प्रत्ययलोपे प्रत्ययलक्षणम्

1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्

Sampurna sutra

Up

index: 1.1.62 sutra: प्रत्ययलोपे प्रत्ययलक्षणम्


प्रत्ययलोपे प्रत्ययलक्षणम्

Neelesh Sanskrit Brief

Up

index: 1.1.62 sutra: प्रत्ययलोपे प्रत्ययलक्षणम्


प्रत्ययस्य लोपे कृते अपि प्रत्ययाश्रितं कार्यम् भवति ।

Neelesh English Brief

Up

index: 1.1.62 sutra: प्रत्ययलोपे प्रत्ययलक्षणम्


The कार्य associated with a प्रत्यय happens even when the प्रत्यय undergoes a लोप.

Kashika

Up

index: 1.1.62 sutra: प्रत्ययलोपे प्रत्ययलक्षणम्


प्रत्ययनिमित्तं कार्यमसत्यपि प्रत्यये कथं नु नाम स्यात् - इति सूत्रम् इदमारभ्यते । प्रत्ययलोपे कृते प्रत्ययलक्षणं प्रत्ययहेतुकं कार्यं भवति । अग्निचित्, सोमसुत्, अधोक् - इत्यत्र सुप्तिङोः लुप्तयोः सुप्तिङन्तं पदम् 1.4.14 इति पदसंज्ञा भवति । अधोक् - इति दुहेः लङि तिपि शब्लुकि तिलोपे घत्व-भष्भाव-जश्त्व-चर्त्वेषु कृतेषु रूपम् । प्रत्यय इति वर्तमाने पुनः प्रत्ययग्रहणं किम् ? कृत्स्नप्रत्ययलोपे यथा स्यात् । इह मा भूत् - आघ्नीय । सङ्ग्मीय । हनिगम्योर्लिङात्मनेपदे लिङः सलोपोऽनन्त्यस्य 7.2.79 इति सीयुट्सकारलोपः प्रत्ययैकदेशलोपः, तत्र प्रत्ययलक्षणेन झलि इत्यनुनासिकलोपो न भवति 6.4.37 । प्रत्ययलक्षणम् इति किम् ? रायः कुलं रैकुलम्, गवे हितम् गोहितम् - आयवादेशौ न भवतः वर्णाश्रयत्वात् ॥

Siddhanta Kaumudi

Up

index: 1.1.62 sutra: प्रत्ययलोपे प्रत्ययलक्षणम्


प्रत्यये लुप्तेऽपि तदाश्रितं कार्यं स्यात् । इति जसि चेति गुणे प्राप्ते ॥

Laghu Siddhanta Kaumudi

Up

index: 1.1.62 sutra: प्रत्ययलोपे प्रत्ययलक्षणम्


प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात्। इति जसि चेति गुणे प्राप्ते -

Neelesh Sanskrit Detailed

Up

index: 1.1.62 sutra: प्रत्ययलोपे प्रत्ययलक्षणम्


अष्टाध्याय्याम् 'लुक्', 'श्लुः', 'लुप्', तथा 'लोपः' इत्येताभिः चतसृभिः संज्ञाभिः प्रत्ययस्य लोपः विधीयते । एताभ्यः कयाचित् अपि संज्ञया प्रत्ययस्य लोपः क्रियते चेदपि (लुप्त)प्रत्ययनिमित्तकम् कार्यम् प्रक्रियायाम् अवश्यं भवति‌ — इति प्रकृतसूत्रस्य आशयः । कानिचन उदाहरणानि एतानि —

  1. नदी-शब्दस्य प्रथमैकवचनस्य रूपसिद्धौ सुँ-प्रत्ययस्य लोपे कृते अपि प्रकृतसूत्रेण पदसंज्ञा अवश्यं प्रवर्तते ।

नदी + सुँ [प्रथमैकवचनस्य प्रत्ययः]

→ नदी [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँ-प्रत्ययस्य लोपः । सुँ-प्रत्ययस्य लोपे अपि प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन प्रत्ययनिमित्तकम् कार्यम् भवति, अतः सुप्तिङन्तं पदम् 1.4.14 इत्यनेन 'नदी' इत्यस्य पदसंज्ञा भवति ।

  1. षष् इति षट्-संज्ञकशब्दस्य प्रथमाबहुवचनस्य रूपसिद्धौ जस्-प्रत्ययस्य लुकि कृते अपि प्रकृतसूत्रेण पदसंज्ञा अवश्यं प्रवर्तते —

षष् + जस् [प्रथमाबहुवचनस्य प्रत्ययः । अत्र षष्-शब्दस्य ष्णान्ता षट् 1.1.24 इति षट्-संज्ञा भवति ।

→ षष् [षड्भ्यो लुक् 7.1.22 इति षट्-संज्ञकात् षष्-शब्दात् विहितस्य जस्-प्रत्ययस्य लुक् भवति । प्रत्ययस्य लुकि कृते अपि प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन प्रत्ययनिमित्तकम् कार्यम् भवति, अतः सुप्तिङन्तं पदम् 1.4.14 इत्यनेन 'षष्' शब्दस्य पदसंज्ञा भवति ।]

→ षड् [पदसंज्ञायां सत्याम् झलां जशोऽन्ते 8.2.39 इति पदान्तषकारस्य जश्त्वे डकारः]

→ षड्, षट् [अवसाने परे वाऽवसाने 8.4.56 इति पाक्षिकं चर्त्वम् ]

  1. अदस्-शब्दस्य प्रथमैकवचनस्य रूपसिद्धौ सुँ-प्रत्ययस्य लोपे कृते प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन प्रत्ययविशिष्टम् कार्यम् अवश्यं प्रवर्तते, अतः तदोः सः सावनन्त्ययोः 7.2.106 इति दकारस्य सकारे कृते इष्टरूपं सिद्ध्यति —

अदस् + सुँ

→ अदऔ [अदस औ सुलोपश्च 7.2.107 इति सकारस्य औकारः, सुलोपश्च]

→ अदौ [वृद्धिरेचि 6.1.88 इति वृद्धि-एकादेशः]

→ असौ [यद्यपि सुँ-प्रत्ययस्य लोपः कृतः अस्ति, तथापि प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन सुँ-प्रत्ययविशिष्टम् कार्यम् भवत्येव । अतः तदोः सः सावनन्त्ययोः 7.2.106 इति दकारस्य सकारः भवति, तथा च सुप्तिङन्तं पदम् 1.4.14 इत्यनेन 'असौ' इत्यस्य पदसंज्ञा अपि भवति ।]

  1. अग्नि इति उपपदस्य उपस्थितौ स्वादिगणस्य चि धातो: अग्नौ चेः 3.2.91 इत्यनेन क्विप्-प्रत्यये कृते, तस्य लोपात् अनन्तरम् प्रत्ययलक्षणेन तुगागमः भवति —

अग्नि + चि + क्विप्

→ अग्नि + चि + व् [ककारपकारयोः इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, सोऽपि लुप्यते ।]

→ अग्नि + चि [अपृक्तवकारस्य वेरपृक्तस्य 6.1.67 इति लोपः ]

→ अग्नि + चित् [यद्यपि प्रत्ययस्य लोपः कृतः अस्ति, तथापि प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन प्रत्ययविशिष्टम् कार्यम् भवत्येव । अतः ह्रस्वस्य पिति कृति तुक् 6.1.71 इत्यनेन पित्-कृत्-प्रत्यये परे धातोः तुगागमः भवति ।]

→ अग्निचित्

  1. दुह्-धातोः लङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धौ तिप्-प्रत्ययस्य लोपे कृते अपि प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन प्रत्ययविशिष्टम् कार्यम् भवति, अतः सुप्तिङन्तं पदम् 1.4.14 इत्यनेन पदसंज्ञा विधीयते, येन अग्रे लघूपधगुणः, तथा च भष्भावादीनि त्रिपादीकार्याणि अपि प्रवर्तन्ते —

दुहँ (प्रपूरणे, अदादिः, <{2.4}>)

→ दुह् + लङ् [अनद्यतने लङ् 3.2.111

→ अट् + दुह् + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]

→ अ + दुह् + तिप् [तिप्तस्झि.. 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]

→‌ अ + दुह् + त् [इतश्च 3.4.100 इति इकारलोपः]

→ अ + दुह् + शप् + त् [कर्तरि शप् 3.1.68 इति शप्]

→ अ + दुह् + त् [अदिप्रभृतिभ्यः शपः 2.4.72 इति शपः लुक्]

→ अ + दुह् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति अपृक्त-ति-प्रत्ययस्य लोपः ।]

→ अ + दोह् [ प्रत्ययस्य लोपे कृते अपि प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन प्रत्ययविशिष्टम् कार्यम् अवश्यं भवति, अतः अत्र पुगन्तलघूपधस्य च 7.3.86 इति लघूपधगुणः प्रवर्तते ]

→ अ + दोघ् [प्रत्ययस्य लोपे कृते अपि प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन प्रत्ययविशिष्टम् कार्यम् अवश्यं भवति, अतः सुप्तिङन्तं पदम् 1.4.14 इत्यनेन अदुह् इत्यस्य पदसंज्ञा विधीयते । पदसंज्ञायां जातायाम् दादेर्धातोर्घः 8.2.32 इति पदान्तहकारस्य घत्वम् भवति ।]

→ अ + धुघ् [एकाचो बशो भष् झषन्तस्य स्ध्वोः 8.2.37 इति पदान्ते भष्भावे दकारस्य धकारः]

→ अ + धुग् [झलां जशोऽन्ते 8.2.39 इति पदान्ते जश्त्वम्]

→ अधुक् , अधुग् [वाऽवसाने 8.4.56 इति अवसाने परे वैकल्पिकं चर्त्वम् ]

<pv>सूत्रे 'प्रत्यय'शब्दस्य द्विवारं निर्देशस्य प्रयोजनम्

अस्मिन् सूत्रे 'प्रत्ययलोपे' इति शब्दे प्रत्ययशब्दस्य निर्देशे सत्यपि 'प्रत्ययलक्षणम्' इत्यस्मिन् शब्दे पुनः प्रत्ययशब्दस्य ग्रहणम् कृतम् अस्ति । एतादृशम् द्विवारम् 'प्रत्यय'शब्दस्य ग्रहणम् 'कृत्स्नप्रत्ययलोपार्थम् अस्ति' इति काशिकायाम् स्पष्टी क्रियते । इत्युक्ते, यदि प्रत्ययस्य सम्पूर्णरूपेण लोपः न भवति, अपितु प्रत्ययस्य कस्यचन अंशस्यैव लोपः जायते, तर्हि अस्य लुप्त-अंशस्य लक्षणेन जायमानस्य कार्यस्य विषये इदं सूत्रं नैव प्रयोक्तव्यम् । यथा, आङ्-उपसर्गपूर्वकस्य हन् धातोः विधिलिङ्लकारस्य आत्मनेपदस्य उत्तमपुरुषैकवचनस्य प्रक्रियायाम् 'सीयि' इति आगमसहितस्य प्रत्ययस्य सम्पूर्णरूपेण लोपः न भवति, अपितु अस्य प्रत्ययस्य केवलम् आदिस्थस्य सकारस्यैव लोपः भवति । अस्यां स्थितौ लुप्त-सकारस्य झल्-प्रत्याहारस्थत्वम् आश्रित्य, 'सीयि' प्रत्ययं झलादि-ङित्-प्रत्ययं स्वीकृत्य, प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति 6.4.37 इत्यनेन जायमानम् झलादि-ङित्-प्रत्ययनिमित्तकम् अनुनासिकादिलोपकार्यं नैव सम्भवति । सम्पूर्णा प्रक्रिया एतादृशी —

हनँ (हिंसागत्योः, परस्मैपदी, अदादिः)

→ आङ् + हन् + लिङ् [विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् 3.3.161 इति लिङ् । अत्र आङो यमहनः 1.3.28 इत्यनेन आत्मनेपदित्वं विधीयते ।]

→ आ + हन् + इट् [तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् 3.4.78 इत्यनेन आत्मनेपदस्य उत्तमपुरुषैकवचनस्य विवक्षायां इट्-प्रत्ययः । सार्वधातुकमपित् 1.2.4 इति सूत्रेण अयं प्रत्ययः ङिद्वत् भवति ।]

→ आ + हन् + शप् + इ [कर्तरि शप् 3.1.68 इति शप्-विकरणप्रत्ययः]

→ आ + हन् + इ [अदिप्रभृतिभ्यः शपः 2.4.72 इति शपः लुक्]

→ आ + हन् + सीयुट् + इ [लिङस्सीयुट् 3.4.102 इति इ-प्रत्ययस्य सीयुट्-आगमः । टित्त्वात् आद्यन्तौ टकितौ 1.1.46 इति आद्यवयवः ।]

→ आ + हन् + सीय् + इ [टकारस्य इत्संज्ञालोपः । यकारोत्तरः उकारः उच्चारणार्थः, सोऽपि लुप्यते । अत्र इट्-प्रत्ययस्य विहितः सीय्-आगमः <ऽयदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्तेऽ> इति परिभाषया प्रत्ययग्रहणेन अवश्यं गृह्यते । अतः अत्र 'सीयि' इति झलादि-ङित्-प्रत्ययः अस्ति इति मन्यते ।]

→ आ + हन् + ईय् + इ [लिङ्लकारस्य प्रत्ययस्य अवयवः यः सकारः, तस्य लिङः सलोपोऽनन्त्यस्य 7.2.79 इति सूत्रेण लोपः भवति । अत्र सम्पूर्णस्य प्रत्ययस्य लोपः न क्रियते, अपितु तस्य केवलम् एकस्य अंशस्यैव लोपः कृतः अस्ति । अस्य लुप्त-अंशस्य लक्षणम् उपयुज्य अत्र प्रत्ययलक्षणनिमित्तकम् कार्यम् न भवति । अतः अत्र अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति 6.4.37 इत्यनेन जायमानम् झलादि-ङित्-प्रत्ययनिमित्तकम् अनुनासिकादिलोपकार्यं नैव सम्भवति ।]

→ आ + ह् न् + ईय् + इ [_गमहनजनखनघसां लोपः क्ङित्यनङि _ 6.4.98 इत्यनेन अङ्गस्य उपधावर्णस्य अजादि-ङित्-प्रत्यये परे लोपः]

→ आ + घ् न् + ईय् + इ [हो हन्तेर्ञ्णिन्नेषु 7.3.54 इति हकारस्य कुत्वे घकारः]

→ आ + घ् न् + ईय् + अ [इटोऽत् 3.4.106 इति प्रत्ययस्य अकारादेशः]

→ आघ्नीय

<pv>परिभाषा - वर्णाश्रये नास्ति प्रत्ययलक्षणम्

प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यस्मिन् सूत्रे विद्यमानस्य 'प्रत्ययलक्षणम्' इति शब्दस्य अर्थं दातुम् परिभाषेन्दुशेखरे <ऽ वर्णाश्रये नास्ति प्रत्ययलक्षणम्ऽ> इति परिभाषा सङ्कलिता अस्ति । अत्र प्रयुक्तेन प्रत्ययलक्षणम् इति शब्देन केवलं सम्पूर्णप्रत्ययनिमित्तकम् कार्यम् एव गृह्यते, न हि प्रत्ययस्य विशिष्टवर्णनिमित्तकम् कार्यम् — इति अनया परिभाषया स्पष्टी क्रियते । इत्युक्ते, यदा प्रत्ययस्य लोपः भवति, तदा तत्र विद्यमानानाम् वर्णानाम् आधारेण किमपि 'वर्णकार्यम्' न करणीयम्, अपितु सम्पूर्णस्य प्रत्ययस्य विषये निर्दिष्टम् कार्यमेव करणीयम् — इति अस्याः परिभाषायाः आशयः । यथा, 'गवे हितम्' इत्यत्र चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः 2.1.36 इति सूत्रेण चतुर्थीतत्पुरुषसमासः सम्भवति । अत्र समासप्रक्रियायाम् 'गो' शब्दात् विहितस्य चतुर्थ्येकवचनस्य ए-प्रत्ययस्य सुपो धातुप्रातिपदिकयोः 2.4.71 इति लुक् भवति । एतादृशे प्रत्ययलोपे कृते, ए-इति लुप्तप्रत्ययम् आश्रित्य गो-शब्दस्य ओकारस्य एचोऽयवायावः 6.1.78 इत्यनेन अवादेशः नैव करणीयः, यतः अयम् अवादेशः प्रत्ययनिमित्तकम् कार्यम् नास्ति, अपितु वर्णनिमित्तकम् कार्यम् अस्ति (एतत् कार्यम् प्रत्ययभिन्न-एकारे परे अपि भवितुम् अर्हति इत्याशयः) । सम्पूर्णा प्रक्रिया इयम् —

गवे हितम् [चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः 2.1.36 इति सूत्रेण चतुर्थीतत्पुरुषसमासः । ]

= गो ङे हित सुँ [समासस्य अलौकिकविग्रहः]

→ गो हित [समस्तपदस्य कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । प्रातिपदिकसंज्ञायां सत्याम् सुपो धातुप्रातिपदिकयोः 2.4.71 इति ङे-प्रत्ययस्य सुँ-प्रत्ययस्य च लुक् भवति । अत्र ङे (ए) इति प्रत्ययस्य लोपे कृते अपि, प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन लुप्त-एकार-निमित्तकः एचोऽयवायावः 6.1.78 इत्यनेन प्राप्तः अवादेशः नैव करणीयः, यतः अयम् अयादेशः प्रत्ययनिमित्तकम् कार्यम् नास्ति, अपितु विशिष्टवर्णनिमित्तककार्यरूपेणैव अत्र प्रवर्तते । अयमेव <ऽ वर्णाश्रये नास्ति प्रत्ययलक्षणम्ऽ> इति परिभाषायाः आशयः ।]

→ गोहित

<pv>सर्वविधिभ्यो लोपविधिर्बलवान्

प्राचीनवैयाकरणैः प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इति सूत्रम् ज्ञापकरूपेण स्वीकृत्य <ऽसर्वविधिभ्यः लोपविधिः बलवान्ऽ> इति परिभाषा स्वीक्रियते । तेषाम् आशयः अयम् — यदि सर्वत्र अन्यान् विधीन् कृत्वा तदन्तरमेव लोपकार्यम् क्रियते, तर्हि प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्येतं सूत्रमेव व्यर्थं स्यात् । अतः एतत् सूत्रमेव अस्य ज्ञापकम्, यत् लोपकार्यम् अन्यविधीनाम् अपेक्षया प्राधान्येन करणीयम् - इति । अस्मिन् विषये व्याडिपरिभाषाग्रन्थे उच्यते —

इह शास्त्रे सर्वविधिभ्यो लोपविधिर्बलवान् भवति । कथं ज्ञायते ? यदयं प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्याह । कथं कृत्वा ज्ञापकम् ? एतत्सूत्रं नारब्धव्यम् । कथम् ? प्रत्ययाश्रयाणि कार्याणि भविष्यन्ति । सर्वाणि कृत्वा पश्चात् प्रत्ययलोपं करिष्यामि । पश्यति आचार्यः । लोप एव तावद्भति । तस्मिन् लोपे कृते तदाश्रयाणि न प्राप्नुवन्ति । तस्मात् प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इति ।

- व्याडिकृतात् परिभाषासूचनग्रन्थात् परिभाषा-57 इत्यतः उद्धृतम् ।

नागेशः तु परिभाषेन्दुशेखरे इमां परिभाषां परिभाषा-100 इत्यत्र <ऽसर्वविधिभ्यो लोपविधिरिड्विधिश्च बलवान्ऽ> इति पाठयित्वा तत्र एतद् अपि निर्दिशति यत् इयं परिभाषा भाष्ये अनुक्ता अस्ति ।

<pv>अहन्-शब्दात् विहितस्य सुप्-प्रत्ययस्य लुकि कृते रेफादेशे कर्तव्ये प्रत्ययलक्षणं न भवति

नकारान्तनपुंसकलिङ्गस्य अहन्-शब्दस्य विषये यत्र सुप्-प्रत्ययस्य लुक् भवति, तत्र अहन्-शब्दस्य नकारस्य रोऽसुपि 8.2.69 इति सूत्रेण रेफादेशः इष्यते । परन्तु तत्र प्रक्रियायाम् लुप्तः सुप्-प्रत्ययः प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन यदि उपतिष्ठेत, तर्हि असुपि इति तत्र नैव सङ्गच्छेत, येन रोऽसुपि 8.2.69 इति सूत्रेण उक्तः रेफादेशः अपि नैव सम्भवेत् । एतादृशम् मा भूत्, अतः भाष्यकारेण अस्यां प्रक्रियायाम् विशेषरूपेण प्रत्ययलक्षणस्य निषेधः कृतः अस्ति । तत्र भाष्यकारः ब्रूते — अह्नो रविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवति । अहन्-शब्दात् विहितस्य सुप्-प्रत्ययस्य लुक् भवति चेत् रेफादेशे कर्तव्ये प्रत्ययलक्षणम् न प्रवर्तते; इत्युक्ते लुप्तः सुप्-प्रत्ययः प्रत्ययलक्षणेन (रेफादेशं प्रतिषेद्धुम्) तत्र नैव उपतिष्ठति — इति अस्य अर्थः । अतएव रोऽसुपि 8.2.69 इति सूत्रस्य असुपि इति निषेधः तत्र सङ्गच्छते, येन अहन्-शब्दस्य इष्टः नकारादेशः अपि भवितुम् अर्हति । अस्मिन् सन्दर्भे अधिकं पिपिषवः रोऽसुपि 8.2.69 इति सूत्रस्य व्याख्यां पश्येयुः ।

Balamanorama

Up

index: 1.1.62 sutra: प्रत्ययलोपे प्रत्ययलक्षणम्


प्रत्ययलोपे प्रत्ययलक्षणम् - जसि लुप्तेऽपिजसि चे॑ति गुणमाशङ्कितुमाह-प्रत्यय-लोपे प्रत्यय । प्रत्ययो लक्षणं=निमित्तं यस्य तत्-प्रत्ययलक्षणम् । प्रत्ययस्य लोपे सति प्रत्ययनिमित्तकं कार्यं स्यादित्यर्थः । फलितमाह — प्रत्यये लुप्तेऽपीत्यादिना । स्थानिवद्भावादेव सिद्धे अल्विध्यर्थमिदं सूत्रम् । यत्र प्रत्ययस्याऽसाधारणं रूपं प्रयोजकं तदेव कार्यं प्रत्ययलोपे सति भवतीति नियमार्थं चेति भाष्यादिषु स्पष्टम् । इति जसि चेतीति । अनेन सूत्रेण लुप्तं प्रत्ययमाश्रित्यजसि चे॑ति गुणे प्राप्ते इत्यर्थः ।

Padamanjari

Up

index: 1.1.62 sutra: प्रत्ययलोपे प्रत्ययलक्षणम्


सूत्रारम्भस्य प्रयोजनमाह - प्रत्ययनिमितमित्यादि । लक्षणशब्दोऽयमस्ति भावसाधनः प्रादुर्भाववचनः, अस्ति च करणसाधनो निमितवचनः । तत्राद्यस्य ग्रहणे प्रत्ययलोपे सति प्रत्ययस्य प्रादुर्भावो भवतीत्यर्थः स्यात् । तत्र लुप्तस्यैव प्रत्ययस्य पुनः प्रादुर्भावविधौ लोपविधिर्व्यर्थः स्यात् । ननु च यः प्रत्ययस्यैव लोपः 'णेरनिटि' इत्यादि, तस्य वैयर्थ्यं नामास्तु; यस्तु 'टेः' इत्यादिना सामान्येन विहितः, स यदा प्रत्ययस्य भवति - भिक्षुमाचष्टे भिक्षयतीति, तदा तस्य पुनः प्रादुर्भावेऽपि न तस्य वैयर्थ्यम्; उप्रत्यये चरितार्थत्वात् । एवं तर्हि लुप्तस्यैव प्रत्ययस्य पुनः प्रादुर्भाव इष्टे, न प्रत्ययस्य लोप इति वक्तव्यम् - सामान्यविहितो लोपः प्रत्ययस्य न भवतीति । अथ प्रत्ययान्तरस्य लुप्तप्रत्ययनिमितकस्य पादुर्भावो विधीयते, यथा - ग्रामणीरिति क्विपो लोपे तन्निमितस्य सोर्विधिः । एवमपि 'प्रत्ययलोपे प्रत्यय' इत्येव वक्तव्यम् - प्रत्ययस्य लोपे न तन्निमितकः प्रत्ययो भवतीति । अतो निमितपर्यायेण लक्षणशब्देन बहुव्रीहिः, कार्यं चान्यपदार्थं इत्याह - प्रत्ययहेतुकं कार्यमिति । प्रत्यासतेश्च यः प्रत्ययो यस्य कार्यस्य निमितं तस्य लोपेऽपि तद्भवतीत्यर्थः । पदसंज्ञा भवतीति । ननु च स्थानिवद्भावेनापि सिद्धा पदसंज्ञा, इह तर्हि ता ता पिणाडानामिति-तच्छब्दात्परस्य जसः शिः, 'शेश्च्छन्दसि बहुलम्' इति लोपे ङपुंसकस्य झलचः' इति नुम्, 'सर्वनामस्थाने' इति दीर्घश्च भवति; अनड्वान् - सोर्लोपे नुम्भवति; अधोक् - अड्गुणौ भवतः; न्यमार्ट्-मृजेर्वृद्धिः; उन्देर्लङ् इतिलोपे श्नमाटौ भवतः; 'श्नान्नलोपः' - औनत्; अग्निचित्-क्विपो लोपे तुग्भवति ? एतान्यपि स्थानिवद्भावेनैव सिद्ध्यन्ति; अल्विधित्वात् । सर्वत्रैवाल्मत्रप्रत्ययः, तदाश्रयो विधिरल्विधिरिति । नैतत्सुष्ठूअच्यते, उक्तं हि कार्यापेक्षमल्विधित्वं नोदाहरणापेक्षमिति । नुमादिविधौ च सर्वत्र शास्त्रे यद्रूपमाश्रीयते - सर्वनामस्थाने सार्वधातुके पिति कृति सुप्तिङ्न्तमिति, साधारणं तदलश्चानलश्च । केवलं ताता पिण्डानामित्याद्यौदाहरणेऽर्थादलात्मकं तदित्येतावत् । इह तर्हि अतृणेट्-'तृहि हिसायाम्', लङ्, तिप्, श्नम्,'इतश्च' इतीकारलोपः, तकारस्य हल्ङ्यादिलोपे हलादौ पिति सार्वधातुके विधीयमानोऽल्विधिः 'तृणहैम्' अस्माद्भवति; तथा आशीरित्यत्र 'शास ईदङ्हलोः' इतीत्वं लुप्तेऽपि क्विपि भवति । ननु च 'वर्णाश्रये नास्ति प्रत्ययलक्षणम्'; नैवंविधं वचनमस्ति । द्वितीयस्य प्रत्ययग्रहणस्य प्रयोजनमिदं पठ।ल्ते - अत्र हि ' प्रत्ययलोपे तल्लक्षणम्' इत्येव सिद्धे पुनः प्रत्ययग्रहणाद्यत्र प्रत्ययस्यैवासाधारणं रूपं निमितत्वेनाश्रीयते सुपि सार्वधातुके कृति सुप्तिङ्न्तमिति तदेव यथा स्यात् । तेन गोहितमित्यवादेशो न भवति । न हि 'एचोऽयवायावः' इत्यत्र प्रत्ययस्यासाधारणं किञ्चिद्रूपमुपातम्, किन्त्वचीति यदुपातं तद्गवे हितमित्यस्मिन्नुदाहरणे अर्थात्प्रत्ययात्मकमित्येतावत् । इत्वेमागमयोस्तु हलादौ क्ङिति हलादौ पिति सार्वधातुक इति प्रत्यय एव प्राधान्येन निमितम्, हल् तु तद्विशेषणमिति नेमौ वर्णाश्रयौ । तस्मादल्विध्यर्थमिदमारब्धव्यम् । यद्येवम्, भसंज्ञाङीप्ष्फेषु दोषः । भसंज्ञायां तावद्-राज्ञः पुरुषो राजपुरुष इति श्रूयमाणे प्रत्यये यथा संज्ञा भवति, एवं लुप्तेऽपि स्यात् । ततश्च तया पदसंज्ञाया बाधितत्वाद् लनोपो न स्यात् । ननु च द्वे अत्र पदसंज्ञे - स्वादाविति च, सुप्तिङ्न्तमिति च । तत्र या स्वादौ पदमिति पदसंज्ञा, साऽपवादभूतया बाध्यते; या तु शुप्तिङ्न्तम्' इति पदसंज्ञा, सा न बाधनीया, यथा - श्रूयमाणे प्रत्यये 'राज्ञः' इति समुदायस्य ? नैतदेवम्; श्रूयमाणे प्रत्यये ततः पूर्वस्य भागस्य भसंज्ञा, समुदायस्य तु विसर्जनीयान्तस्य पदसंज्ञेति युक्तम्-विभिन्नावधिकया भसंज्ञया पदसंज्ञा न बाध्यत इति । लुप्ते तु प्रत्यये यस्यैवावधेः स्वादौ पदमिति पदसंज्ञा,सुबन्तं पदमित्यपि तस्यैवावधेः पदसंज्ञा । तत्रैवावधौ भसंज्ञा भवन्ती यथाऽयवदत्वात् स्वादिलक्षणां पदसंज्ञां बाधते, तथा सुबन्तलक्षणामपि परत्वाद्वाधते । एवं तर्हि ङ लुमताङ्गस्य' इति प्रतिषेधाद् भसंज्ञा न भविष्यति, यचीति सप्तमीनिर्देअषात् । ततः पूर्वस्य भागस्य वस्तुतोऽस्य प्रवर्तमाना भसंज्ञाप्यङ्गकार्यमेव । एवं च बुध्वा ङ ङिसंबुद्ध्योः' इत्यत्र ङै नलोपः प्रतिषिध्यते, यदि प्रत्ययलक्षणेन भसंज्ञा स्याद्, अपवादत्वादेवार्द्रेअ चर्मन्निति नलोपो न भविष्यतीति किं तेन प्रतिषेधेन ? इह तर्हि चित्रायां जाता 'चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसंख्यानम्' इत्यणो लुकि 'लुक्तद्धितलुकि' इति टापि लुप्ते, चित्र इति स्थिते प्रत्ययलक्षणेनाणन्तत्वात् ङीप् प्राप्नोति, नैष दोषः; 'टिड्ढाणञ्' इत्यत्र 'अतः' इत्यनुवर्तते, तत्र चाणाकारो विशेष्यते - अणोऽकार इति, ततश्चाकार एव ङीपो निमितम्; अण् तु तद्विशेषणमिति प्रत्ययलक्षणत्वाभावाद् ङीबभावः । इह तर्हि वतण्डस्यात्यं स्त्री 'वतण्डाच्च' इत्यञः 'लुक् स्त्रियाम्' इति लुकि वतण्डी-शार्ङ्गरवादिलक्षणं ङीनं बाधित्वा 'प्राचां ष्फस्तद्धितः सर्वत्र' इति सर्वत्रग्रहणस्य पूर्वत्रापकर्षात्प्राचां मतेन यञन्तलक्षणः ष्फः प्राप्नोति, यथा आवट।लच्चापं वा बाधित्वा ष्फ एव भवतीति ? नैष दोषः; अत्रापि यञाकारो विशेष्यते-यञोऽकार इति, यञवयवो योऽकारस्तदन्तादिति । तेनात्राप्यकार एव निमितम्, तद्विशेषणन्तु यञिति ष्फो न भवति । अयं तर्हि दोषः-परिवीरिति, परिपूर्वाद्ध्येञः क्विपो लोपे यजादित्वात् संप्रसारणे पूर्वत्वे च तुक् प्राप्नोति, 'हलः' इति दीर्घश्च; तत्र विप्रतिषेधेन दीर्घ इष्यते, स विप्रतिषेधो न सिद्ध्यति । किङ्कारणम् ? इह प्रत्ययलोपे सर्वाणि प्रत्ययाश्रयाणि कार्याणि पर्यवसन्नानि, तान्यनेन प्रत्युत्थाप्यन्ते, अनेनैव तुक्, अनेनैव दीर्घः-तदेकयोगलक्षणयोरयुक्तो विप्रतिषेधः ? नैष दोषः; अवस्थिते प्रत्यये, तन्निबन्धनं यत्कार्यं भवत्येव तदेवानेन लुप्ते तस्मिन् प्रत्युत्थाप्यते, न तु यस्य प्राप्तिमात्रं तदपि । परिवीयेत्यादौ श्रूयमाणे प्रत्यये दीर्घ एव परत्वाद् भवति, न तुक्; ततश्चात्रापि यदि क्विबेवास्थास्यद्, दीर्घ एवाभविष्यदिति स एवानेन प्रत्युत्थाप्यते । तदेवमारब्धव्यं सूत्रं न कश्चिद्दोष इति स्थितम् । अत्रोच्यते - यदुक्तं 'तृणह इम्' हलाश्रय इति; नायं हलाश्रयः, हलीति निवर्तिष्यते । यदि निवर्तते, तृणहानि - अत्रापि प्राप्नोति ? नाभ्यस्तस्याचीत्यतो नाचीत्यनुवर्तते, ततश्चानल्विधित्वात् स्थानिवद्भावेनैव सिद्ध इमागमः । आशीरित्यत्रापि 'आसासः क्वावुपसंख्यानम्' इत्यस्माद् वचनात्सिद्धमित्वम् । आरब्धेऽपि खल्वस्मिंस्तदवश्यं वक्तव्यम् । यदि तावत् 'शास इदङ्हलोः' इत्यत्र शासिमात्रस्य ग्रहणम्, ततो नियमार्थम् 'आशासः क्वावेव यथा स्याद्, आशास्त इत्यादा मा भूत्' इति । अथ यस्माच्छासेरङ् विहितस्तस्य ग्रहणम्, ततो यथाऽऽशास्त इत्यादौ न भवति तथा क्विप्यपि न स्यादिति विध्यर्थमिदम् । इह तर्हि बिदस्यापत्यानि बहूनि 'अनुष्यानन्तर्ये बिदादिभ्योऽञ्' बिदाः, बिदानामपत्यं युवा, 'अत इञ्', तस्य ण्यक्षत्रियार्षञितः' इति लुकि कृते, अञो गोत्रबहुत्व उत्पन्नस्य लुकि प्राप्ते'गोत्रेऽलुगचि' इति प्रतिषेध इष्यते, सोऽजादाविति लुप्तेऽप्यस्माद्वचनाद्भवति ? एतदपि नास्ति प्रयोजनम्; अचीति विषयसप्तमी, तेन गोत्र इति विवक्षितेऽनुत्पन्न एव लुकि प्रतिषिद्धे पश्चादिञो लुगिति सिद्धमिष्टम् । तदेवमल्विधेः कस्यचिद् दर्शनात् स्थानिवद्भअवेनैव सिद्धमिति नार्थोऽनेन । एवं तर्हि नियमार्तमिदम्-'प्रत्ययलोपे प्रत्ययलक्षणमेव यथा स्यात् प्रत्ययाप्रत्यलक्षणं मा भूत्' इति । एतदुक्तं भवति - यस्मिन्कार्ये विधीयमाने प्रत्ययस्यैवासाधारणं किञ्चिद्रूपं निमितत्वेनाश्रीयते, तदेव प्रत्ययलोपेऽपि भवति, न पुनः प्रत्ययाप्रत्यसाधारणं रूपमाश्रित्य यद्विधीयते तदिति । तेन शोभना दृषदो यस्य सुदृषदिति शोर्मनसी अलोमोषसी' इत्युतरपदाद्यौदातत्वं न भवति । अन्यथा लुप्तेऽपि जसि स्थानिवद्भावेनासन्तमुतरपदमिति स्यात्प्रसङ्गः । प्रत्ययलक्षणं तु न भवति, 'अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन तदन्तविधिं प्रयोजयन्ति' इत्यस्मातस्य ग्रहणात् । वृत्तिकारेण तु ' नियमार्थमप्येतत् प्रत्ययलोपे सर्वत्र प्रवर्तते' इति मत्वोक्तं पदसंज्ञा भवतीति । आघ्नयेति । 'आङे यमहनः' । संग्मीयेति । शमो गम्यच्छि' इत्यात्मनेपदम्, 'इटोऽत्', बहुलं च्छन्दसि' इति शपो लुक्, उभयत्र 'गमहन' इत्युपधालोपः ॥