झोऽन्तः

7-1-3 झः अन्तः प्रत्ययादीनाम्

Sampurna sutra

Up

प्रत्ययस्य झः अन्तः

Neelesh Sanskrit Brief

Up

प्रत्ययस्य झ्-इत्यस्य 'अन्त्' इति आदेशः भवति ।

Neelesh English Brief

Up

The letter झ् occurring in a प्रत्यय is converted to अन्त्.

Kashika

Up

प्रत्ययग्रहणमनुवर्तते, आदिग्रहणं निवृत्तम्। प्रत्ययावयवस्य झस्य अन्त इत्ययमादेशो भवति। कुर्वन्ति। सुन्वन्ति। चिन्वन्ति। अद्य श्वो विजनिष्यमाणाः पतिभिः सह शयान्तै (वासि०गृ० १३.२४)। <<जृविशिभ्यां झच्>> (प०उ० ३.१२६) — जरन्तः। वेशन्तः। प्रत्ययस्येत्येव — उज्झिता। उज्झितुम्। उज्झितव्यम्। अस्मिन्नप्यन्तादेशे कृते प्रत्ययाद्युदात्तत्वं भवति। तथा च झचश्चित्करणमर्थवद् भवति॥

Siddhanta Kaumudi

Up

प्रत्ययावयवस्य झस्यान्तादेशः स्यात् । अतो गुणे <{SK191}> । भवन्ति । भवसि । भवथः । भवथ ॥

Laghu Siddhanta Kaumudi

Up

प्रत्ययावयवस्य झस्यान्तादेशः। अतो गुणे। भवन्ति। भवसि। भवथः। भवथ॥

Neelesh Sanskrit Detailed

Up

झ्-इति वर्णः तिङ्प्रत्ययेषु दृश्यते - परस्मैपदस्य प्रथमपुरुषवहुवचनस्य 'झि' प्रत्ययः तथा आत्मनेपदस्य प्रथमपुरुषबहुवचनस्य 'झ' प्रत्ययः । एतयोः उपस्थितस्य झकारस्य अन्त्-आदेशः भवति । उदाहरणे एते - 1) पठ्-धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् - पठ् + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → पठ् + झि [<<तिप्तस्झि..>> 3.4.78 इति परस्मैपदस्य प्रथमपुरुष-बहुवचनस्य झि-प्रत्ययः] → पठ् + शप् + झि [<<कर्तरि शप>> 3.1.68 इति विकरणप्रत्ययः शप्] → पठ् + अ + अन्ति [<<झोऽन्तः>> 7.1.3 इति झ्-इत्यस्य 'अन्त्' आदेशः] → पठन्ति [<<अतो गुणे>> 6.1.97 इति गुण-एकादेशः अकारः] 2) वन्द्-धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् - वन्द् + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → वन्द् + झ [<<तिप्तस्झि..>> 3.4.78 इति आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य झ-प्रत्ययः] → वन्द् + शप् + झ [<<कर्तरि शप>> 3.1.68 इति विकरणप्रत्ययः शप्] → वन्द् + अ + अन्त [<<झोऽन्तः>> 7.1.3 इति झ्-इत्यस्य 'अन्त्' आदेशः] → वन्द् + अ + अन्ते [<<टित आत्मनेपदानां टेरे>> 3.4.79 इति टि-संज्ञकस्य अकारस्य एकारादेशः] → वन्दन्ते [<<अतो गुणे>> 6.1.97 इति गुण-एकादेशः अकारः] ज्ञातव्यम् - 1. अस्मिन् सूत्रे पूर्वस्मात् सूत्रात् 'प्रत्ययादीनाम्' इत्यस्मात् केवलं 'प्रत्यय' इति अनुवर्तते, 'आदि' इति न । 2. झकारस्य प्रयोजनाभावात् <<चुटू>> 1.3.7 इत्यनेन इत्संज्ञा न भवति । 3. <<झेर्जुस्>> 3.4.108 इत्यनेन झि-प्रत्ययस्य लिङ्लकारस्य विषये विहितः जुस्-आदेश, तथा च <<सिजभ्यस्तविदिभ्यश्च>> 3.4.109 इत्यनेन अभ्यस्तात् परस्य लिङ्-लकारस्य विषये झि-प्रत्ययस्य विहितः जुस्-आदेशः - उभौ अपि वर्तमानसूत्रस्य अपवादत्वेन आगच्छतः ।

Balamanorama

Up

<<झोऽन्तः>> - झः अन्त इति च्छेदः । 'झ' इति षष्ठन्तम् । आदेशे तकारादकार उच्चारणार्थः ।आयनेयी॑ति सूत्रात्प्रत्ययग्रहणमनुवर्तते, न त्वादिग्रहणमपि, अस्वरितत्वात् । अनुवृत्तं च प्रत्ययग्रहणमवयवषष्ठन्तमाश्रीयते । तदाह — प्रत्ययावयवस्येति । झस्य । झकारस्येत्यर्थः । अन्तादेशः स्यादिति । 'अन्त्' इत्ययमादेशः स्यादित्यर्थः । प्रत्ययावयवस्येति किम् । उज्झिता । अत्र धात्ववयवस्य झकारस्य न भवति । आदिग्रहणानुवृत्तौ तु 'शयान्तै' इति न सिध्यति । अन्तादेशात्प्रागेवान्तरङ्गत्वाल्लेटोऽडाटावित्याटि कृते झकारस्य प्रत्ययादित्वाऽभावादिति भाष्ये स्पष्टम् । एवं च 'भव-झी' त्यत्र झकारस्य अन्त् इत्यादेशे, भव-अन्तीति स्थिते, 'अतो गुण' इति द्वयोरकारयोः सवर्णदीर्गापवादे पररूपे कृते, भवन्तीति रूपमित्यर्थः । अन्तादेशे प्रथमाऽकारोच्चारणं तु लुगविकरणे द्विषन्तीत्यादौ अकारश्रवणार्थम् । भवसीति । मध्यमपुरुषैकवचने सिपि शपि गुणेऽवादेशे रूपम् । भवथ इति । मध्यमपुरुषद्विवचने थसि शपि गुणेऽवादेशे रुत्वविसर्गयोश्च रूपम् । 'न विभक्तौ तुस्मा' इति सस्य नेत्त्वम् । भवथेति । मध्यमपुरुषबहुवचने थादेशे शपि गुणे अवादेशे रूपम् ।

Padamanjari

Up

आदिग्रहणं निवृतमिति । तदनुवृतौ हि शयान्तै इत्यत्र शीङे लेटि लेटोऽडाटौ इति लावस्थायामेव प्राप्ते आटि सति झकारस्यानादित्वान्न स्यात् । कथं पुनः समासनिर्द्दिष्टानामेकदेशोऽनवर्तते नैष दोषः, अनाश्रितार्थकं शब्दमात्रं स्वरितत्ववशादनुवर्तते - इति पक्षे यस्यैव स्वरितत्वं प्रतिज्ञातं तस्यैवानुवृत्तिः । अर्थाधिकारपक्षे तु समासार्थस्यैकत्वातस्यैवानुवृत्तिः स्याद्वा, न वा । यद्वा - प्रत्ययग्रहणं पूर्वसूत्रे पृथक् पदं लुप्तविभक्तिकम्, तेन तस्यैवानुवृत्तिर्भविष्यति । आदेशे त्वकार उच्चारणार्थः तेन पचन्तीत्यादौ श्रवणं न भवति ॥