2-2-24 अनेकम् अन्यपदार्थे आ कडारात् एका सञ्ज्ञा सुप् समासः विभाषा बहुव्रीहिः
index: 2.2.24 sutra: अनेकमन्यपदार्थे
अनेकं सुबन्तमन्यपदार्थे वर्तमानं सुपा सह समस्यते, बहुव्रीहिश्च समासो भवति। प्रथमार्थम् एकं वर्जयित्वा सर्वेषु विभक्त्यर्थेषु बहुव्रीहिर्भवति। प्राप्तमुदकं यं ग्रामं प्राप्तोदको ग्रामः। ऊढरथोऽनड्वान्। उपगृतपशू रुद्रः। उद्घृतौदना स्थाली। चित्रगुर्देवदत्तः। वीरपुरुषको ग्रामः। प्रथमार्थे तु न भवति। वृष्टे देवे गतः। अनेकग्रहणं किम्? बहूनामपि यथा स्यात्, सुसूक्ष्मजटकेशेन सुगजाजिनवाससा। समन्तशितिरन्ध्रेण द्वयोर्वृत्तौ न सिध्यति। बहुव्रीहिः समानाधिकरणानम् इति वक्तव्यम्। व्यधिकरणानां मा भूत्, पञ्चभिर्भुक्तमस्य। अव्ययानां च बहुव्रीहिर्वक्तव्यः। उच्चैर्मुखः। नीचैर्मुखः। सप्तम्युपमानपूर्वपदस्य उत्तरपदलोप श्च वक्तव्यः। कण्ठे स्थितः कालोऽस्य कण्ठेकलः। उरसिलोमा। उष्ट्रस्य मुखम् इव मुखं यस्य स उष्ट्रमुखः। खरमुखः। समुदायविकारषष्ठ्याश्च बहुव्रीहिरुत्तरपदलोपश्चेति वक्तव्यम्। केशानां सङ्घातः केशसङ्घातः, केशसङ्घातः चूडाऽस्य केशचूडः। सुवर्णस्य विकारोऽलङ्कारोऽस्य सुबर्णालङ्कारः। प्रादिभ्यो धतुजस्य उत्तरपदस्य लोपश्च वा बहुव्रीहिर्वक्तव्यः। प्रपतितं पर्णमस्य प्रपर्णः, प्रपतितपर्णः। प्रतितं पलाशमस्य प्रपलाशः, प्रपतितपलाशः। नञोऽस्त्यर्थानां बहुव्रीहिर्वाचोत्तरपदलोपश्च वक्तव्यः। आविद्यमानः पुत्रो यस्य अपुत्रः, अविद्यमानपुत्रः। अभार्यः, अविद्यमानभार्यः। सुबधिकारेऽस्तिक्षीरादीनां बहुव्रीहिर्वक्तव्यः। अस्तिक्षीरा ब्राह्मणी। अस्त्यादयो निपाताः।
index: 2.2.24 sutra: अनेकमन्यपदार्थे
अनेकं प्रथमान्तमन्यपदार्थे वर्तमानं वा समस्यते स बहुव्रीहिः । अप्रथमाविभक्त्यर्थे बहुव्रीहिरिति समानाधिकरणानामिति च फलितम् । प्राप्तमुदकं यं प्राप्तोदको ग्रामः । ऊढरथोऽनड्वान् । उपहृतपशू रुद्रः । उद्धृतौदना स्थाली । पीताम्बरो हरिः । वीरपुरुषको ग्रामः । प्रथमार्थे तु न । वृष्टे देवे गतः । व्यधिकरणानामपि न । पञ्चभिर्भुक्तमस्य ।<!प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः !> (वार्तिकम्) ॥ प्रपतितपर्णः प्रपर्णः ।<!नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः !> (वार्तिकम्) ॥ अविद्यमानपुत्रः अपुत्रः । अस्तीति विभक्तिप्रतिरूपकमव्ययम् । अस्तिक्षीरा गौः ॥
index: 2.2.24 sutra: अनेकमन्यपदार्थे
अनेकं प्रथमान्तमन्यस्य पदस्यार्थे वर्तमानं वा समस्यते स बहुव्रीहिः॥
index: 2.2.24 sutra: अनेकमन्यपदार्थे
अनेकमन्यपदार्थे - अनेकमन्य । प्रथमान्तमिति । शेषग्रहणानुवृत्तिलभ्यमिदम् । एवं च सुप्सुपेति नानुवर्तते, प्रयोजनाऽभावात् ।अनेकं सुबन्त॑मिति पाठेऽपि प्रथमान्तमित्यर्थः । अन्येति । उपस्थितप्रथमान्तातिरिक्तेत्यर्थः । एवंच पञ्चभिर्भुक्तमन्नं यस्य सः 'पञ्चभुक्त' इति बहुव्रीहिनिवृत्त्यर्थंबहुव्रीहिः समानाधिकरणानामिति वक्तव्य॑मिति वार्तिकं यद्भाष्ये स्थितं, यच्च वृष्टे देवे यो गतः स वृष्टदेव इति बहुव्रीहिनिवृत्त्यर्थम्अप्रथमाविभक्त्यर्थे बहुव्रीहिर्वक्तव्यः॑ इति वार्तिकं तदुभयमपि न कर्तव्यमित्याह — अप्रथमाविभक्त्यर्थे बहुव्रीहिरिति । समानाधिकरणानामिति च फलितमिति ।शेषग्रहणा॑दिति शेषः ।शेषग्रहणात् प्रथमान्त इति लभ्यते॑ इति हि भाष्यम् ।पञ्चभिर्भुक्तमस्ये॑त्यत्र च समस्यमानपदयोरेकस्याऽप्रथमान्तत्वान्न बहुव्रीहिरिति फलितम् । प्रथमान्तातिरिक्तस्य पदस्यार्थे वर्तमानं समस्यते इत्यर्थाश्रयणाद्वृष्टे देवे गत इत्यत्रापि न बहुव्रीहिरिति फलितम् । प्रतमान्तातिरिक्तस्य पदस्यार्थे वर्तमानं समस्यते इत्यर्थाश्रयणाद्वृष्टे देवे गत इत्यत्रापि न बहुव्रीहिरिति फलितमिति भावः । तत्र द्वितीयार्थबहुव्रीहिमुदाहरति — प्राप्तमिति ।गत्यर्थाकर्मके॑ति कर्तरि क्तः । अत्र विग्रहवाक्ये ग्रामकर्मकप्राप्तिकर्तृ उदकमित्येवं ग्रामस्य विशेषणतया, विशेष्यत्वेन तु प्राप्तस्य उदकस्य बोधः । समासे तु एकार्थीभावमहिम्ना उदककर्तृकप्राप्तिकर्मीभूतो ग्राम इत्येवं ग्रामस्य विशेष्यतया, तद्विशेषणतया तु प्राप्तस्य उदकस्य बोधः । एवमुत्तरत्रापि विशेषणविशेष्यभावव्यत्यासो ज्ञेयः । अथ तृतीयार्थबहुव्रीहिमुदाहरति — ऊढरथोऽनड्वानिति । ऊढो रथो येनेति विग्रहः । अथ चतुथ्र्यर्थबहुव्रीहिमुदाहरति — ऊढरथोऽनड्वानिति । ऊढो रथो येनेति विग्रहः । अथ चतुथ्र्यर्थबहुव्रीहिमुदाहरति — उपह्मतपशू रुद्र इति । उपह्मतः पशुर्यस्मै इति विग्रहः । अथ पञ्चम्यर्थबहुव्रीहिमुदाहरति -उद्धृतौदना स्थालीति । उद्धृत ओदनो यस्या इति बहुव्रीहिः । अथ षष्ठर्थंबहुव्रीहिमुदाहरति — पीताम्बरो हरिरिति । पीतमम्बरं यस्येति विग्रहः । अथ सप्तम्यर्थबहुव्रीहिमुदाहरति — वीरपुरुषको ग्राम इति । वीराः पुरुषा यस्मिन्निति विग्रहः । 'शेषाद्विभाषा' इति कप् । अत्र कर्मादीनां समासेनाभिहितत्वात्प्रथमैव । प्रथमार्थे तु नेति ।अन्यपदार्थ॑शब्देन प्रथमान्तातिरिक्तद्वितीयाद्यन्तार्थस्यैव विवक्षितत्वादिति भावः । व्यधिकरणानामपि नेति ।अनेकं प्रथमान्त॑मित्युक्तेरिति भावः । प्रादिभ्यः । प्रादिभ्यः परं यद्धातुजप्रकृतिकप्रधमान्तं तस्य अन्येन प्रथमान्तेन बहुव्रीहिर्वाच्यः । तत्र बहुव्रीहौ प्रादिभ्यः परस्य उत्तरपदस्य धातुजस्य लोपश्च विकल्पेन वाच्य इत्यर्थः । अत्रबहुव्रीहि॑रित्यनुवादः, लोपस्यैव विधिः । प्रपतितपर्ण इति । प्रकृष्टं पतितं — प्रपतितम् । प्रादयो गताद्यर्थे॑ इति समासः । प्रपतितं पर्णं यस्मादिति विग्रहः । प्रपर्ण इति । प्रपतितेति पूर्वपदे धातुजस्य उत्तरपदस्य लोपे रूपम् । नञोऽस्त्यर्थानां । नञः परेषामस्त्यर्थवाचिना सुबन्तानां बहुव्रीहिर्वाच्यः, त[था]त्रास्त्यर्थवाचिनामुत्तरपदभूतानां लोपश्च वा वक्तव्य इत्यर्थः । अविद्यमानपुत्र इति । न विद्यमान इति नञ्समासः । नञो नलोपः । अविद्यमानः पुत्रो यस्येति विग्रहः । अपुत्र इति । अस्त्यर्थकविद्यमानशब्दस्य लोपे रूपम् । अत्रापि बहुव्रीहिरित्यनुवादः । अव्ययानां चेति । 'बहुव्रीहिर्वाच्य' इति शेषः । उच्चैर्मुख इति । उच्चैरित्यस्याधिकरणशक्तिप्रधानतया सप्तम्यन्तत्वेन प्रथमान्तत्वाऽभावादप्राप्ते बहुव्रीहौ वचनम् । सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्चेति । सप्तम्यन्तोपमानसहिते पूर्वपदे यस्य तत् सप्तम्युपमानपूर्वपदम्, तस्य समस्तपदस्य पदान्तरेण बहुव्रीहिर्वाच्यः । समस्तपदात्मके पूर्वपदे यदुत्तरपदं तस्य लोपश्च वक्तव्य इत्यर्थः । तत्र सप्तम्यन्तसहितसमस्तपूर्वपदकं बहुव्रीहिमुदाहरति — कण्ठेस्थ इत्यादि । 'सुपि स्थः' इति कः । कण्ठे तिष्ठतीति कण्ठेस्थः । उपपदसमासः ।अमूद्र्धमस्तका॑दिति सप्तम्या अलुक् । 'कण्ठेस्थ' इति समस्तपद्रम् । तस्य कालशब्देन बहुव्रीहिरित्यनुवादः । सुपो लुक् । त्तर कण्ठेस्थेत्येतद्बहुव्रीहेः पूर्वपदं सप्तम्यन्तपदसहितं, तस्मिन् यदुत्तरपदं स्थेत्येतत्, तस्य लोपो वाचनिकः । 'कण्ठेकाल' इति सप्तम्यन्तपदघटितसमासगर्भो बहुव्रीहिः । तदवयवभूतसप्तम्याःअमूर्धमस्तका॑दित्यलुक् । अथ उपमानसहितसमस्तपूर्वपदकं बहुव्रीहिमुदाहरति — उष्ट्रमुख इति । उष्ट्रस्य मुखमिवेति विग्रहे षष्ठीतत्पुरुषः । मुखशब्दो मुखसदृशे लाक्षणिक इति सूचयितुमिवशब्दः । उष्ट्रमुखिमिव मुखं यस्येति विग्रहे बहुव्रीहिरित्यनुवादः । तत्रउष्ट्रमुखेत्येतद्बहुव्रीहेः पूर्वपदं, तस्मिन्नुत्तरपदस्य मुखशब्दस्य लोपो वाचनिकः । सङ्घातविकारेति । षष्ठन्तात्परस्य उत्तरपदस्य पदान्तरेण बहुव्रीहिर्वाच्यः, षष्ठन्तादुत्तरपदस्य लोपश्च । केशचूड इति । सङ्घातशब्दस्यो लोपे रूपम् । सुवर्णालङ्कार इति । अत्र विकरशब्दस्य उत्तरपदस्य लोपे रूपम् । अस्तिक्षीरादयश्चेति । अस्तिक्षीरादयो बहुव्रीहावुपसङ्ख्येया इत्यर्थः ।अस्तिक्षीरागौ॑रित्यत्र अस्तीत्यस्य तिङन्ततया प्रथमाविभक्त्यन्तत्वाऽभावादप्राप्ते बहुव्रीहाविदं वचनम् । वस्तुतस्तु वचनमिदं नारब्धव्यमित्याह — अस्तीति विभक्तिप्रतिरूपकमव्ययमिति । विभक्तिप्रतिरूपकत्वेन निपातितत्वादस्तीतिस्वरादिनिपातमव्यय॑मित्यव्ययं विद्यमानार्थकम् । ततः सोः 'अव्ययादाप्सुपः' इति लुकि प्रत्ययलक्षणेन प्रथमान्तत्वादेव सिद्धेरिदं वचनं न कर्तव्यमिति भावः । तदुक्तं भाष्ये — ॒अस्तिक्षीरादिवचनं, न वाऽव्ययत्वा॑दिति ।
index: 2.2.24 sutra: अनेकमन्यपदार्थे
अनेकमन्यपदार्थे॥ अनेकं सुबन्तं सह समस्यत इति। परस्परमित्यर्थः। तदनेन सुबित्येतदत्रानुवर्तते, न सुपेत्येतद्; उतरपदस्याप्यनेकमित्यनेनैव प्रतिपादितत्वादिति दर्शयति। सर्वेषु विभक्त्यर्थेष्विति। पदेन प्रकृत्यर्थोपसर्जनः प्रत्ययार्थोऽभिधीयत इति विभक्त्यर्थस्य प्राधान्यातस्यैवान्यपदार्थग्रहणेन प्रहणमिति भावः। अत एव प्राप्तोदकोऽयं ग्राम इति ग्रामशब्दानुप्रयोगः, अन्यथा यावानेवार्थो ग्रामपदस्य तावतोऽभिधाने गतार्थत्वान्न स्यात्, यथा - द्वन्द्वे च - शब्दस्य। यदा तु समासेन विभक्त्यर्थ एव सम्बन्धादिरभीप्स्यते तदा विभक्तिर्मानुप्रयोजि, द्रव्यस्यानभिहितत्वातद्वाचिनोऽनुप्रयोगः कस्मान्न स्यात् यदि विभक्त्यर्थोऽभिधीयते, कथं ग्रामादिभिः सामानाधिकरण्यं तल्लिङ्गसंख्यायोगे वा बहुव्रीहिर्भवतिप्राप्तोदको ग्रामः, उद्धृतौदना स्थालीति? उच्यते - विभक्त्यर्थस्य सम्बन्धादेराश्रितत्वेन गुणत्वादभेदोपचारात्सामानाधिकरण्यमाश्रयतश्च लिङ्गवचनानि भविष्यन्ति शुक्लादिवत्, यथा - शुक्लं वस्त्रम्, शुक्ला पटी, शुक्लः कम्बलः, शुक्लैः, शुक्ला इति। नन्वेवं यथा शुक्लशब्देन कदाचिद्गुण उच्यते, कदाचित् गुणी; तथा बहुर्वीहावपि प्राप्नोति। नैषोऽस्ति नियमः - गुणशब्देन कदाचिद्गुणमात्रमभिधीयत् इति, पट्वादिष्वदर्शनात्, न हि भवति देवदतस्य पटुअरिति; तद्वदिहापि नित्यमेव गुणिनिष्ठता भविष्यति। एवमपि बहुव्रीहिणा यथा विभक्त्यर्थस्याभिधानात् षष्ठ।लदयो न भवन्ति, तथा लिङ्गसंख्ययोरप्यभिधानातयोर्वाचकाः प्रत्यया न प्राप्नुवन्ति ? नैष दोषः; स्वाथिंकाष्टाबादयः, स्त्रियां यद्वर्तते तस्मात्स्वार्थिकाष्टबादयो भवन्तीति तेन बहुव्रीहिणाऽभिहितेऽपि स्त्रीत्वे भविष्यन्ति। एवं च कृत्वा ठनो बहुव्रीहेःऽ इत्याद्यौपपन्नं भवति। समासेन च बाह्यक्रियापेक्षा या कर्मादिशक्तिस्तद्रहितसमासप्रातिपदिकार्थमात्रस्यैवैकत्वादेरुक्तत्वादिति कर्मादिगतैकत्वादिप्रतिपादनाय वचनानि भविष्यन्तिचित्रगुं पश्य, चित्रगुणा कृतमिति। एवमपि प्रथमा न प्राप्नोति, समासेन संख्याया अभिधानात्? वचनग्रहणादेकः, द्वौ, बहव इतिवद्भविष्यति। अथ वा - लिङ्गमात्रं संख्यामात्रं बहुव्रीहिणाभिहितं न विशेषस्तत्रावश्यं विशैषार्थिना तद्वाची शब्दः प्रयोक्तव्यः, एवं च कृत्वा सह प्रकृत्वा सह प्रकृत्यर्थेन विभक्त्यर्थे बहुव्रीहिणाभिधीयमानेऽपि न कश्चिद्दोषः। कथं सामान्यमनभिहितं विशेषस्यानुप्रयोगः? सामान्यस्य तर्हि न प्राप्नोति - देवदतः कश्चिदिति, सामान्यमपि विशेषः, यथा विशेषेण विशेषान्तरं व्यावर्त्यते तद्वत्सामान्येन विशेषो व्यावर्त्यते, अन्यथा सन्देहः स्यात् - सामान्यमत्र विवक्षितम्? विशेषो वा ? इति। प्राप्तोदको ग्राम इत्यादिनि द्वितीयाद्यर्थेषु यथाक्रममुदाहरणानि। ऊढो रथो येन, उपहृतः पशुर्यस्मै, उद्धृत ओदनो यस्याः, चित्रा गावो यस्य, वीराः पुरुषा यस्मिन्निति विग्रहाः। प्रथमार्थे तु न भवतीति। अनभिधानात्, एवमनन्तरादिषु न भवति - चित्रा गावो यस्यानन्तरा इति। अनेकमिति किमिति। सुप्सुपेत्यधिकारादेव तत्पुरुषवद्वहुव्रीहिरप्येकस्य न भविष्यतीति प्रश्नः। बहूनामपि यथा स्यादिति। अन्यथा सुप्सुपेति संख्याया विवक्षितत्वाद्यथा तत्पुरुषो बहूनां न भवति - महत्कष्ट्ंअ श्रित इति, तथा बहुव्रीहिरपि न स्यादिति भावः। ज्ञापकात्सिद्धिम्, यदयं तद्धितार्थेत्युतरपदे द्विगुं रास्ति तज्ज्ञापयति - बहूनामपि समास इति। यद्येवम्, तत्पुरुषेऽपि प्रसङ्गः, अथ चित्रगुरित्यत्रोतरपदस्याप्युपसर्जनसंज्ञा प्रयोजनं कस्मान्न भवति, सत्यनेकग्रहणे सुपेत्यस्य निवर्तितत्वादुतरपदमपि तेनैव प्रत्याय्यते, तदपि समासशास्त्रे प्रथमानिर्दिष्ट्ंअ भवति, नान्यथा? एवं मन्यते - चित्रगुस्तिष्ठति, चित्रगुं पश्येति प्रधानस्यान्यपदार्थस्य नानाविभक्तियोगेऽपि वर्तिपदयोर्नित्यप्रथमान्तत्वादेकविभक्तीत्येव सिद्धमुपसर्जनत्वमिति। सुसूक्ष्मजटकेशेनेति। सुष्ठुअ सूक्ष्मा जटाः केशा अस्येति चतुर्णां बहुव्रीहौ'ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्' इति बहुलवचनाध्रस्वत्वम्,यद्वा सुष्ठुअ सूक्ष्मा जटा येषु ते सुसूक्ष्मजटास्ताद्दशाः केशा अस्येति पुनर्बहुव्रीहिः। एवं सुष्ठुअ गजाजिनं वास आच्छादनं यस्य तेन सुगजाजिनवाससा, तृतीयान्तोदाहरणम्; श्लोके तथा पठितत्वात्।'सुसूक्ष्मजटकेशेन सुगजाजिनवाससा। समन्तशितिरन्ध्रेण द्वयोर्वृतौ न सिद्ध्यति' ॥ इति भाष्ये श्लोकः पठितः तत्र तु श्लोकपूरणार्थं तृतीयानिर्देशः। अन्यग्रहणं बहुव्रीहितत्पुरुषयोर्विषयविभागार्थम्, असति तस्मिन् कण्ठेकाल इत्यादौ व्यधिकरणपदे सावकाशं बहुव्रीहि स्वपदार्थ इव नीलोत्पलं सर इत्यादौ समानाधिकरणे तत्पुरुषो बाधेत। अन्यग्रहणे तु सति स्वपदार्थे सावकाशं तत्पुरुषं परत्वाद्वहुव्रीहिर्बाधत इति न कश्चिद्दोषः। पदग्रहणं किम्? पदार्थे यथा स्याद्वाक्यार्थे मा भूत्। कश्चित्कञ्चिन्नद्यां सिष्णासुमाह - नद्यां ग्राहाः सन्तीति, एतानि पदानिठ्तस्मातत्र मा स्नासीःऽ इति वाक्यार्थं गमयन्तीति तेषां बहुव्रीहिसंज्ञा प्राप्नोति। अर्थग्रहणं किम्, यावता पदेपदान्तरस्य वृत्यसम्भवादेव पदार्थे भविष्यति? कृत्स्ने पदार्थे यथा स्यात्, अन्यथा प्राधान्याद्विभक्त्यर्थ एव स्यान्न प्रकृत्यर्थे द्वव्ये। तत्र यदुक्तम् - अभेदोपचाराद्धर्मिणोऽभिधाने सिद्धेऽपि शुक्लादिवद्धर्ममात्रस्यापि कदाचिदभिधानं प्राप्नोति, तदनेनापाक्रियते। पट्वादिशब्दवन्नित्यं धर्मिनिष्ठो बहुव्रीहिरिति प्रतिपादनेन बहुव्रीहिः समानाधिकरणानामित्यादिरभिधानसिद्धस्यार्थस्य प्रपञ्चः। उच्चैर्मुख इति। उच्चैसोऽथिकरणप्रधानत्वाद्वैयधिकरण्याद्वचनम्। सप्तम्युपमानेति। सप्तम्यन्तमुपमानवाचि च पूर्वपद यस्य तस्य शब्दान्तरेण समासस्तत्रस्थस्योतरपदस्य लोप इत्यर्थः। कण्ठेस्थ इति।'सुपि स्थः' इति कः। ठमूर्द्धमस्तकात्ऽ इत्यलुक्। कण्ठेस्थित इति पाठेतु सप्तमीति योगविभागात्समासः। समानाधिकरणत्वात्समासे सिद्धे वचनमुतरपदलोपार्थम्, तेन वैयधिकरण्येऽप्यत्र गमकत्वमस्तीति प्रदर्श्यते। उष्ट्रखमिवोति। अवयवधर्मेण समुदायव्यपदेशादुष्ट्रस्योपमानतेत्युपमानपूर्वपदमुष्ट्रमुखशब्दः, अत्रोपमानोपमेययोर्वौयधिकरण्यवद्वचनमुतरपदलोपार्थं च। उष्ट्रमुख इति। उष्ट्रो मुखमस्येति। विग्रहः, न च प्राणी प्राण्यन्तरस्य मुखमुपपद्यत इति सामर्थ्यात् साद्दश्यावगतिः, मुखेन च सुखस्य साद्दश्यं प्रसिद्धमित्युष्ट्रमुखमिव मुखमस्येत्ययमर्थो भवति। तस्मादुतरपदलोपो न वक्तव्यः। समुदायविकारषष्ठ।ल इति। समुदायावयवसंबन्धे प्रकृतिविकारसंबन्धे च या षष्ठी तदन्तात्परं यदुतरपदं तदन्तस्य समासस्य शब्दान्तरेण सह बहुव्रीहिरित्यर्थः। केशचूड इति। इदमपि केशसमाहारे केशशब्दस्य वृतेः सिद्धम्। एवं स्वर्णविकारे स्वर्णशब्दस्य वृतेः स्वर्णालङ्कार इति सिद्धम्। वचनं तु केशमसाहारचूडः, स्वर्णविकारालङ्कार इत्युतरपदस्य श्रवणं मा भूदिति। प्रादिभ्यो धातुजस्येति। इदं न वक्तव्यमेव, प्रादयो हि ससाधनां क्रियां प्राहुः - यथा निष्कौशाम्बीः, निर्वाराणसिः, प्राचार्य इति। एवं नञोऽस्त्यर्थानामित्येतदपि। सुबधिकार इति। अस्तीति तिङ्न्तमिति मत्वा वचनं निपातत्वात्सिद्धम्। उपसर्गविभक्तिप्रतिरूपका निपाताः, स्वरादिषु चास्तिशब्दः पठ।ल्ते। इह किं सब्रह्मचारीति? बहुव्रीहिरयम्। के सब्रह्मचारिणस्तव, किं सब्रह्मचारी त्वमिति पूर्वपदप्रकृतिस्वरो ह्यत्रेष्यते, तत्र कठसब्रह्मचार्यहमिति सम्भावितम्प्रतिवचनम्। यतु कठोऽहमिति न तत्साक्षात्प्रतिवचनम्,किं तर्हि? आर्थिकम्। अहं तावत्कठ इत्युक्ते गम्यत एतन्नतु तेऽपि कठा इति। कठस्य हि कठा एव सब्रह्मचारिणो भवन्ति, नान्ये। समाने ब्रह्मणि व्रतचार्येव सब्रह्माचारी भवति। के सब्रह्मचारिणस्तवेति वाक्येन तु प्रश्ने कठा इति प्रतिवचनम्। समासेन तु प्रश्ने कठा इति प्रतिवचनं कदाचिदपि न भवति; वर्तिपदार्थानामुपसर्जनत्वात्, किं सब्रह्मचारीतिसमासेन सब्रह्मचारिणामभिधानात्। इह द्वौ द्रोणावर्द्धद्रोणाश्चार्द्धतृतीया द्रोणा इति? अर्द्धस्तृतीयो येषामिति बहुव्रीहावुद्भूतावयवभेदः समुदायः समासार्थ इति बहुवचनं द्रोणशब्दश्च द्रोणयोरर्द्धद्रोणेऽपि लक्षणया वर्तत इति सामानाधिकरण्यं च भवति॥