निव्यभिभ्योऽड्व्यवाये वा छन्दसि

8-3-119 विव्यभिभ्यः अड्व्यवाये वा छन्दसि पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

नि वि अभि इत्येतेभ्यः उपसर्गेभ्यः उत्तरस्य सकारस्य अड्व्यवाये छन्दसि विषये मूर्दह्न्यादेशो न भवति वा। न्यषीदत् पिता नः, न्यसीदत्। व्यषीदत् पिता नः, व्यसीदत्। अभ्यषीदत्, अभ्यसीदत्। सदिष्वञ्जोरिति तदिह न अनुवर्तते। सामान्येन एव तद्वचनम्। व्यष्टौत्, व्यस्तौत्, अभ्यष्टौत्, अभ्यस्तौतित्येतदपि सिद्धं भवति। इति वामनकाशिकायां वृत्तौ अष्टमाध्यायस्य तृतीयः पादः। अष्टमाध्यायस्य चतुर्थः पादः।

Siddhanta Kaumudi

Up

सस्य मूर्धन्यः । न्यषीदत् । न्यसीदत् । व्यषीदत् । व्यसीदत् । अभ्यष्टौत् । अभ्यस्तौत् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<निव्यभिभ्योऽड्व्यवाये वा छन्दसि>> - सुनोतेः स्यसनोः ।अपदान्तस्य मूर्धन्यःर॑ इत्यधिकृतम् ।न रपरे॑त्यतो नेत्यनुवर्तते । तादह — षो न स्यादिति । स्ये उदाहरति — विसोष्यतीति । अत्रउपसर्गात्सुनोती॑ति प्राप्तः षो न भवति । सनि तुअभिसुसू॑रित्युदाहरणम् । षुञः सनि द्वित्वे अभिसुसूसेति ससन्तात्क्विपि अतो लोपे अभिसुसूसित्यस्मात्सोर्हल्ङ्यादिलोपे सस्य रुत्वे 'र्वोरुपधायाः' इति दीर्घे रेफस्य विसर्गः । सुसूषतीति तु नोदाहरणं,स्तौतिण्योरेव षण्यभ्यासा॑दिति नियमादेव षत्वाऽभावसिद्धेरित्यलम् । षिञ् बन्धने इति । षोपदेशः, अनिट् च । षुञ इव रूपाणि । विसिनोतीति ।सात्पदाद्यो॑रिति षत्वनिषेधः ।उपसर्गात्सुनोती॑ति तु न षः, सुनोतत्यादिष्वनन्तर्भावादिति भावः । सिषायेति । णलि वृद्धावायादेशः । अतुसादौ 'एरनेकाचः' इति यण् । सिष्यतुरित्यादि । लटस्तङ्याह — सिष्ये इति । सिषि ए इति स्थिते 'एरनेकाच' इति यणिति भावः । सिष्याते सिष्यिरे इत्यादि । असैषीत् । षिञ् निशाने इति । षिञ्वत् । डु मिञ् प्रक्षेपणे इति । मिनोति । उपदेशे एजन्तत्वाऽभावादात्त्वे अप्राप्ते आह — मीनातिमिनोतीत्यात्त्वमिति ।एज्विषये अशिती॑ति शेषः । ममाविति । आत्त्वे कृते णल औत्वमिति भावः । अतुसादावेज्विषयत्वाऽभाव#आन्नात्त्वम् । 'एरनेकाचः' इतियण् । मिम्यतुः । मिम्युः । भारद्वाजनियमात्थलि वेडिति मत्वा आह — ममिथ ममाथेति । थलः पित्त्वेन अकित्त्वादेज्विषयत्वम् । इट्पक्षे 'आतो लोपः' इति भावः । मिम्यथुः मिम्य । ममौ मिम्यिव मिम्यिम । लिटस्तङ्याह — मिम्ये इति । एशः कित्त्वादेज्विषयत्वाऽभावाच्च नात्त्वमिति भावः । मिम्याते मिम्यिरे । मिम्यिषे मिम्याथे [मिम्यिढ्वे] मिम्यिध्वे ।मिम्ये मिम्यिवहे मिम्यिमहे । मातेति । एज्विषयत्वादशित्त्वाच्च आत्त्वमिति भावः । मास्यि मास्यते । सार्वधातुकेषु षुञ्वत् । मीयादिति । आशीर्लिङि परस्मैपदे यासुटः कित्त्वादेज्विषयत्वाऽभावादात्त्वाऽभावेअकृत्सार्वधातुके॑ति दीर्घ इति भावः । अमासाताममासात इत्यादि । चिञ् चयने इति । चयनं = रचना । अनिट् । सार्वधातुके षुञ्वद्रूपाणि । प्रणिचिनोतीति । नेर्गदे॑ति णत्वमिति भावः ।

Padamanjari

Up