1-1-51 उः अण् रपरः आदेशे षष्ठी स्थाने
उः रपरः अण्
ऋवर्णस्य/ऌवर्णस्य आदेशरूपेण विधीयमानात् अवर्णात्/इवर्णात्/उवर्णात् अनन्तरम् नित्यम् (यथासङ्ख्यम्) रेफः / लकारः विधीयते ।
Any अ, आ, इ, ई, उ, ऊ letter appearing as an आदेश in place of a ऋकार/ऌकार is always followed by the letter र्/ल् respectively.
उः स्थानेऽण् प्रसज्यमान एव रपरो वेदितव्यः। कर्ता। हर्ता। किरति। गिरति। द्वैमातुरः। त्रैमातुरः। उरिति किम्? खेयम्। गेयम्। अण्ग्रहणं किम्? <<सुधातुरकङ् च>> ४.१.९७ — सौधातकिः॥
ऋ इति त्रिंशतः संज्ञेत्युक्तम् । तत्स्थाने योऽण् स रपरः सन्नेव प्रवर्तते । तत्रान्तरतम्यात् कृष्णर्द्धिरित्यत्राऽर् । तवल्कार इत्यत्राऽल् । अचो रहाभ्याम् द्वे <{SK51}> इति पक्षे द्वित्वम् ॥
ऋ इति त्रिंशतः संज्ञेत्युक्तम्। तत्स्थाने योऽण् स रपरः सन्नेव प्रवर्तते। कृष्णर्द्धिः। तवल्कारः॥
<<उरण् रपरः>> - ऌकारेण तु स्थानिना न कस्यापि स्थानसाम्यं, तत्र कतमो गुणो भवतीत्याकाङ्क्षायामिदमारभ्यते — उरण्रपरः । इत्युक्तमिति । 'अणुदित्सूत्रे' इति शेषः । उरितिऋ॑इत्यस्य षष्ठएकवचनम् । 'षष्ठी स्थाने' इति परिभाषया स्थाने इति लभ्यते । अनुवादे तत्परिभाषानुपस्थितावपि स्थानेग्रहणं ततो ।ञनुवर्तते । तदाह — तत्स्थाने योऽणिति । 'स्थानेऽन्तरतम' इत्यतो ।ञपि स्थानेग्रहणमनुवर्तते । स्थानं प्रसह्ग इत्युक्तम् । प्रसङ्गावस्थायामित्यर्थो विवक्षितः । तदाह — रपरः सन्नेव प्रवर्तत इति । अत्र 'र' इति प्रत्याहारो विवक्षितः । ततश्च रेफशिरस्को लकारशिरस्कश्च प्रवर्तत इति लभ्यते । तयोव्र्यवस्थां दर्शयति — तत्रेति । रेफलकारशिरस्कयोर्मध्ये कृष्णर्दिंधरित्यत्र अर्, तवल्कार इत्यत्र अलित्यन्वयः । कुत इयं व्यवस्थेत्यत आह — आन्तरतम्यादिति । त्रिषु गुणेषु प्रसज्यमानेषु अकारस्याऽणो रेफलकारशिरस्कतया तस्य अर् अलित्येवमात्मकस्य अकारांशे स्थानीभूतेन अकारेण रेफांशे ऋकारेण, लकारांशे ऌकारेण च स्थानसाम्यादकारञकारयोः स्याने अरेव भवति । अकारऌकारयोः स्थानेऽलेव भवति । एकारोकारौ तु गुणौ न भवत एव, तयोरृकारेण ऌकारेण च स्थानसाम्या.ञभावादित्यर्थः । नच एकार ओकारश्च कथं रपरो न स्यातामिति वाच्यं, पूर्वेणैव णकारेण ह्यत्राण् गृह्रते, प्रशास्तृणामित्यादिनिर्देशादित्यलम् ।पक्षे द्वित्वमिति । ऋधधातोः क्तिनि झषस्तथोरिति तकारस्य धत्वे ऋद्धिरिति द्विधकारं रूपं स्वाभाविकम् । तत्र अरादेशे रेफात्परस्य धकारस्याऽचो रहाभ्यामिति कदाचिद्द्वित्वमित्यर्थः ।
अत्र चत्वारः पक्षाः सम्भवन्ति - 'उः स्थाने रपरोऽण् भवतीत्यनेन रपरत्वविशिष्टोऽण् भाव्यते' इति प्रथमः पक्षः । 'उः स्थानेऽणेव भवति,स च रपर इति अणनण्प्रसङ्गेऽण् नियम्यते, तस्य च रपत्वं विधीयते' इति द्वितीयः पक्षः । 'य उः स्थानेऽण्विधीयते इत्यनूद्य तस्य प्रसङ्गावस्थायामेव रपत्वमात्रं विधीयते' इति चतुर्थः पक्षः । तत्र प्रथमपक्षे - नाप्राप्तेषूदातादिषु विधीयमानोऽण् तेषां बाधकः स्यात्, तैरनवरुद्धस्य विषयस्याभावात् । एवं हि तदा वचनव्यक्तिः, षष्ठीनिर्द्दिष्टमात्रस्याभावान्नादेशोऽन्तरतमो भवति, ऋवर्णस्य त्वण् रपर इति, ततश्च कृतिरित्यत्र 'ञ्नित्यादिर्नित्यम्' इति प्राप्तमृकारं बाधित्वाण् रपरः स्यात्; प्रकृतमिति शेषनिघातः स्वरितश्च, नृÄः पाहीति पूर्वसवर्णदीर्घत्वमनुनासिकं च बाधित्वाण् रपरः स्यात्, कर्ता, कारक इति च गुणवृद्धी बाधित्वाऽण् भवन्नकार एवेति नियमाभावादिकारोकारावपि रपरौ स्याताम्; ये चामी प्रातिपदमुः स्थान आदेशाः 'आञ्त इद्धातोः' इत्यादयः-तेषु रपरत्वं न स्यात् । द्वितीये तु कामं गुणवृद्ध्योर्दोषो न स्यात् । तथा हि - 'सर्वेषु गुणवृद्धिसंज्ञकेषु प्राप्तेषु अणेव भवति' इति नियमादकाराकारावेव गुणवृद्धी रपरे भवत इति सिद्धं कर्तेत्यादि, शास्त्रान्तरेण योऽण् प्रसक्तः स एव नियमादपि भवतीतीकारोकारावपि न प्राप्नुतः । ननु 'अनुयमप्रसङ्गे नियमः' इति वृद्धावेव स्याद्, अस्ति तत्रानियमप्रसङ्ग इति कृत्वा; गुणस्तु कर्तेत्यादौ मात्रिकस्य मात्रिकोऽकार एव प्राप्नोति;तरितेत्यादौ द्विमात्रस्य द्विमात्र एव भवेद्, अणेवेति त्र नियमाभावात् तरितेत्यादावेणेóव गुणः स्यात्; कर्तेत्यादौ तु यद्यप्यकार एव गुणो लभ्यते, तस्य रपत्वं तु न लभ्यते, यो ह्यणनण्प्रसङ्गेऽणेवेति भवतीति नियमतो योऽण् तस्यैव रपरत्वं विहितम्; अतो निमयमपक्षेऽपि गुणविषये दोषस्तदवस्थ एव ? उच्यते, द्वे एते परिभाषे आदेशनियमार्थे - श्थानेऽन्तरमः' इति च 'उरण् रपरः' इति च । तत्र पूर्वस्या अवकाशः 'चजोः कुघिण्ण्यतोः' इत्यादि, अस्या अवकाशो यत्रान्तरतम्ये विशेषो नास्ति, यथा तारक इत्यादौ, वृद्धीनां कर्ता तारितेत्यादौ । गुणो भवतीत्युक्ते सर्वेषु गुणेषु प्राप्तेषु श्थानेऽन्तरतमः' इति नियमोऽस्तु, 'उरण् रपरः' इति वा परत्वात् 'उरण्रपरः' इत्ययमेव भविष्यति । अतः सुष्ठूअक्तम्-ङियमपक्षे गुणविषये न कश्चिद्दोषः' इति । किन्तूदातादिषु दोषस्तदवस्थ एव स्यात्,तथा हि-कृतिरित्यादावुदातो भवतीत्युक्ते सर्वेषदातसंज्ञकेषु प्राप्तेषु परत्वादनेनाण एवोदाताः स्युः ते च रपराः । एवमनुदातादिष्वपि द्रष्टव्यम् । ये च प्रतिपदामादेशाः 'ऋत इद्धातोः' इत्येवमादयः, तेष्वनियमप्रसङ्गाभावादस्ति नियमे रपत्वं न स्यात्, तदाह - 'उरण् रपरवचनमन्यनिवृत्यर्थं चेदुदातादिषु दोषः' इति । तृतीय पक्षे उदातादिषु न दोषः; ञ्नित्यादिभिरन्तरतमस्यैव विधानात् । किरतीत्यादौ च न दौषः । गुणवृद्ध्योरुक्तदोषः स्यादेव, तथा हि - विहितस्य पश्चादनेन रपरत्वं विधीयते, विधानकाले त्वान्तर्यतो मात्रिकस्य; मात्रिके गुणे रपरे कर्तेत्यादि यद्यपि सिध्यति, तरितेत्यादौ त्वेणेóव गुणः स्याद्; वृद्धिषु च विधानसमये कस्याश्चिदान्तर्याभावात् तिसृषु प्रवृतास्वाकारस्याण्त्वात् रपरत्वे कारकस्तारक इति यद्यपि सिद्धति, वायकस्तावक इत्यद्यनिष्टमनुसज्यत एव । अत एवमेतेषु पक्षेषु दोषसद्भावाच्चतुर्थं पक्षमाश्रित्याह - उः स्थानेऽण्प्रसज्यमान एवेत्यादि । एतच्च स्थानद्वयग्रहणानुवृतेर्लभ्यते । तत्रैकमुः स्थाने योऽण् विधीयत इत्यनुवादेऽपि स्थानसम्बन्धलाभाय । द्वितीयं तु सोऽण् प्रसङ्ग एव प्रसज्यमानावस्थायामेव रपरो भवतीति रपरत्वस्य कालविधानार्थम् । श्थानेऽन्तरतमः' इत्यत्र हि यद्यपि ताल्वादिवचनः स्थानशब्दः, तथापि न तेनात्र कश्चिदर्थोऽस्तीति प्रसङ्गवचन एवेह सम्पद्यते । एवं च गुणवृद्ध्योः प्राप्त्यवस्थायामेवाणो परपाः सम्पन्ना इति प्रमाणतोऽन्तरतमावेण्èóचौ बाधित्वा स्थानतोऽन्तरतम एव भविष्यतीति न कश्चिद्दोषः । न चानेकाल्त्वात्सर्वादेशप्रसङ्गः; आनुपूर्व्या सिद्धेः । यदाङ्गस्येति षष्ठी अन्त्येऽल्यनुसंहृता तदायमुः स्थाने, यदायमुः स्थाने तदा रपरः, यदा रपरस्तदानेकालिति न पुनः परावृत्य सर्वादेशो युज्यते । द्वैमातुर इति । 'मातुरुत्सङ्ख्यासम्भद्रपूर्वायाः' । खेयमिति । 'ई च खनः' । सौधातकिरिति । शुधातुरकङ् च ' । अत्रायमकङदेशोऽनण्त्वाद्रपरो न भवति । अथ योऽत्राण् स परः कस्मान्न भवति ? अनादेशत्वात्, समुदायो ह्यत्रादेशः । यद्येवम्, खट्वर्श्य इत्यादावपि रपरत्वं न स्यात्, पूर्वपरयोर्हि समुदायोऽत्र स्थानी नावयव ऋकारः, उच्यते; पूर्वपरयोरिति द्विवचननिर्द्दिशातयोरेव स्थानित्वं न समुदायस्य, अनुर्देअशात् । अत एव द्वयोः स्थानिनोर्भिन्नादिषु नत्ववत् द्वावादेशौ सायाताम् इति तत्रैकग्रहणं क्रियते । तत ऋकारस्यापि स्थानित्वमस्त्येव । तदिदमुच्यते-'यो ह्युभयोः स्थाने भवति लभते सोऽन्यतरब्यपदेशम्' इति । अतस्तत्रापि रपरत्वं भविष्यति ॥