स्तोः श्चुना श्चुः

8-4-40 स्तोः श्चुना श्चुः पूर्वत्र असिद्धम् संहितायाम्

Sampurna sutra

Up

स्तोः श्चुना श्चुः

Neelesh Sanskrit Brief

Up

सकारतवर्गयोः शकारचवर्गाभ्यां योगे संहितायाम् शकारचवर्गौ स्तः ।

Neelesh English Brief

Up

In the context of संहिता, A सकार and a तवर्ग letter are converted (respectively) to a शकार and चवर्ग letter when associated with a शकार or a चवर्ग letter.

Kashika

Up

सकारतवर्गयोः शकारचवर्गाभ्यां सन्निपाते शकारचवर्गावादेशौ भवतः। स्तोःश्चुनेति यथासंख्यमत्र नेष्यते। सकारस्य शकारेण चवर्गेण द्वाभ्यामपि संनिपाते शकारो भवति। तवर्गस्यापि च शकारेण चवर्गेण च संनिपाते चवर्गो भवति। आदेशे तु यथासंख्यमिष्यते। सकारस्य शकारः, तवर्गस्य च चवर्ग इति। सकारस्य शकारेण संनिपाते — वृक्षश्शेते। प्लक्षश्शेते तस्यैव चवर्गेण — वृक्षश्चिनोति। प्लक्षश्चिनोति। वृक्षश् छादयति। प्लक्षश्छादयति। तवर्गस्य शकारेण — अग्निचिच्छेते। सोमसुच्छेते। तस्यैव चवर्गेण — अग्निचिच्चिनोति। सोमसुच्चिनोति। अग्निचिच्छादयति। सोमसुच्छादयति। अग्निचिज्जयति। सोमसुज्जयति। अग्निचिज्झकारः। सोमसुज्झकारः। अग्निचिञ्ञकारः। सोमसुञ्ञकारः। मस्जेः — मज्जति। भ्रस्जेः — भृज्जति। व्रस्चेः — वृश्चति। यजेः — यज्ञः। याचेः — याच्ञा। <<शात्>> ८.४.४४ इति प्रतिषेधो ज्ञापकः संख्यातानुदेशाभावस्य। स्तोः श्चाविति सप्तमीनिर्देशो न कृतः, पूर्वेण परेण च श्चुना संनिपाते श्चुत्वं यथा स्यादिति॥

Siddhanta Kaumudi

Up

सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः । हरिश्शेते । रामश्चिनोति । सच्चित् । शार्ङ्गिञ्जय ॥

Laghu Siddhanta Kaumudi

Up

सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः । रामश्शेते । रामश्चिनोति । सच्चित् । शार्ङ्गिञ्जय ॥

Neelesh Sanskrit Detailed

Up

हल्-सन्धिषु अन्यतमः श्चुत्वम् इत्याख्यः सन्धिः प्रकृतसूत्रेण पाठ्यते । शकारस्य चवर्गीयवर्णस्य वा योगे (इत्युक्ते तस्मात् अव्यवहितरूपेण पूर्वः परः वा) सकारः उत तवर्गीयवर्णः विद्यते चेत्, सकारस्य शकारादेशः, तवर्गीयवर्णस्य च (यथासङ्ख्यम्) चवर्गीयवर्णादेशः भवति — इति अस्य सूत्रस्य आशयः । क्रमेण उदाहरणानि एतानि — 1. सकार-शकारयोगे सकारस्य शकारादेशः 1. [ स् + श् ] ⇒ राम + सुँ + शेते → रामस् शेते → रामश्शेते । 2. [ श्+ स् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः झलि परे शकारस्य <<व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः>> 8.2.36 इति षकारादेशः भवति, अतः अत्र श्चुत्वस्य प्रसक्तिः न वर्तते । 2. सकार-चवर्गयोगे सकारस्य शकारादेशः 1. [ स् + च् ] ⇒ राम + सुँ चिनोति → रामस् चिनोति → रामश्चिनोति । 2. [ स् + छ् ] ⇒ राम + सुँ छात्रः → रामस् छात्रः → रामश्छात्रः । 3. [ स् + ज् ] ⇒ मस्ज् + अनीयर् → मश्ज् + अनीय → (<<झलां जश् झशि>> 8.4.53 इति जश्त्वे कृते) मज्जनीय । 4. [ स् + झ् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः पदान्तसकारस्य झकारे परे <<ससजुषो रुः>> 8.2.66 इति रुत्वं विधीयते । अपदान्तसकारात् अनन्तरम् झकारः न कुत्रचित् दृश्यते । 5. [ स् + ञ् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः पदान्तसकारस्य झकारे परे <<ससजुषो रुः>> 8.2.66 इति रुत्वं विधीयते । अपदान्तसकारात् अनन्तरम् ञकारः न कुत्रचित् दृश्यते । 6. [ च्/छ्/ज्/झ्/ञ् + स् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः झलि परे चवर्गीयवर्णस्य <<चो कुः>> 8.2.30 इति कुत्वं प्रवर्तते । 3. तवर्ग-शकारयोगे तवर्गस्य चवर्गादेशः 1. [ त् + श् ] ⇒ पदान्तनकारस्य शकारे परे <<शि तुक्>> 8.3.31 इति तुगागमे कृते प्राप्तस्य तकारस्य प्रकृतसूत्रेण चकारः भवति — भवान् शेते → भवान् त् शेते [<<शि तुक्>> 8.3.31 इति नकारस्य विकल्पेन तुगागमः] → भवान् च् शेते [<<स्तोः श्चुना श्चुः>> 8.4.40 इति तकारस्य चकारः] → भवाञ् च् शेते [<<स्तोः श्चुना श्चुः>> 8.4.40 इति नकारस्य ञकारः] → भवाञ्च्शेते
अग्रे <<शश्छोऽटि>> 8.4.63 इत्यनेन शकारस्य विकल्पेन छकारः भवति, ततश्च <<झरो झरि सवर्णे>> 8.4.65 इति चकारस्य विकल्पेन लोपः अपि सम्भवति, अतः भवाञ्च्शेते / भवाञ्च्छेते / भवाञ्छेते इति आहत्य त्रीणि रूपाणि सम्भवन्ति ।
2. [ थ् + श् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः पदान्त-थकारस्य आदौ जश्त्वे दकारः भवति । अपि च, अपदान्तथकारात् अनन्तरम् शकारः न हि कुत्रचित् दृश्यते । 3. [ द् + श् ] ⇒ सुहृद् शेते → सुहृज् शेते → (<<खरि च>> 8.4.55 इति चर्त्वे) सुहृच् शेते → (<<शश्छोऽटि>> 8.4.63 इति वैकल्पिके छत्वे) सुहृच्छेते । 4. [ध् + श् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः पदान्त-धकारस्य आदौ जश्त्वे दकारः भवति । अपि च, अपदान्तधकारात् अनन्तरम् शकारः न हि कुत्रचित् दृश्यते । 5. [न् + श् ] ⇒ भवान् शेते → भवाञ्शेते । 6. [ श् + त् / थ् / द् / ध् / न् ] ⇒ इत्यस्य उदाहरणानि न सन्ति, यतः शकारात् परस्य तवर्गस्य श्चुत्वम् <<शात्>> 8.4.44 इत्यनेन निषिद्ध्यते ।
4. तवर्ग-चवर्गयोगे तवर्गस्य चवर्गादेशः अत्र आहत्य 5 ✕ 5 ✕ 2 = 50 योगाः (combinations) सन्ति, परन्तु तेषु केवलम् केषाञ्चन विषये एव श्चुत्वस्य उदाहरणानि दृश्यन्ते — 1. [ त् / थ् / ध् + चवर्ग ] (इति 15 योगाः) अत्र पदान्ततकारथकारधकाराणाम् जश्त्वे कृते दकारः भवति, अतः तत्र श्चुत्वं नैव स्मभवति । अपदान्तवर्णेषु केवलम् तकार-छकारयोः योगस्य एव उदाहरणानि दृश्यते । यथा — म्लेछँ (अव्यक्ते शब्दे) → म्लेछ् [<<उपदेशेऽजनुनासिक इत्>> 1.3.2 इति अकारस्य इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः] → म्लेछ् + अनीयर् [<<तव्यत्तव्यानीयरः>> 3.1.96 इति अनीयर्-प्रत्ययः] → म्लेत् छ् + अनीय [<<दीर्घात्>> 6.1.93 इति संहितायाम् छकारे परे दीर्घस्वरस्य तुगागमः ] → म्लेच् छ् + अनीय [<<स्तोः श्चुना श्चुः>> 8.4.40 इति श्चुत्वम्] → म्लेच्छनीय 2. [ द् + च् / छ् ] (इति 2 योगौ) सुहृद् + (चलति / छलति) → सुहृज् + (चलति / छलति) → (<<खरि च>> 8.4.55 इति चर्त्वे) सुहृच्चलति / सुहृच्छलति । 3. [ द् + ज् / झ् ] (इति 2 योगौ) सुहृद् + (जलति / झर्झति) → सुहृज्जलति, सुहृज्झर्झति । 4. [ द् + ञ् ] (इति 1 योगः) सुहृद् + ञकारीयति → सुहृज् + ञकारीयति → (<<यरोऽनुनासिकेऽनुनासिको वा>> 8.4.45 इति पाक्षिके ञकारादेशे) सुहृज्ञकारीयति / सुहृञ्ञकारीयति । 5. [न् + च् / छ् ] (इति 2 योगौ) प्रशान् + (चिनोति / छिनत्ति) → प्रशाञ्चिनोति, प्रशाञ्छिनत्ति । प्रशान्-शब्दं विहाय अन्यानि पदान्त-नकारस्य उदाहरणानि तु न सन्ति यतोहि पदान्तनकारस्य चकारे छकारे वा परे <<नश्छव्यप्रशान्>> 8.3.7 इति रुँत्वम् भवति । अपदान्त-नकारात् तु चकारछकारौ नैव सम्भवतः । 6. [ न् + ज् / झ् / ञ् ] (इति 3 योगाः) राजन् + जलसि / झर्झसि / ञकारीयसि → राजञ्जलसि / राजञ्झर्झसि / राजञ्ञकारीयसि । 7. [ चवर्ग + त् / थ् / द् / ध् ] (इति 20 योगाः) अत्र <<चोः कुः>> 8.2.30 इति झलि परे चवर्गस्य कुत्वं भवति, अतः अत्र श्चुत्वस्य उदाहरणानि न विद्यन्ते । 8. [ च् + न् ] (इति 1 योगः) याच् + नङ् + टाप् [<<यजयाचयतविच्छप्रच्छरक्षो नङ्>> 3.3.90 इति नङ्-प्रत्ययः । स्त्रीत्वे <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्] → याच् + ञ + आ → याच्ञा अयं शब्दः अनवधानेन याञ्चा इति न लेखनीयः । याञ्चा इति शब्दः संस्कृते न विद्यते । 9. [ ज् + न् ] (इति 1 योगः) यज् + नङ् [<<यजयाचयतविच्छप्रच्छरक्षो नङ्>> 3.3.90 इति नङ्-प्रत्ययः । स्त्रीत्वे <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्] → यज् + ञ → यज्ञ 10. [ छ् / झ् / ञ् + न् ] (इति 3 योगाः) अत्र पदान्तछकारझकारञकाराणाम् <<चोः कुः>> 8.2.30 इति कुत्वं प्रवर्तते, अतः तेषाम् विषये श्चुत्वस्य उदाहरणानि न सन्ति । अपदान्तछकारझकारञकारेभ्यः परस्य नकारस्य उदाहरणानि नैव दृश्यन्ते । श्चुत्वनिषेधः <<शात्>> 8.4.44 इति सूत्रेण शकारात् परस्य तवर्गीयवर्णस्य श्चुत्वं निषिध्यते । अतएव प्रश् + न → प्रश्न इत्यत्र श्चुत्वं न भवति । पदान्तजश्त्वं प्रति श्चुत्वम् असिद्धम् <<झलां जशोऽन्ते>> 8.2.39 इत्यनेन उक्तस्य पदान्तजश्त्वस्य दृष्ट्या <<स्तोः श्चुना श्चुः>> 8.4.40 इति श्चुत्वम् असिद्धम् अस्ति । अतः पदान्तजश्त्वस्य सम्भवः अस्ति चेत् श्चुत्वं न करणीयम् । यथा - सत् + चित् → सच्चित् इत्यत्र प्रक्रिया इत्थं भवति — सत् + चित् → सद् + चित् [पदान्ततकारस्य <<झलां जशोऽन्ते>> 8.2.39 इति दकारः । अत्र जश्त्वे कर्तव्ये श्चुत्वम् असिद्धम् अस्ति, अतः अत्र तकारस्य चकारः न भवति ।] → सज् + चित् [<<स्तोः श्चुना श्चुः>> 8.4.40 इति दकारस्य श्चुत्वे जकारः] → सच् + चित् [<<खरि च>> 8.4.55 इति जकारस्य चर्त्वे चकारः] पदान्तचुत्वं प्रति श्चुत्वम् असिद्धम् <<चोः कुः>> 8.2.30 इत्यनेन पदान्तचवर्गस्य कुत्वं भवति । एतस्य कुत्वस्य कृते श्चुत्वम् असिद्धं विद्यते । अतः कुत्वे कर्तव्ये श्चुत्वम् नैव करणीयम् — वाचः देवता [<<षष्ठी>> 2.2.8 इति षष्ठीतत्पुरुषः] → वाच् + देवता [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुब्लुक् ] → वाक् + देवता [<<चोः कुः>> [8.2.30]] इति कुत्वम्] श्चुत्वं धुटि सिद्धम् वक्तव्यम् प्रकृतसूत्रेण जायमान् श्चुत्वम् <<डः सि धुट्>> 8.3.29 इत्यस्य कृते सिद्धम् अस्ति । अड् श्च्योतति एतादृशेषु उदाहरणेषु अनिष्ट-धुडागमं निवारयितुम् इदम् आवश्यकम् वर्तते । अस्मिन् विषये <<न मु ने>> 8.2.3 इत्यस्य सूत्रार्थे तृतीये वार्त्तिके विस्तरेण निर्दिष्टम् अस्ति, तत् तत्रैव द्रष्टव्यम् ।

Balamanorama

Up

<<स्तोः श्चुना श्चुः>> - स्तोः श्चुना श्चुः । स् च तुश्चेति समाहारद्वन्द्वः । पुंस्त्वमार्षम् । इतरेतरयोगद्वन्द्वो वा, तथा सत्येकवचनमार्षम् । एवं 'श्चुना श्चु' रित्यत्रापि ।श्चुने॑ति सहार्थे तृतीया, 'योगे' इत्यध्याहार्यं । ततश्च सहशब्दयोगाऽभावेऽपि तदर्थस्य गम्यत्वात्तृतीया युज्यते, अस्मादेव निर्देशात् । तदाह-सकारतवर्गयोरिति । अत्र स्थान्यादेशानां यथासङ्ख्यं भवति । ततस्च सकारस्य शकारस्तवर्गस्य चवर्गः । तत्रापि त-थ-द-ध-ने त्यादिक्रमस्याप्यनादिलोकसिद्धत्वात् ।श्चुनायोगे॑इत्यत्र न यथासंख्यमित्युत्तरसूत्रेवक्ष्यते, ततश्च सकारस्य तवर्गस्य शकारेण चवर्गेण च यथासंभवं योगे श्चुत्वं भवति । रामश्शेते इति । रामस्-शेते इति स्थिते शकारेण योगात्सकारस्य शकारः ।श्चुना योग इत्यत्र न यथासङ्ख्य॑मित्यस्य प्रयोजनं दर्शयितुं सकारस्य चकारयोगेऽप्युदाहरति — रामश्चिनोतीति । रामस्-चिनोतीति स्थिते चवर्गयोगात्सकारस्य शकारः । 'श्चुना योग' इत्यत्रापि यथासङ्ख्याश्रयणे तु इह सकारस्य शकारयोगा.ञभावाच्छकारो नस्यादिति भावः । सच्चिदिति । सत्-चिदिति स्थिते श्चुत्वस्यासिद्धत्वाज्जश्त्वेन तकारस्य दत्वे, तस्य श्चुत्वेन जकारे,खरि चे॑ति चर्त्वेन तस्य चकारे च रूपम् । शाङ्गञ्जयेति । शाङ्गन्-जयेति स्थिते, चवर्गयोगान्नकारस्य श्चुत्वेन ञकारादेशः ।

Padamanjari

Up

अत्र सन्निपात इत्यध्याहार्यम् । वृक्षश्शेते इति ।'वा शरि' इति पक्षे विसर्जनीयस्य सकारः । मज्जतीति ।'झलां जश् झशि' इति सकारस्य दकारे कृते तस्य चुत्वम् - जकारः । असिद्धत्वं तु जश्त्वस्य न भवति;'न मु ने' इत्यत्र नेति योगविभागात् । तथा च भृज्जतीनां ङ्तीइति निर्देश उपपद्यते । इह सकारतवर्गौ कार्यिणौ द्वौ, निमिते अपि द्वे एव - शकारचवर्गौ, ततश्च साम्यात्संख्यातानुदेशः प्राप्नोति ? इत्याशङ्क्याह - शादिति प्रतिषेध इति । श्चुनेति तृतीयानिर्देशः पूर्वभूतेनापि योगे यथा स्यात् - यज्ञः, याच्ञेति । सप्तमीनिर्देशे तु'तस्मिन्निति निर्दिष्टे पूर्वस्य' इति परभूतेनैव योगे स्यात् ॥