2-4-71 सुपः धातुप्रातिपदिकयोः
index: 2.4.71 sutra: सुपो धातुप्रातिपदिकयोः
धातु-प्रातिपदिकयोः सुपः लुक्
index: 2.4.71 sutra: सुपो धातुप्रातिपदिकयोः
धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानस्य सुप्-प्रत्ययस्य लुक् भवति ।
index: 2.4.71 sutra: सुपो धातुप्रातिपदिकयोः
A सुप् प्रत्यय that comes as a part of a धातु or a प्रातिपदिक is removed.
index: 2.4.71 sutra: सुपो धातुप्रातिपदिकयोः
सुपो विभक्तेर्धातुसंज्ञायाः प्रातिपदिकसंज्ञायाश्च लुग् भवति. तदन्तर्गतास्तद्ग्रहणेन गृह्यन्ते. धातोस्तावत् पुत्रीयति. घटीयति. प्रातिपदिकस्य कष्टश्रितः. राजपुरुषः. धातुप्रातिपदिकयोः इति किम्? वृक्षः. प्लक्षः.
index: 2.4.71 sutra: सुपो धातुप्रातिपदिकयोः
एतयोरवयवस्य सुपो लुक् स्यात् । भूतपूर्वे चरट् <{SK1999}> इति निर्देशाद्भूतशब्दस्य पूर्वनिपातः । पूर्वे भूतो भूतपूर्वः ।<!इवेन समासो विभक्त्यलोपश्च !> (वार्तिकम्) ॥ जीमूतस्येव ॥
index: 2.4.71 sutra: सुपो धातुप्रातिपदिकयोः
एतयोरवयवस्य सुपो लुक्॥
index: 2.4.71 sutra: सुपो धातुप्रातिपदिकयोः
यदि कश्चन सुप्-प्रत्ययः कस्यचित् धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानः अस्ति, तर्हि तस्य सुप्-प्रत्ययस्य लुक् भवति । कानिचन उदाहरणानि एतानि -
'राज्ञः पुरुषः' इत्यत्र षष्ठी 2.2.8 अनेन सूत्रेण षष्ठीतत्पुरुषः समासः भवितुमर्हति । अत्र 'राज्ञः पुरुषः' इति स्थिते प्रक्रियायाम् पदयोः अलौकिक-विग्रहं कृत्वा 'राजन् + ङस् + पुरुष + सुँ ' इति जायते । एतत् समस्तपदमस्ति, अतः कृत्-तद्धित-समासाश्च 1.2.46 इत्यनेन अस्य शब्दस्य प्रातिपदिकसंज्ञा भवति । इदानीमस्मिन् प्रातिपदिके 'ङस्' तथा 'सुँ' एतौ द्वौ सुप्-प्रत्ययौ अवयवरूपेण उपस्थितौ स्तः । अतः एतयोः वर्तमानसूत्रेण 'लुक्' (लोपः) भवति । अतः 'राजन् + पुरुष' इति अवशिष्यते । अत्र 'राजन्' शब्दात् परस्य ङस्-प्रत्ययस्य लुक्-कृते अपि प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन ङस्-प्रत्ययस्य लक्षणम् (= पदत्वम्) 'राजन्' शब्दस्य विषये अपि विधीयते । अतः 'राजन्' अयं शब्दः, यः मूलरूपेण प्रातिपदिकसंज्ञकः तु अस्ति एव, इदानीम् पदसंज्ञकः अपि भवति । एतादृशम् पदसंज्ञकं यत् प्रातिपदिकम्, तस्य अन्तिम-नकारस्य नलोपः प्रातिपदिकान्तस्य 8.2.7 इत्यनेन लोपः भवति, अतः 'राजपुरुष' इति समस्तपदम् जायते ।
'उपगोः अपत्यम्' इत्यत्र तस्यापत्यम् 4.1.92 अस्मिन् अर्थे प्राग्दीव्यतः अण् 4.1.83 इत्यनेन 'उपगोः' इति समर्थात् 'अण्' प्रत्ययः विधीयते । अत्र 'उपगोः + अण्' इति स्थिते अलौकिकविग्रहं कृत्वा 'उपगु + ङस् + अण्' इति जायते । अत्रापि कृत्-तद्धित-समासाश्च 1.2.46 इत्यनेन अस्य तद्धितप्रत्ययान्तशब्दस्य प्रातिपदिकसंज्ञा भवति, अतः अस्मिन् प्रातिपदिके उपस्थितस्य ङस्-प्रत्ययस्य वर्तमानसूत्रेण 'लुक्' भवति । अतः 'उपगु + अण्' इति अवशिष्यते । अग्रे तद्धितेष्वचामादेः 7.2.117 इत्यनेन आदिवृद्धिं कृत्वा, तथा ओर्गुणः 6.4.146 इत्यनेन उकारस्य गुणादेशं कृत्वा 'औपगव' इति प्रातिपदिकं सिद्ध्यति ।
'पुत्रमात्मनः इच्छति' इत्यस्मिन् अर्थे 'पुत्रम्' इति सुबन्तात् काम्यच्च 3.1.9 अनेन सूत्रेण 'काम्यच्' अयम् सनादिप्रत्ययः विधीयते । 'पुत्रम् + काम्यच्' इत्यस्य अलौकिकविग्रहं कृत्वा 'पुत्र + अम् + काम्यच्' इति जायते । अयं सनादि-प्रत्ययान्तः शब्दः अस्ति, अतः सनाद्यन्ताः धातवः 3.1.32 इत्यनेन अयम् धातुसंज्ञां प्राप्नोति । एवं स्थिते अस्मिन् धातौ विद्यमानः यः 'अम्' इति सुप्-प्रत्ययः, तस्य वर्तमानसूत्रेण लोपः विधीयते । अनेनैव 'पुत्रकाम्य' इति आतिदेशिकधातुः जायते, यस्य अग्रे तथाविहिताः विकरणतिङादयः प्रत्ययाः भवन्ति (यथा - 'पुत्रकाम्यति' - आदयः) ।
ज्ञातव्यम् -
अस्मिन् सूत्रे 'धातोः / प्रातिपदिकस्य सुप्-प्रत्ययः' इति उच्यते । <ऽतदन्तर्गताः तद्ग्रहणेन गृह्यन्तेऽ> अनया परिभाषया अत्र 'धातोः / प्रातिपदिकस्य' इत्यनेन यतोः अन्तर्गतानां सुप्-प्रत्ययानाम् ग्रहणं भवति ।
कौमुद्यामत्र एकं वात्तिकमुक्तमस्ति - <!इवेन समासः विभक्त्यलोपश्च!> । इत्युक्ते, 'इव' शब्देन सह समासः क्रियते चेत् वर्तमानसूत्रेण सुप्-प्रत्ययस्य लोपः न भवति । यथा - 'जीमूतस्य इव = जीमूतस्येव' । अत्र ङस्-प्रत्ययस्य वर्तमानसूत्रेण निर्दिष्टः ङस्-प्रत्ययस्य लोपः अनेन वार्त्तिकेन निषिध्यते ।
अनेन सूत्रेण सुप्-प्रत्ययस्य 'लुक्' विधीयते । 'लुक्' इति प्रत्ययस्य विशिष्टप्रकारस्य लोपः । प्रत्ययस्य लुक्-श्लु-लुपः 1.1.61 इत्यनेन इयं संज्ञा विधीयते । अत्र 'लुक्' इति किमर्थमुक्तमस्ति? प्रत्ययस्य यदा 'लुक्' इत्यनेन लोपः भवति, तर्हि लुप्त-प्रत्ययस्य कारणात् प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन जायमानं यत् 'अङ्गकार्यम्', तस्य न लुमताङ्गस्य 1.1.63 इत्यनेन निषेधः भवति । यथा - 'राजन् + ङस् + पुरुष + सुँ' अत्र ङस्-प्रत्ययस्य लोपे कृते ङस्-प्रत्ययस्य यत् अङ्गकार्यम् (अल्लोपोऽनः 6.4.134 इत्यनेन उपधा-अकारस्य लोपः) तस्य प्रसक्तिः नास्ति । अतः 'राजपुरुष' इत्यत्र जकारात् परः यः अकारः, तस्य लोपः न जायते । (केवलं अङ्गकार्यस्यैव अत्र निषेधः भवति, अन्येषां कार्याणाम् न - एतत् स्मर्तव्यम् । अतः नलोपः प्रातिपदिकान्तस्य 8.2.7 इत्यनेन 'राजन्' इत्यस्य नकारः तु अत्रापि लुप्यते) ।
index: 2.4.71 sutra: सुपो धातुप्रातिपदिकयोः
सुपो धातुप्रातिपदिकयोः - सुपो धातु ।धातुप्रातिपदिकयो॑रित्यवयवषष्ठीत्याह — एतयोरवयवस्येति । लुक्स्यादिति ।ण्यक्षत्रियार्षञितो यूनि लुक् इत्यतस्तदनुवृत्तेरिति भावः । न च 'सुप' इत्यनेन सप्तमीबहुवचनस्यैव ग्रहणं किं न स्यादिति वाच्यम्,पञ्चम्याः स्तोकादिभ्यः॑ इत्यलुग्विधानात्सुप्प्रत्याहारस्यैवात्र ग्रहणमिति ज्ञापनात् । नचैव मपि पूर्वं भूत इति लोकिकविग्रहवाक्ये परिनिष्ठितसन्धिकार्ययोः सुबन्तयोः समासे सति पूर्वमित्यत्र अमि पूर्वरूपस्य एकादेशस्य परादित्वमाश्रित्य अमो लुकि समासदशायां वकारादकारो न श्रूयेत । पूर्वान्तत्वे तु परिशिष्टस्य मकारस्य सुप्त्वाऽभावात् कथं लुगिति वाच्यं, 'सुपो धातु' इति लुग्विषयेअन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते॑ #इत्याश्रित्य सन्धिकार्यप्रवृत्तेः प्रागेवाऽलौकिकविग्रहवाक्ये समासप्रवृत्तिरितिप्रत्ययोत्तरपदयोश्च॑ इति सूत्रभाष्ये स्थितम् ।कृत्तद्धितसमासाश्च॑ इत्यत्र प्रौढमनोरमायामपि परिष्कृतमिदम् । 'भस्त्रैषा' इति सूत्रव्याख्यावलरे प्रपञ्चितं चास्माभिः । एवंच पूर्व अम् भूत सित्यलौकिकविग्रहदशायामेव अमो लुक्प्रवृत्तेर्नोक्तदोषः । तथाच सुपो लुकि भूतपूर्वेति स्थितम् । ननुसुबन्तं सुबन्तेन समस्यते॑ इति समासशास्त्रे सुबन्तं प्रथमानिर्दिष्टम् । सुबन्तत्वं च द्वयोरप्यविशिष्टम् । ततश्चप्रथमानिर्दिष्टं समास उपसर्जनम् इति वक्ष्यमाणोपसर्जनत्वस्य द्वयोरप्यविशिष्टत्वात्उपसर्जनं पूर्व॑मित्यन्यतरस्य पूर्वनिपाते विनिगमनाविरह इत्यत आह — भूतपूर्वे चरडिति । पूर्वं भूत इति । लौकिकविग्रहोऽयम् । पूर्वमिति क्रियाविशेषणम् । भूतपूर्व इति समासत्वेन प्रातिपदिकत्वात्समुदायात्पुनर्यथायथं सुबुत्पत्तिरिति भावः ।इवेनेति । इवेत्यव्ययेन सुबन्तस्य समासः । 'सुपो धातु' इति लुगभावः । पूर्वपदस्य प्रकृतिसिद्धस्वरश्च भवति, न तु समासस्वर इति वक्तव्यमित्यर्थः । 'सह सुपा' इति सिद्धे समासविधानमिवशब्दस्य पूर्वनिपातनिवृत्त्यर्थम् । अन्यथा अत्र इवशब्दस्यापि सुबन्तत्वाऽविशेषात्समासशास्त्रे प्रतमानिर्दिष्टत्वेनोपसर्जनत्वात्पूर्वनिपातः स्यात् । जीमूतस्येवेति । अत्र जीमूतशब्दस्य पूर्वपदस्य फिट्स्वरेणान्तोदात्तत्वमेव , न तु समासस्येत्यन्तोदात्तत्वम् । अत्र यथार्थत्वप्रयुक्तोऽव्ययीभावस्तु न,तत्र तस्येवे॑ति निर्देशात् । क्वाचित्कश्चायं समासः । अत एव बह्वचा एव पदपाठे अवगृह्णन्ति । याजुषास्तु भिन्ने एव पदे पठन्ति । 'उद्बाहुरिव वामनः' इत्यादिव्यस्तप्रयोगाश्च सङ्गच्छन्ते ।हरीतकीं भुङ्क्ष्व राजन्मातेव हितकारिणी॑मित्यत्र तु मातरमिवेति भवितव्यम् ।तिङ्समानाधिकरणे प्रथमा॑ 'अभिहिते प्रथमा' इति वार्तिकस्वारस्येन प्रथमायाः कारकविभक्तित्वोक्तिपरभाष्येण च क्रियायोग एव प्रथमायाः प्रवृत्त्या मातेति प्रथमाया मातृसदृशीमित्यर्थे असाधुत्वादित्यस्तां तावत् ।
index: 2.4.71 sutra: सुपो धातुप्रातिपदिकयोः
सुपो धातुप्रातिपदिकयोः॥ अत्र'सुपः' इति सप्तमीबहुवचनं न गृह्यते;'पञ्चम्या स्तोकादिभ्यः' इत्यादिना पञ्चम्यादीनामलुग्विधानात्। नापि कपः पकारेण प्रत्याहारः, तद्धितानां विधानसामर्थ्यात्; अन्यथा तद्धितान्तस्य प्रातिपदिकत्वातदवयवस्य सर्वस्यैव तद्धितस्य लुक् स्यात्,'द्विगोर्लुगनपत्ये' इत्येतच्चानर्थकं स्यात्। अतः सुशब्दादारभ्य सुपः पकारेण प्रत्याहार इत्याह - सुपो विभक्तेरिति। धातुप्रातिपदिकयोरिति यदि सप्तमी स्याद् धातुप्रातिपदिकयोः परतः सुपौ लुक् स्यात् - काष्ठ्èअः पचति, शोभनैः काष्ठ्èअरिति, तस्मात्षष्ठीयमित्याह - सुपो विभक्तेर्धातुसंज्ञायाः प्रातिपदिकसंज्ञाया इति। धातुः संज्ञा यस्यास्तस्या इत्यर्थः। कथं पुनर्विभक्तिर्धातुसंज्ञा प्रातिपदिकसंज्ञा वा भवति, तत्राह - तदन्तर्गता इति। एवमपि धातुप्रातिपदिकयोरवयवभूता विभक्तयः स्युर्न तत्संज्ञाः? नेष दोषः; समुदायेषु हि वृताः शब्दा अवयवेष्वपि वर्तन्ते। धातुप्रातिपदिकयोरवयवस्य सुप इत्यपि व्याख्याने न कश्चिद्दोषः। प्रत्युत'सुपः' इत्यस्य द्विवचनान्तेन सम्बन्धो न दुरुपपादो भवति, तथा तु न व्याख्यातमित्येव॥