क्विन्प्रत्ययस्य कुः

8-2-62 क्विन्प्रत्ययस्य कुः पदस्य पूर्वत्र असिद्धम्

Sampurna sutra

Up

पदस्य क्विन्प्रत्ययस्य कुः

Neelesh Sanskrit Brief

Up

क्विन्प्रत्ययान्तशब्दस्य पदान्ते कवर्गादेशः भवति ।

Neelesh English Brief

Up

The word ending in a क्विन्-प्रत्यय gets a कवर्गादेश at पदान्त ।

Kashika

Up

पदस्येति वर्तते। क्विन्प्रत्ययस्य सर्वत्र पदान्ते कुत्वमिष्यते। क्विन् प्रत्ययो यस्माद् धातोः स क्विन्प्रत्ययः, तस्य पदस्यालोऽन्त्यस्य कवर्गादेशो भवति। <<स्पृशोऽनुदके क्विन्>> ३.२.५८ — घृतस्पृक् । हलस्पृक्। मन्त्रस्पृक्। क्विनः कुरिति वक्तव्ये प्रत्ययग्रहणं कृतं बहुव्रीहिविज्ञानार्थम्, क्विन् प्रत्ययो यस्माद् विहितस्तस्मादन्यस्मिन्नपि प्रत्यये कुत्वं यथा स्यात्। मा नो अस्राक्। मा नो अद्राक् । सृजिदृशिभ्यां हि क्विन् विहितः,तयोर्लुङि कुत्वमेतत्। माङ्योगेऽपि छान्दसत्वादडागमः। ईट् च न भवति <<बहुलं छन्दसि>> ७.३.९७ इति। तथा दृग्भ्याम्, दृग्भिरिति क्विबन्तस्यापि दृशेः कुत्वं भवति। एवं च सति रज्जुसृड्भ्यामित्यत्रापि कुत्वं प्राप्नोति। अथ तु नेष्यते, प्रतिविधानं कर्तव्यमिति॥

Siddhanta Kaumudi

Up

क्विन्प्रत्ययो यस्मात्तस्य कवर्गोऽन्तादेशः स्यात्पदान्ते । नस्य कुत्वेनाऽनुनासिको ङकारः । युङ् । नश्चापदान्तस्येति नुमोऽनुस्वारः । परसवर्णः । तस्याऽसिद्धत्वात् चोः कुः <{SK378}> इति कुत्वं न । युञ्जौ । युञ्जः । युञ्जम् । युञ्जौ । युजः । युग्भ्यामित्यादि । असमासे किम् ॥

Laghu Siddhanta Kaumudi

Up

क्विन्प्रत्ययो यस्मात्तस्य कवर्गोऽन्तादेशः पदान्ते। अस्यासिद्धत्वाच्चोः कुरिति कुत्वम्। ऋत्विक्, ऋत्विग्। ऋत्विजौ।ऋत्विग्भ्याम्॥

Neelesh Sanskrit Detailed

Up

ये शब्दाः क्विन्-प्रत्ययान्ताः सन्ति, तेषामन्तिमवर्णस्य पदान्ते कवर्गादेशः भवति । यथा - 'स्पृश्' अयं धातुः सुबन्ते उपपदे <<स्पृशोऽनुदके क्विन्>> 3.2.58 इत्यनेन क्विन्-प्रत्ययं प्राप्नोति । क्विन्-अयं सर्वापहारी प्रत्ययः, अतः घृतस्पृश् + क्विन् → घृतस्पृश् इत्येव प्रातिपदिकं सिद्ध्यति । अत्र तृतीयाद्विवचनस्य भ्याम्-प्रत्यये परे 'घृतस्पृश् + भ्याम्' इत्यत्र अङ्गस्य पदसंज्ञायां सत्याम् <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> 8.2.36 इत्यनेन षत्वं भवति । अग्रे षकारस्य <<झलां जशोऽन्ते>> 8.2.39 इति जश्त्वे डकारे कृते तस्य वर्तमानसूत्रेण कवर्गादेशः गकारः विधीयते, अतः 'घृतस्पृग्भ्याम्' इति रूपं सिद्ध्यति ।

शास्त्रविषयः - अस्मिन् सूत्रे प्रयुक्तः 'क्विन्प्रत्यय' इति शब्दः बहुव्रीहिसमासघटितः अस्ति, अतः — क्विन्-प्रत्ययः यस्मात् सम्भवति तस्य शब्दस्य (अन्यस्मिन् प्रत्यये परे अपि) पदान्ते कवर्गादेशः भवति — इति अर्थः अत्र सिद्ध्यति इति अत्र व्याख्यानेषु स्पष्टीक्रियते । अतः केवलात् (अनुपपदात्) स्पृश्-धातोः क्विप्-प्रत्यये कृते अपि प्रकृतसूत्रस्य प्रयोगः अवश्यमेव भवति । यथा, स्पृश् + क्विप् + भ्याम् → स्पृग्भ्याम् ।

Balamanorama

Up

<<क्विन्प्रत्ययस्य कुः>> - क्विन्प्रत्ययस्य कुः ।पदस्ये॑त्यधिकृतम् । 'झलाञ्जशोऽन्ते' इत्यतेऽन्त इत्यनुवर्तते । क्विन् प्रत्ययो यस्मात् स क्विन्प्रत्ययः, तस्येति बहुव्रीहिः । क्विन्नन्तस्येति तु नार्थः, तथासतिक्विनः कु॑रित्येव ब्राऊयात्, प्रत्ययग्रहणपरिभाषाया क्विन्नन्तस्येत्यर्थलाभात् । तदाह — क्विन्प्रत्ययो यस्मादित्यादिना । बहुव्रीहेः प्रयोजनं तु घृतस्पृश्शब्दानिरूपणे मूल एव वक्ष्यते । कुरिति कवर्गो गृह्रते, उदित्त्वात् । अणिदित्सूत्रे 'अप्रत्यय' इत्येतदणैव संबध्यते, नतूदिता, उदित्करणसामर्थ्यात् । तेन कुरिति विधायमानोपि सवर्णग्राहकः । ननु नकारस्य कुत्वे कखगघङा पञ्चापि पर्यायेण प्राप्नुयुः, स्थानत आन्तर्यस्य पञ्चस्वप्यभावात्, स्पृष्टप्रयत्नत आन्तर्यस्य पञ्चस्वप्यविशिष्टत्वात्, घोषसंवारनादवता अल्पप्राणवता च नकारेण गकारस्यापि आन्तर्यसत्त्वात् । अत आह — नस्येति । नासिकास्थानत आन्तर्यादिति भावः । युङिति । 'युजिर्योगे ।' रूधादिः । युनक्तीति युङ् । नुमि कृते तदीयनकारस्य 'चोः कुः' इति कुत्वं न प्रानोतीतिक्वन्प्रत्ययस्ये॑त्यारम्भः । अथ औजसादिषु विशेषमाह — नश्चेति । नुम इति । 'युजेरसमासे' इति विहितस्ये॑ति शेषः । परसवर्ण इति ।अनुस्वारस्य ययी॑ति परसवर्णो ञकारो, नासिकास्तथानत आन्तर्यादिति भावः । तेन युञ्जावित्यादि सिद्धम् । नन्विह ञकारस्य झलि जकारे परेचोः कु॑रिति कुत्वं कुतो न स्यादित्यात आह — तस्येति । परसवर्णस्येत्यर्थः । युग्भ्यामिति । 'स्वादिषु' इति पदत्वाज्जकारस्य गकार इति भावः ।

Padamanjari

Up

क्विनः कुरिति वक्तव्ये इति । न हि क्विन्प्रत्ययत्वं व्यभिचरतीति भावः । न चैवमुच्यमाने'वेरपृक्तस्य' इति लोपं बाधित्वा क्विन एव वकारस्य कुत्वं घकारः प्राप्नोतीति शङ्कनीयम्; तथा क्विन इति प्रत्यग्रहणपरिभाषया तदन्तस्य ग्रहणे सति क्विनो वकारस्य लोपे कर्तव्ये सति कुत्वस्यासिद्धत्वात् राल्लोपऽ एव भवति, तस्मिंश्च सति पश्चाद्भवत्कुत्वं परिशिष्टस्य धातोरेव भविष्यति । स्यादेतत् - क्विबादिषु सावकाशं लोपं विशेषविहितं कुत्वमपवादो वचनप्रामाण्यादिति न्यायेन बाधेतेति ? तन्न; एवं हि वर्गग्रहणमनर्थकंस्यात् । अनेकस्य स्थानिनोऽनेकादेशप्रतिपतये हि वर्गग्रहणम्, वकारस्यैव तु स्थानित्वे घकार एव निर्दिश्येत,'वर्गाणां तृतीयचतुर्थाः' इति शिक्षायां वकारघकारयोर्गुणसाम्यप्रतिपादनात् । तस्मात्'क्विनः कुः' इत्येव वक्तव्यम् । बहुव्रीहिविज्ञानार्थमिति । बहुव्रीहिविज्ञानार्थमिति । बहुव्रीहिश्चोपलक्षणेऽपि भवति, यथा - चित्रगुरानीयतामिति गवामभावेऽपि चित्रगवीभिरुपलक्षितस्यानयनं भवति, तथेहाप्यसत्यपि क्विपि क्विनोपलक्षितस्य धातोः कार्यं भवतीति । अस्राग्, अद्रागिति । सृजिदृशिभ्याम्'माङ् लुङ्' , इतिप्, च्लेः सिच्, हल्ङ्यादिलोपः,'वदव्रज' इति वृद्धिः । अत्र व्रश्चादिषत्वे प्राप्ते कुत्वम् - जस्य गः, शस्य खः, तस्यापि जश्त्वम्,'वावसाने' इति चर्त्वम् - ककारः ।'पूर्वत्रासिद्धम्' इत्यसिद्धत्वं षत्वे कुत्वस्य नास्ति; प्रत्ययग्रहणसामर्थ्यात् षत्वापवादत्वात् कुत्वस्य । क्विबन्तस्यापीति । द्रष्टेत्यादौ तु न भवति; अपदान्तत्वात् । एवं च सतीत्यादि । तद्वदेव । दृग्भ्यामिति कुत्वमुदाहृतम् । प्रतिविधातव्यमिति । प्रतिविधानं कर्तव्यमिति । प्रतिविधानं वचनमेव ॥