8-4-54 अभ्यासे चर् च पूर्वत्र असिद्धम् संहितायाम् झलां
अभ्यासे झलाम् जश् चर्च
अभ्यासे विद्यमानस्य झल्-वर्णस्य यथायोग्यम् जश्/चर्-आदेशः भवति ।
A झल् letter present in an अभ्यास is converted either to a जश् letter or a चर् letter as appropriate.
अभ्यासे वर्तमानानां झलां चरादेशो भवति, चकाराद् जश् च। चिखनिषति। चिच्छित्सति। टिठकारयिषति। तिष्ठासति। पिफकारयिषति। बुभूषति। जिघत्सति। डुढौकिषते। प्रकृतिचरां प्रकृतिचरो भवन्ति — चिचीषति। टिटीकिषते। तितनिषति। प्रकृतिजशां प्रकृतिजशो भवन्ति — जिजनिषते। बुबुधे। ददौ। डिड्ये॥
अभ्यासे झलां चरः स्युर्जशश्च । झशां जशः खयां चरः । तत्रापि प्रकृतिजशां प्रकृतिजशः प्रकृतिचरां प्रकृतिचर इति विवेक आन्तरतम्यात् ॥
अभ्यासे झलां चरः स्युर्जशश्च। झशां जशः खयां चर इति विवेकः। बभूव। बभुवतुः। बभूवुः॥
1. कूज् → चुकूज । अत्र <<कुहोश्चुः>> 7.4.62 इति अभ्यासककारस्य चकारे कृते प्रकृतसूत्रेण तस्य चर्त्वे चकारः एव विधीयते ।
2. चल् → चचाल । चकारस्य स्थाने चर्त्वे चकारः एव विधीयते ।
3. टीक् → टिटीक । टकारस्य स्थाने चर्त्वे टकारः एव विधीयते ।
4. तॄ → ततार । तकारस्य स्थाने चर्त्वे तकारः एव विधीयते ।
5. पठ् → पपाठ । पकारस्य स्थाने चर्त्वे पकारः एव विधीयते ।
1. खाद् → चखाद । अत्र <<कुहोश्चुः>> 7.4.62 इति अभ्यासखकारस्य छकारे कृते प्रकृतसूत्रेण तस्य चर्त्वे चकारः भवति ।
2. छिद् → चिच्छेद । छकारस्य स्थाने चर्त्वे चकारः विधीयते । 'च्छ्' इत्यत्र विद्यमानः चकारः तु तुगागमे, श्चुत्वे च कृते सिद्ध्यति ।
3. धातुपाठे ठकारादिधातवः न विद्यन्ते अतः अत्र लिट्-लकारस्य उदाहरणं न सम्भवति । परन्तु
1. गम् → जगाम । अत्र <<कुहोश्चुः>> 7.4.62 इति अभ्यासगकारस्य जकारे कृते प्रकृतसूत्रेण तस्य जश्त्वे जकारः एव विधीयते ।
2. जप् → जजाप । जकारस्य स्थाने जश्त्वे जकारः एव विधीयते ।
3. डी → डिड्ये । डकारस्य स्थाने जश्त्वे डकारः एव विधीयते ।
4. दिव् → दिदेव । दकारस्य स्थाने जश्त्वे दकारः एव विधीयते ।
5. बाध् → बबाध । बकारस्य स्थाने जश्त्वे बकारः एव विधीयते ।
1. घघ् → जघाघ । अत्र <<कुहोश्चुः>> 7.4.62 इति अभ्यासघकारस्य झकारे कृते प्रकृतसूत्रेण तस्य जश्त्वे जकारः भवति ।
2. झर्झ् → जझर्झ । झकारस्य स्थाने जश्त्वे जकारः विधीयते ।
3. ढौक् → डुढौके । ढकारस्य स्थाने जश्त्वे डकारः विधीयते ।
4. धाव्→ दधाव । धकारस्य स्थाने जश्त्वे दकारः विधीयते ।
5. भूष् → बुभूष । भकारस्य स्थाने जश्त्वे बकारः विधीयते ।
1. शास् → शशास । शकारस्य स्थाने चर्त्वे शकारः एव विधीयते ।
2. ष्वष्क् → षष्वस्के । षकारस्य स्थाने चर्त्वे षकारः एव विधीयते ।
3. स्मृ → सस्मार । सकारस्य स्थाने चर्त्वे सकारः एव विधीयते ।
<<अभ्यासे चर्च्च>> - भ भूव् अ इति स्थिते — अभ्यासे चर्च ।झलां जश् झशी॑त्यस्माज्झलामित्यनुवर्तते । चकारेण जश् समुच्चीयते । तदाह — अभ्यासे झलामित्यादिन । झलश्चतुर्विंशतिः । तत्र शषसाः — शरः । तेषामभ्यासे लोपो वक्ष्यते — 'शर्पूर्वाः खय' इति । हकारस्य त्वभ्यासे 'कुहोश्चु' रिति चुत्वं वक्ष्यते । एवं च झल्षु झयो विंशतिरिहाऽभ्यासगताः स्थानिनो लभ्यन्ते । तेषां मध्ये कस्य चरः, कस्य जश इत्याशङ्कायामाह — झशां जश इति । वर्गाणां तृतीयचतुर्था झशः । तेषां जशः जबगडदा इत्यर्थः । यद्यद्वर्ग्याः स्थानिनस्तत्तद्वग्र्या आदेशा इत्यपि बोध्यम् । खयां चर इति । वर्गाणां प्रथमद्वितीयाः खयः, तेषां चरः चटकतपा इत्यर्थः । अत्रापि यद्यद्वर्ग्याः स्थानिनस्तत्तद्वग्र्या आदेशा इत्यपि बोध्यम् । तत्रापीति । तेष्वपि वर्ग्येषु प्रकृत्या = स्वभावेन जशामेव सतां प्कृत्या स्वभावेन जश एव सन्तस्तत्तद्वग्र्या आदेशाः स्युः । एवं प्रकृत्या स्वभावेन चरामेव सतां प्रकृत्या स्वभावेन चर एव सन्तस्तत्तद्वग्र्या आदेशाः स्युरित्यर्थः । पर्जन्यवल्लक्षणप्रवृत्तेरिति भावः । कुत इयं व्यवस्थेत्यत आह — आन्तरतम्यात् । झशां जशां च घोषसंवारनादप्रयत्नसाम्यम् । खयां चरां च आआसाऽघोषविवारप्रयत्नसाम्यम् । तत्तद्वग्र्याणां तत्तद्वग्र्या आदेशा इत्यत्र तु स्थानसाम्यं नियामकं बोध्यम् ।
चिखनिषतीति । खनेः सन्, द्विर्वचनम्,'कुहोश्चः' इति चुत्वम् - च्छकारः, तस्य चर्त्वम् - चकारः । टिठकारयिषतीति । ठकारमाचष्ट इति णिच्, टिलोपः, सन्, ठकारस्य टकारः । तिष्ठासतीति ।'शूर्पूर्वाः खयः' इति थकारस्य शेषः, तस्य चर्त्वं तकारः । प्रकृतिश्चां प्रकृतिचर इति । जश्त्वबाधनार्थं पर्जन्यवल्लक्षणप्रवृत्या प्रकृतिरूपाश्चरः स्थानिनाऽभिन्नरूपा भवन्तीत्यर्थः । एतच्चान्तरतमपरिभाषया लभ्यते । प्रकृतिजशां प्रकृतिजश इति । व्याख्यातम् । डिड।ल् इति । डीङे लिटि द्विर्वचने ठेरनेकाचःऽ इति यण् ॥