घात् परं सु ति सि इत्येतदपृक्तं हल् लुप्यते। हलन्तात् सुलोपः — राजा। तक्षा। उखास्रत्। पर्णध्वत्। ङ्यन्तात् — कुमारी। गौरी। शार्ङ्गरवी। आबन्तात् — खट्वा। बहुराजा। कारीषगन्ध्या। हलन्तादेव तिलोपः सिलोपश्च। तत्र तिलोपस्तावत् — अबिभर्भवान्। भृञो लङि तिपि श्लौ <<भृञामित्>> ७.४.७६ इत्यभ्यासस्येत्त्वम्। अजागर्भवान्। सिलोपः — अभिनोऽत्र। अच्छिनोऽत्र। दस्य रेफः। हल्ङ्याब्भ्य इति किम् ? ग्रामणीः। सेनानीः। दीर्घादिति किम् ? निष्कौशाम्बिः। अतिखट्वः। सुतिसीति किम् ? अभैत्सीत्। तिपा सहचरितस्य सिशब्दस्य ग्रहणात् सिचो ग्रहणं नास्ति। अपृक्त मिति किम्? भिनत्ति। छिनत्ति। हलिति किम् ? बिभेद। चिच्छेद। अथ किमर्थं हलन्तात् सुतिसीनां लोपो विधीयते, संयोगान्तलोपेनैव सिद्धम्? न सिध्यति। राजा तक्षेत्यत्र संयोगान्तलोपस्यासिद्धत्वाद् नलोपो न स्यात्। उखास्रत्, पर्णध्वदित्यत्रापदान्तत्वाद् दत्वं च न स्यात्। अभिनोऽत्रेत्यत्र <<अतो रोरप्लुतादप्लुते>> ६.१.११३ इत्युत्त्वं न स्यात्। अबिभर्भवानित्यत्र तु <<रात् सस्य>>८.२.२४ इति नियमात् लोप एव न स्यात्।

संयोगान्तस्य लोपे हि नलोपादिर्न सिध्यति।

रात् तु ते नैव लोपः स्याद् धलस्तस्माद् विधीयते॥

Siddhanta Kaumudi

Up

हलन्तात्परं दीर्घौ यौ ङ्यापौ तदन्ताच्च परं सुतिसीत्येतदपृक्तं हल् लुप्यते । हल्ङ्याब्भ्यः किम् । ग्रामणीः । दीर्घात्किम् । निष्कौशाम्बिः । अतिखट्वः । सुतिसीति किम् । अभैत्सीत् । तिपा सहचरितस्य सिपो ग्रहणात्सिचो ग्रहणं नास्ति । अपृक्तमिति किम् । बिभर्ति । हल्किम् । बिभेद । प्रथमहल् किम् । राजा । नलोपो न स्यात् संयोगान्तलोपस्यासिद्धत्वात् । सखा । हे सखे ॥

Laghu Siddhanta Kaumudi

Up

हलन्तात्परं दीर्घौ यौ ङ्यापौ तदन्ताच्च परं सुतिसीत्येतदपृक्तं हल् लुप्यते॥

Neelesh Sanskrit Detailed

Up

हलन्तात्, दीर्घ-ङ्यन्त-शब्दात् तथा च दीर्घ-आबन्त-शब्दात् विहितस्य प्रथमैकवचनस्य सुँ-प्रत्ययस्य, प्रथमपुरुषैकचवनस्य तिप्-प्रत्ययस्य, तथा च मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययस्य अपृक्त-अवस्थायाम् लोपः भवति । इत्युक्ते — 1. हलन्तात्, दीर्घ-ङ्यन्तात्, दीर्घ-आबन्तात् विहितस्य सुँ-प्रत्ययस्य इत्संज्ञक-उकारस्य लोपे कृते यः अपृक्तः स् इति अवशिष्यते, तस्य प्रकृतसूत्रेण लोपः भवति । 2. हलन्तात् विहितस्य ति-प्रत्ययस्य इकारस्य <<इतश्च>> 3.4.100 इत्यनेन लोपे कृते यः अपृक्तः त् इति अवशिष्यते, तस्य प्रकृतसूत्रेण लोपः भवति । 3. हलन्तात् विहितस्य सि-प्रत्ययस्य इकारस्य <<इतश्च>> 3.4.100 इत्यनेन लोपे कृते यः अपृक्तः स् इति अवशिष्यते, तस्य प्रकृतसूत्रेण लोपः भवति । <<अपृक्त एकाल् प्रत्ययः>> 1.2.41 इत्यनेन सूत्रेण एकवर्णात्मकस्य प्रत्ययस्य अपृक्तः इति संज्ञा भवति । क्रमेण उदाहरणानि एतानि — 1. हलन्तात् विहितस्य सुँ-प्रत्ययस्य अपृक्त-सकारस्य लोपः — राजन्-शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् अपृक्तसकारस्य प्रकृतसूत्रेण लोपः भवति — राजन् + सुँ [<<स्वौजस्..>> 4.1.2 इति सुँ-प्रत्ययः] → राजन् + स् [<<उपदेशेऽजनुनासिक इत्>> 1.3.2 इति उकारस्य इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः] → राजान् + स् [<<सर्वनामस्थाने चासम्बुद्धौ>> 6.4.8 इति सर्वनामस्थानप्रत्यये परे नकारान्तस्य अङ्गस्य उपधादीर्घः भवति ।] → राजान् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति अपृक्त-सकारस्य लोपः] → राजा [<<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इति पदान्तनकारस्य लोपः] अस्यां प्रक्रियायाम् अपृक्त-सकारस्य <<संयोगान्तस्य लोपः>> 8.2.23 इत्यनेन लोपः न सम्भवति, यतः तादृशे लोपे कृते तस्य असिद्धत्वात् <<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इत्यस्य कृते पदान्ते नकारः नैव विधीयेत, येन <<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इत्यनेन नकारलोपः अपि नैव सम्भवेत् । 2. दीर्घ-ङ्यन्तात् विहितस्य सुँ-प्रत्ययस्य अपृक्त-सकारस्य लोपः — स्त्रीप्रत्ययप्रकरणे पाठिताः ङीप् / ङीष् / ङीन् एते त्रयः प्रत्ययाः साकल्येन ङ्यन्ताः नाम्ना ज्ञायन्ते । एतेषाम् एव निर्देशः अस्मिन् सूत्रे कृतः अस्ति । एतेषाम् कस्यचित् प्रत्ययस्य योजनेन सिद्धः शब्दः दीर्घस्वरान्तः (ईकारान्तः) अस्ति चेत् तस्मात् विहितस्य अपृक्त-सुँ-प्रत्ययस्य प्रकृतसूत्रेण लोपः भवति । यथा, नदी इति शब्दः नद शब्दात् ङीप्-प्रत्ययं कृत्वा सिद्ध्यति, तथा च अस्य अन्ते दीर्घः स्वरः विद्यते । अतः अस्य शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् प्रकृतसूत्रेण सुँ-प्रत्ययस्य लोपः भवति — नदी + सुँ [<<स्वौजस्..>> 4.1.2 इति सुँ-प्रत्ययः] → नदी [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति सुँ-प्रत्ययस्य लोपः] ये शब्दाः ङीप्/ङीष्/ङीन्—प्रत्ययान्ताः न सन्ति, तेषां विषये इदं सूत्रं न प्रवर्तते । यथा, लक्ष्मी इति शब्दः ङ्यन्तः नास्ति, अतः अस्य प्रथमैकवचनस्य रूपे सुँलोपः न जायते, अतश्च लक्ष्मीः इत्येव रूपं सिद्ध्यति । एतादृशाः आहत्य सप्त शब्दाः संस्कृतभाषायाम् सामान्यरूपेण प्रयुज्यन्ते । तेषाम् सङ्कलनम् एकस्यां कारिकायां कृतम् अस्ति — अवी-तन्त्री-तरी-लक्ष्मी-ह्री-श्री-धीनाम् उणादिषु । सप्तानाम् अपि शब्दानां सुँलोपो न कदाचन ॥ ये शब्दाः ङीप्/ङीष्/ङीन्—प्रत्ययान्ताः सन्ति परन्तु दीर्घान्ताः न सन्ति, तेषां विषये अपि इदं सूत्रं न प्रवर्तते । यथा, कौशाम्बाः निर्गतः इत्यस्मिन् अर्थे <!निरादयः क्रान्ताद्यर्थे पञ्चम्या!> इत्यनेन वार्त्तिकेन पञ्चमीतत्पुरुषसमासः भवति, येन निष्कौशाम्बिः इति शब्दः सिद्ध्यति । अस्मिन् शब्दे यद्यपि ङीप्-प्रत्ययः अन्ते विद्यते, तथापि <<गोस्त्रियोरुपसर्जनस्य>> 1.2.48 इति सूत्रेण तस्य ह्रस्वादेशे कृते अन्तिमरूपे ह्रस्वः इकारः एव श्रूयते । एतादृशानां शब्दानां विषये प्रकृतसूत्रं नैव प्रवर्तते । अतः निष्कौशाम्बि-शब्दस्य प्रथमैकवचनस्य रूपे सुँलोपः न भवति, येन निष्कौशाम्बिः इत्येव रूपं सिद्ध्यति । 3. दीर्घ-आबन्तात् विहितस्य सुँ-प्रत्ययस्य अपृक्त-सकारस्य लोपः — स्त्रीप्रत्ययप्रकरणे पाठिताः टाप् / डाप् / चाप् एते त्रयः प्रत्ययाः साकल्येन आबन्ताः नाम्ना ज्ञायन्ते । एतेषाम् एव निर्देशः अस्मिन् सूत्रे कृतः अस्ति । एतेषाम् कस्यचित् प्रत्ययस्य योजनेन सिद्धः शब्दः दीर्घस्वरान्तः (आकारान्तः) अस्ति चेत् तस्मात् विहितस्य अपृक्त-सुँ-प्रत्ययस्य प्रकृतसूत्रेण लोपः भवति । यथा, बाला इति शब्दः बाल-शब्दात् टाप्-प्रत्ययं कृत्वा सिद्ध्यति, तथा च अस्य अन्ते दीर्घः स्वरः विद्यते । अतः अस्य शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् प्रकृतसूत्रेण सुँ-प्रत्ययस्य लोपः भवति — बाला + सुँ [<<स्वौजस्..>> 4.1.2 इति सुँ-प्रत्ययः] → बाला [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति सुँ-प्रत्ययस्य लोपः] सर्वेऽपि आकारान्त-स्त्रीलिङ्ग-शब्दाः आबन्ताः एव सन्ति, अतः तेभ्यः सर्वेभ्यः विहितस्य अपृक्त-सुँ-प्रत्ययस्य प्रकृतसूत्रे लोपः क्रियते । ब>आकारान्तपुंलिङ्गशब्दाः आबन्ताः न सन्ति, अतः तेषाम् विषये प्रकृतसूत्रम् नैव प्रवर्तते, अतः एतेषाम् प्रथमैकवचनस्य रूपे सुँलोपः न भवति । यथा विश्वपा-शब्दस्य प्रथमैकवचनस्य रूपे सुँ-प्रत्ययस्य सकारस्य विसर्गादेशे कृते विश्वपाः इति रूपं सिद्ध्यति । यत्र आबन्तशब्दस्य अन्ते दीर्घः स्वरः न विद्यते, तत्र अपि प्रकृतसूत्रस्य प्रयोगः न भवति । यथा, अतिक्रान्तः खट्वाम् इत्यस्मिन् अर्थे <!अत्यादयः क्रान्ताद्यर्थे द्वितीयया!> इत्यनेन द्वितीयातत्पुरुषसमासे कृते अतिखट्वः इति शब्दः सिद्ध्यति । अस्मिन् शब्दे यद्यपि टाप्-प्रत्ययः अन्ते विद्यते, तथापि <<गोस्त्रियोरुपसर्जनस्य>> 1.2.48 इति सूत्रेण तस्य ह्रस्वादेशे कृते अन्तिमरूपे ह्रस्वः अकारः एव श्रूयते । एतादृशानां शब्दानां विषये प्रकृतसूत्रं नैव प्रवर्तते । अतः अतिखट्व-शब्दस्य प्रथमैकवचनस्य रूपे सुँलोपः न भवति, येन अतिखट्वः इत्येव रूपं सिद्ध्यति । 3. हलन्तात् विहितस्य ति-प्रत्ययस्य अपृक्त-तकारस्य लोपः — ङित्-लकाराणाम् प्रक्रियासु हलन्तात् परस्य परस्मैपदस्य प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययस्य इकारस्य <<इतश्च>> 3.4.100 इत्यनेन लोपे कृते यः त्-इति अपृक्तः अंशः अवशिष्यते, तस्य प्रकृतसूत्रेण लोपः क्रियते । एतादृशः लोपः यद्यपि बहुषु स्थलेषु <<संयोगान्तस्य लोपः>> 8.2.23 इत्यनेन अपि सम्भवति, तथापि रेफात्-परस्य अपृक्त-तकारस्य लोपार्थम् प्रकृतसूत्रम् आवश्यकम् वर्तते, यतः रेफात् परस्य तकारस्य <<संयोगान्तस्य लोपः>> 8.2.23 इत्यनेन प्राप्तः लोपः <<रात्सस्य>> 8.2.24 इत्यनेन निषिध्यते । यथा, भृञ्-धातोः लङ्-लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धेः प्रक्रिया इयम् — डुभृञ् (धारणपोषणयोः, जुहोत्यादिः, <{3.6}>) → भृ [इत्संज्ञालोपः] → भृ + लङ् [<<अनद्यतने लङ्>> 3.2.111 इति लङ्] → अट् + भृ + लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अडागमः] → अ + भृ + तिप् [<<तिप्तस्झि...>> 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः] → अ + भृ + त् [<<इतश्च>> 3.4.100 इति इकारलोपः] → अ + भृ + शप् + त् [<<कर्तरि शप्>> 3.1.68 इति शप्-प्रत्ययः] → अ + भृ + ० + त् [<<जुहोत्यादिभ्यः श्लुः>> 2.4.75 इति शप्-प्रत्ययस्य श्लुः (लोपः) ।] → अ + भृ भृ + त् [<<श्लौ>> 6.1.10 इति द्वित्वम् । <<द्विर्वचनेऽचि>> 1.1.59 इत्यनेन इदम् अजादेशात् पूर्वं भवति ।] → अ + भृ + भर् + त् [<<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति अङ्गस्य गुणः । <<उरण् रपरः>> 1.1.51 इति सः रपरः] → अ + भिर् + भर् + त् [<<भृञामित्>> 7.4.76 इति अभ्यासस्य ईकारादेशः । <<उरण् रपरः>> 1.1.51 इति सः रपरः] → अ + भि + भर् + त् [<<हलादिः शेषः>> 7.4.60 इति अभ्यासस्य हलादिः शिष्यते ।] → अ + भि + भर् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति हलन्तात् विहितस्य अपृक्त-ति-प्रत्ययस्य लोपः । अत्र <<संयोगान्तस्य लोपः>> 8.2.23 इत्यनेन लोपः नैव सम्भवति, <<रात्सस्य>> 8.2.24 इति नियमात् ।] → अ + भि + भः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] → अबिभः [<<अभ्यासे चर्च>> 8.4.54 इति जश्त्वम् ] ङ्यन्तात् आबन्तात् च तिप्-प्रत्ययः नैव सम्भवति, अतः तयोः अत्र उदाहरणानि अपि न वर्तन्ते । 3. हलन्तात् विहितस्य सि-प्रत्ययस्य अपृक्त-तकारस्य लोपः — ङित्-लकाराणाम् प्रक्रियासु हलन्तात् परस्य परस्मैपदस्य मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययस्य इकारस्य <<इतश्च>> 3.4.100 इत्यनेन लोपे कृते यः स्-इति अपृक्तः अंशः अवशिष्यते, तस्य प्रकृतसूत्रेण लोपः क्रियते । एतादृशः लोपः यद्यपि सर्वत्र एव <<संयोगान्तस्य लोपः>> 8.2.23 इत्यनेन सम्भवति, तथापि तादृशः कृतः सकारलोपः सन्धिकार्यार्थम् असिद्धः भवति, अतः ततः इष्टानि सन्धिकार्याणि न प्रवर्तन्ते । अतएव अपृक्त-सकारस्य अपि प्रकृतसूत्रे ग्रहणम् कृतम् अस्ति । यथा, भिद्-धातोः लङ्लकारस्य मध्यमपुरुषैकवचनस्य रूपात् इत्यस्मात् अनन्तरम् अत्र इति शब्दः विद्यते चेत् प्रक्रियायाम् प्रकृतसूत्रेण लोपे कृते एव सन्धिकार्यम् सम्भवति — भिदिँर् (विदारणे, रुधादिः, <{7.2}>) → भिद् [ <!इँर इत्संज्ञा वाच्या!> इति इँर्-इत्यस्य लोपः] → भिद् + लङ् [<<अनद्यतने लङ्>> 3.2.111 इति लङ्] → अट् + भिद् + लङ् + अत्र [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अडागमः । अग्रे सन्धिकार्यार्थम् 'अत्र' इति शब्दः अपि स्थापितः अस्ति ] → अ + भिद् + सि + अत्र [<<तिप्तस्झि...>> 3.4.78 इत्यनेन मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः] → अ + भिद् + स् + अत्र [<<इतश्च>> 3.4.100 इति इकारलोपः] → अ + भि श्नम् द् + स् + अत्र [<<रुधादिभ्यः श्नम्>> 3.1.78 इति श्नम् । <<मिदचोऽन्त्यात्परः>> 1.1.47 इति सः अन्त्यात् अचः परः विधीयते ।] → अ + भि न द् + स् [इत्संज्ञालोपः] → अ + भि न द् + ० + अत्र [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति हल्-वर्णात् परस्य अपृक्त-सि-प्रत्ययस्य लोपः] → अ + भि न रुँ + अत्र [<<दश्च>> 8.2.75 इति दकारस्य रुँत्वम् ] → अ + भि न र् + अत्र [उकारस्य इत्संज्ञा, लोपः] → अ + भि न उ + अत्र [<<हशि च>> 6.1.114 इति उत्वम् । <<दश्च>> 8.2.75 इति सूत्रेण कृतम् रुँत्वम् निर्देशसामर्थ्यात् उत्वस्य कृते सिद्धम् अस्ति । परन्तु यदि पूर्वस्मिन् सोपाने <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इत्यस्य स्थाने <<संयोगान्तस्य लोपः>> 8.2.23 इति सूत्रेण सकारलोपः क्रियते, तर्हि सः सकारलोपः उत्वस्य कृते असिद्धः स्यात् अतः अत्र रेफात् परम् सकारम् एव दृष्ट्वा उत्वं नैव प्रवर्तेत ! अतः पूर्वस्मिन् सोपाने सकारलोपार्थम् <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इत्येव सूत्रम् प्रयोक्तव्यम् ।] → अ + भिनो + अत्र [<<आद्गुणः>> 6.1.87 इति गुणैकादेशः] → अभिनोऽत्र [<<एङः पदान्तादति>> 6.1.109 इति पूर्वरूपैकादेशः] प्रकृतसूत्रे अपृक्तशब्दात् अनन्तरम् 'हल्' ग्रहणस्य प्रयोजनम् प्रकृतसूत्रेण सुँ/ति/सि-प्रत्ययस्य अपृक्तस्य हल्-वर्णस्य लोपः उच्यते । एतद् हल्ग्रहणम् णल्-प्रत्ययस्य अकारस्य लोपनिषेधार्थम् अस्ति । यदि अस्मिन् सूत्रे हल् इति शब्दः नैव विद्येत, तर्हि लिट्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् तिप्-प्रत्ययस्य णल्-आदेशे कृते, इत्संज्ञालोपात् अनन्तरम् तस्य इति रूपस्य अपृक्तत्वे सिद्धे पपाठ इत्यादिषु स्थलेषु प्रकृतसूत्रेण अस्य अकारस्य अपि अनिष्टः लोपः भवेत् । तस्य बाधनार्थम् एव प्रकृतसूत्रे अपृक्तशब्दस्य हल् इति विशेष्यम् विशिष्टरूपेण निर्दिष्टम् अस्ति ।

Balamanorama

Up

<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> - हल्ङ्याब्भ्यो । हल् च ङीच आप् चेति द्वन्द्वः । दिग्योगे पञ्चमी । परमित्यध्याहार्यम् । समासैकदेशयोरपि ङ्यापोरेव दीर्घादिति विशेषणं, न तुहलः, असम्भवात् । एवं च दीर्घादिति द्वित्वे एकवचनमार्षम् । 'हल्ङ्याब्भ्य' इत्यस्य सुतिस्याक्षिप्तप्रकृतिविशेषणतया, प्रत्ययग्रहणपरिभा,या च तदन्तविधिः । ततश्च हलन्ताच्च दीर्घङ्याबन्ताच्च परमिति लब्धम् । 'सुतिसि' इति समाहारद्वन्द्वः । अपृक्तमिति हलिति च सामानाधिकरण्येनान्वेति । उकारे इकारे च लुप्ते परिशिष्टः सकारस्तकारश्च सुतिसि इत्यनेन विवक्षितः । ततश्च हलित्यनेन सामानाधिकरण्यं न विरुध्यते । 'लोपोः व्योः' इत्यतो लोप इत्यनुवर्तते । तच्चेह कर्मसाधनमाश्रीयते । लुप्यते इति लोपः । क्रमणि घञ् । तदाह — हलन्तात्परमित्यादिना । हल्ङ्याब्भ्यः किमिति । 'राम' इत्यादावदीर्घान्तत्वान्नदोष इति प्रश्नः । ग्रामणीरिति । ग्रमां नयतीति विग्रहः ।णीञ् प्रापणे॑ ।सत्सूद्विषे॑त्यादिना क्विप् ।अग्रग्रमाभ्यां नयतेर्णो वाच्यः॑ इति णत्वम् । हल्ङ्याबन्तत्वाऽभावान्न सुलोपः । दीर्घात्किमिति । ङ्यापोर्दीर्घत्वाऽव्यभिचारात्किमर्थं दीर्घत्वविशेषणमिति प्रश्नः । निष्कौशाम्बिः अतिखट्व इति । निष्क्रान्तः कौशाम्ब्याः, खट्वामतिक्रान्त इति विग्रहेनिरादयः क्रान्ताद्यर्थे पञ्चम्या॑अत्यादयः क्रान्ताद्यर्थे द्वितीयया॑ इति समासः । 'गोस्त्रियोः' इति ह्रस्वत्वम् । अत्र ह्रापोह्र्यस्वत्वान्न सुलोपः । अभैत्सीदिति । भिदेर्लुङि सिच् । अत्र तकारात्परस्य सकारस्य लोपो न, सुतिस्यन्यतमत्वाऽभावादित्यर्थः । ननु सिचस्सिरेवायमित्यत आह — तिपेति । तिपा सहचरितस्य विभक्तिरूपस्यैव ग्रहणात्सिचो ग्रहणं नेत्यर्थः । विभर्तीति । अत्र तीति समुदायस्य न हल्त्वम् । तकारस्तु यद्यपि तेरवयवो हल्, तथापि तस्य नाऽपृक्तत्वम् । वस्तुतस्तु उकारे इकारे च लुप्ते परिशिष्टः सकारस्त कारश्च सुतिसीत्यनेन गृह्रते, हल्शब्दसामानाधिकरण्यादित्युक्तम् । नात्र इकारलोपोऽस्ति । अतो हल्ग्रहणेनैव विभर्तीत्यत्र लोपाऽभावासिद्धेरपृक्तग्रहणस्य नेदं प्रत्युदाहरणम् । द्वितीयहल्ग्रहणस्य प्रयोजनं पृच्छति — हल् किमिति । बिभेदेति । भिदेर्लिट् तिप् णल् । णलोऽकारस्य हल्त्वाऽभावान्न लोपः । प्रथमहल् किमिति । राजन् स् इति स्थिते उपधादीर्घे संयोगान्तलोपेनैव राजेत्यादिसिद्धेरिति प्रश्नः । नन्विदं राजेति कथं प्रत्युदाहरणं, संयोगान्तलोपेनैव अन्यथासिद्धत्वादित्यत आह — नलोपादिर्न स्यादिति । संयोगान्तलोपे सति नलोपो न स्यादिति भावः ।अभिनोऽत्रे॑त्यत्र उत्वमादिशब्दार्थः । भिदेर्लङि सिप् ।इतश्चे ॑तीकरलोपः ।सिपि धातो रूर्वे॑ति रुत्वम् । सलोपः । अत्रअतोरोरप्लुता॑दित्युत्वं न स्यात् । कुत इत्यत आह — संयोगान्तलोपस्यासिद्धत्वादिति । हल्ङ्यादिलोपस्तु नासिद्धः, षष्ठप्रथमपादस्थत्वादिति भावः । अत्र क्वचित्पुस्तकेषुदीर्घात्किमित्यारभ्य संदर्भस्य प्रदर्शितत्वादिति शब्देन्दुशेखरे व्यक्तम् । सखेति । सुलोपे सति 'न लोपः' इति नकारलोपः । नचेहसु॑माश्रित्य अनङि कृते तन्नकारमाश्रित्य सोर्लोपो न संभवति, संनिपातपरिभाषाविरोधादिति वाच्#ं, 'स्वतन्त्रः कर्ता' इत्यादिनिर्देशेनाऽनङो नकारमाश्रित्य सुलोपे कर्तव्येसन्निपातपरिभाषाया अप्रवृत्तेरित्याहुः । हे सखे इति । 'अनङ् सौ' इत्यत्र असम्बुद्धावित्यनुवृत्तेरनङभावे ह्वस्वस्य गुणेएङ्ह्रस्वा॑दिति सुलोपे रूपम् ।

Padamanjari

Up

दीर्घग्रहणं सम्भवव्यभिचाराभ्यां ङ्भापोरेव विशेषणम्। ङ्याब्ग्रहणं च सोविशेषणम्। हलपृक्तग्रहणं च तिस्योः। सुतिसीति त्रीणि पदानि। तदिहेत्यादि। प्रकृतस्य लोपशब्दस्य शास्त्रीयस्य भावसाधनस्य सुतिसीति प्रथमान्तेन सम्बन्धाभवादिति भावः। अपर आह-इल्ङ्याब्भ्यःऽ इति पञ्चम्या सुतिसीत्यादिकायाः प्रथमायाः षष्ठ।लं प्रकल्पितायां शास्त्रीयेऽपि लापशब्दे न दोष इति। अभिनोऽत्रेति। भिदर्लङ् इसिलोपः,'दश्च' इति दकारस्य रूत्वम्, तस्य ठतो रोरप्लुतादप्लुतेऽ इत्युत्वम्, श्नमोऽकारेण ठाद्गुणःऽ, ठेङः पदान्तादतिऽ इति पूर्वरूपम्। निष्कौशाम्बिरति। ननु च प्रत्ययग्रहणपरिभाषया तदादिग्रहणादेवात्र न भविष्यति, इहापि तर्हि न स्यात् -परमकुमारी, परमखट्वेकि?'स्त्रीप्रत्यये चानुपसर्जने न' इति तदादिनियमाबावाद्भविष्यति। निष्कौशाम्बिरित्यादौ उपसर्जनत्वाद्भवत्येव तदादिनियमः ? एवं तर्हि एतज्ज्ञापयति -अर्द्धपिप्पलीत्यादौ ठेकविभक्ति चऽ इत्युपसर्जनत्वे सत्यपि लोपो भवति। नात्रोपसर्जनं पिप्लली; एकविभक्तावषष्ठ।ल्न्तमिति वचनात्। अत एव'गोस्त्रियोरुपर्जनस्य' इति ह्रस्वत्वं न भवति। मा भूच्छास्त्रीयमुपसर्जनम्, अप्रधानं तावद्भवत्येव -बह्व्यः श्रेयस्योऽस्य बहुश्रेयसीति? शास्त्रीयमप्युसर्जनत्वमस्ति, ठीयसश्चऽ इति कपः प्रतिषेधः, ठीयसो बहुव्रीहौ प्रतिषेधो वक्तव्यःऽ इति ह्रस्वाभावः। अपर आह -ठ्निष्कौशाम्बिरित्यादौ समुदायस्य ङ्याबन्तत्वेऽपि यदत्र ङ्याबन्तं कौशाम्ब्यादि, ततः परस्य सोर्लोपः प्राप्नोति दीर्घग्रहणाद्व्यावर्ततेऽ इति। ननु च विहितविशेषणं विज्ञायते -ङ्याबन्ताद्विहितस्येति? नैवं शक्यम्; या, सा, केत्यादौ न स्यात्, न ह्यत्र टाबन्तात्सुब्विहितः। मा भूदेवम्, हलन्ताद्विहित इत्येवं भविष्यिति। यद्येवम्, यः, सः, क इत्यत्रापि स्यात्, कर्ता हर्तेत्यादौ चन स्यात्, न ह्यत्र हलन्तात् त्सुर्विहित इति ? अतोऽन्यस्मादपि विहितस्य हल्ङ्याब्भ्योऽनन्तस्य लोप इत्यास्थेयम्। एवं च निष्कौशाम्ब्यादावपि लोपः प्राप्नो दीर्घग्रहणेन व्यावर्तनीयः। तिपा सहचरितस्येति। तिपा तिशब्देन साहचर्यात्सहापि तिङ् एव ग्रहणमित्यर्थः। अथ किमर्थमित्यादि।'ङ्यापोर्दीर्घात्सुः' इत्येव वक्तव्यमिति चोद्यार्थः। न लोपो न स्यादिति। ननु च'न ङसिम्बुद्धयोः' इति कज्ञापकान्नलोपे कर्तव्ये संयोगान्तलोपरः सिद्ध एव भविष्यति? न; पचन्नित्यादावपि प्रसङ्गात्। नकारसंबुद्धयोरानन्तर्ते प्रतिषेधो विज्ञायमानस्तुल्यजातीये नकारविभक्तयोरानन्तर्य एव संयोगान्तलोपस्य सिद्धत्वं ज्ञापयति। पचन्नित्यादौ तु तकारेण व्यवहितत्वाद् ज्ञापकाभावाल्लोपाभावः? -इत्याशङ्क्य दोषान्तरमाह -उखास्रत्, पर्णघ्वदिति। दत्वमिति। न स्यादित्यनुषङ्गः। उखास्रससु इति स्थिते संयोगान्तलोपमपवादत्वाद्बाधित्वा'स्कोः संयोगाद्योः' इति प्रकृतिसकारस्य लोपे श्रूयमाणः सकारो न वस्वादिसम्बन्धीति'वसुस्रंसु' इति दत्वं न स्यात्। न च संयोगादिलोपं बाधित्वा पूर्वमेव प्रकृतिसकारस्य दत्वं लभ्यते; अपदान्तत्वात्। न हि सौ श्रूयमाणे पूर्वस्य पदसंज्ञाऽस्ति; ठसर्वनामस्थानेऽ इति प्रतिषेधात्। अथापिसावपि पदत्वमिति पक्षाश्रयेण स्यात्पदत्वम्? एवमपि दत्वस्यासिद्धत्वात्पूर्वंसंयोगादिलोप एव स्यात्। ननु च वस्वादीनां दत्वं सौ दीर्घत्वे सिद्धमिति वक्ष्यति तत्र, सौ दीर्घग्रहणं न करिष्यते वस्वादीनां दत्वमित्येव, ततश्च पूर्वमेव दत्वं भविष्यति? एवमपि राजा, तक्षेत्यादौ सावपि पदत्वे सति संयोगान्तलोपस्यासिद्धत्वात्पूर्वं नलोपे सति असंयोगान्तत्वात्सोर्लोपो न स्यात्। तस्मात्सुष्ठूअक्तम् -दत्वं न स्यादिति। उत्वमिति। न स्यादित्यनुषङ्गः। स एव हेतुः - संयोगान्तलोपस्यासिद्धत्वादिति। उत्वमिति। न स्यादित्युनुषङ्गः। स एव हेतुः - संयोगान्तलोपस्यासिद्धत्वादिति। एतच्च'संयोगान्तलोपो रोरुत्वे सिद्धो वक्तव्यः' - इत्येतदनाश्रित्योक्तम्। तदाश्रयणे तु -हरिवो मेदिनीमित्यादिवत्सिद्धम्। रात्सस्येति नियमाल्लोप एव न स्यादिति। ननु रात्सस्यऽ इति द्वितकारकनिर्द्देशाक्तकारस्यापि प्रश्लेषाद्रेफादुतरस्य च तकारस्यापि लोपो विधास्यते? यद्येवम्, कीर्तयतेः क्विपि'कीः' इति स्यात्, यथान्यासे तु कीर्दिति भवति। तदेवं सिग्रहणमेकं न कर्तव्यम्, अन्यत्सर्वं कर्तव्यमिति स्थितम्। संयोगान्तस्य लोपे हीत्यादि। संग्रहश्लोकः। हिशब्दो हेतौ, नलोपादीत्यादिशब्देन दत्वोत्वयोर्गहणम्। ये तु संयोगान्तलोपवादिनस्तेषां रेपादुतरस्य तकारस्य अबिभर्भवानित्यत्र नैव लोपः स्यात्, तस्माद्धल उतरेषां सुतिसीनां लोपो विधीयते ॥