तस्य लोपः

1-3-9 तस्य लोपः धातवः इत्

Sampurna sutra

Up

तस्य इतः लोपः

Neelesh Sanskrit Brief

Up

इत्संज्ञकवर्णस्य लोपः भवति ।

Neelesh English Brief

Up

The इत् letter is elided during the प्रक्रिया.

Kashika

Up

तस्येत्संज्ञकस्य लोपो भवति। तथा चैवोदाहृतम्। तस्यग्रहणं सर्वलोपार्थम्। अलोऽन्त्यस्य मा भूत् — <<आदिर्ञिटुडवः>> १.३.५ इति॥

Siddhanta Kaumudi

Up

तस्येतो लोपः स्यात् । इति यवयोर्लोपो न । उच्चारणसामर्थ्यात् । एवं च इत्संज्ञापीह न भवति । हरये । विष्णवे । नायकः । पावकः ॥

Laghu Siddhanta Kaumudi

Up

तस्येतो लोपः स्यात्। णादयोऽणाद्यर्थाः॥

Neelesh Sanskrit Detailed

Up

व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'इत्' इति संज्ञा । इयम् संज्ञा <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इत्यस्मात् <<लशक्वतद्धिते>> 1.3.8 इत्येतेषु सूत्रेुषु पाठिता अस्ति । एतेषाम् सूत्राणाम् सङ्कलनम् 'इत्संज्ञाप्रकरणम्' नाम्ना ज्ञायते । एतैः सर्वैः सूत्रैः जायमानानाम् इत्संज्ञकवर्णानाम् <<तस्य लोपः>> 1.3.9 इति प्रकृतसूत्रेण लोपः विधीयते । लोपे कृते यः अंशः अवशिष्यते, तस्यैव अग्रे प्रक्रियायाम् प्रयोगः भवति । कानिचन उदाहरणानि एतानि - 1) 'डुपचँष्' इत्यस्मिन् धातौ 'डु' इत्यस्य <<आदिर्ञिटुडवः>> 1.3.5 इत्यनेन ; ठकारोत्तरस्य अकारस्य <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इत्यनेन, तथा च 'ष्' इत्यस्य <<हलन्त्यम्>> 1.3.3 इत्यनेन इत्संज्ञा भवति । एतेषां सर्वेषाम् प्रक्रियायाः प्रारम्भे एव <<तस्य लोपः>> 1.3.9 इत्यनेन लोपः जायते । लोपे कृते 'पच्' इति यद् अवशिष्यते, तस्यैव अग्रे प्रक्रियायाम् प्रयोगः भवति । यथा, 'पच्' धातोः अनीयर्-प्रत्ययान्तरूपस्य प्रक्रिया इयम् — डुपचष् (पाके, भ्वादिः) → पच् [ 'डु' इत्यस्य <<आदिर्ञिटुडवः>> 1.3.5 इत्यनेन ; चकारोत्तरस्य अकारस्य <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इत्यनेन, तथा च 'ष्' इत्यस्य <<हलन्त्यम्>> 1.3.3 इत्यनेन इत्संज्ञा । एतेषां सर्वेषाम् <<तस्य लोपः>> 1.3.9 इत्यनेन लोपः भवति ।] → पच् + अनीयर् [<<तव्यत्तव्यानीयरः>> 3.1.96 इति अनीयर्-प्रत्ययः] → पच् + अनीय [अनीयर्-प्रत्यये विद्यमानस्य रेफस्यापि <<हलन्त्यम्>> 1.3.3 इत्यनेन इत्संज्ञा, तथा च <<तस्य लोपः>> 1.3.9 इत्यनेन लोपः भवति । ] → पचनीय 2) 'षाकन्'-इति कृत्संज्ञकप्रत्ययस्य आदौ षकारस्य <<षः प्रत्ययस्य>> 1.3.6 इत्यनेन तथा च अन्तिनकारस्य <<हलन्त्यम्>> 1.3.2 इत्यनेन इत्संज्ञा भवति, अतः द्वयोः अपि <<तस्य लोपः>> 1.3.9 इत्यनेन लोपे कृते 'आक' इति दृश्यरूपम् अग्रे प्रक्रियायां भागं गृह्णाति । यथा — जल्पति इति शीलमस्य (कृद्वृत्तिः) → जल्पँ (व्यक्तायां वाचि) → जल्प् [पकारोत्तरस्य अकारस्य <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः] → जल्प् + षाकन् [<<जल्पभिक्षकुट्टलुण्टवृङः षाकन्>> 3.2.155 इति सूत्रेण जल्प्-धातोः ताच्छीलिकः षाकन्-प्रत्ययः] → जल्प् + आक [षकारस्य <<षः प्रत्ययस्य>> 1.3.6 इति इत्संज्ञा । नकारस्य <<हलन्त्यम्>> 1.3.2 इति इत्संज्ञा । द्वयोः अपि <<तस्य लोपः>> 1.3.9 इति लोपः] → जल्पाक 3) 'ण' इति तद्धितप्रत्ययस्य आदौ विद्यमानस्य णकारस्य <<चुटू>> 1.3.7 इत्यनेन इत्संज्ञा भवति, ततः च <<तस्य लोपः>> 1.3.9 इत्यनेन लोपः विधीयते । णकारस्य लोपे कृते अवशिष्टः 'अ' इति अंशः एव प्रक्रियायाम् अग्रे प्रयुज्यते । यथा, 'छत्रम् अस्य शीलम्' इत्यस्मिन् अर्थे 'छत्र' शब्दात् <<छत्रादिभ्यो णः>> 4.4.62 इत्यनेन ण-प्रत्यये कृते इयम् प्रक्रिया भवति‌ — छत्रम् शीलम् अस्य इति = छत्र + ण [ <<छत्रादिभ्यो णः>> 4.4.62 इत्यनेन प्रथमासमर्थात् 'छत्रम्' इति शब्दात् ण-प्रत्ययः भवति । अग्रे तद्धितान्तस्य <<कृत्तद्धितसमासाश्च>> 1.2.46 इत्यनेन प्रातिपदिकसंज्ञायां कृतायाम्, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इत्यनेन छत्र-शब्दात् विहितस्य सुँ-प्रत्ययस्य लोपः भवति ] → छत्र + अ [ण-प्रत्ययस्य आदौ विद्यमानस्य णकारस्य <<चुटू>> 1.3.7 इत्यनेन इत्संज्ञा भवति । <<तस्य लोपः>> 1.3.9 इत्यनेन अयम् इत्संज्ञकवर्णः लुप्यते ।] → छात्र + अ [णित्-प्रत्यये परे <<तद्धितेष्वचामादेः>> 7.2.117 इति अङ्गस्य आदिवृद्धिः] → छात्र् + अ [रेफोत्तरस्य अकारस्य <<यस्येति च>> 6.4.148 इति लोपः] → छात्र 4) 'घञ्' इति कृत्प्रत्ययस्य आदौ विद्यमानस्य घकारस्य <<लशक्वतद्धिते>> 1.3.8 इत्यनेन, तथा च अन्ते विद्यमानस्य ञकारस्य <<हलन्त्यम्>> 1.3.3 इत्यनेन इत्संज्ञा भवति । द्वयोः अपि <<तस्य लोपः>> 1.3.9 इत्यनेन लोपः विधीयते । लोपे कृते अवशिष्टम् 'अ' इति दृश्यरूपम् एव अग्रे प्रक्रियायाम् प्रयुज्यते । यथा, 'पच्'धातोः घञ्-प्रत्यये परे 'पाक' इति रूपम् एतादृशं सिद्ध्यति — पचनम् इत्येव = पच् + घञ् [<<भावे>> 3.3.18 इत्यनेन भावे घञ्-प्रत्ययः] → पच् + अ ['घञ्'प्रत्यये विद्यमानस्य घकारस्य <<लशक्वतद्धिते>> 1.3.8 इति इत्संज्ञा । ञकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा । द्वयोः अपि <<तस्य लोपः>> 1.3.9 इति लोपः] → पाच् + अ [ञित्-प्रत्यये परे <<अत उपधायाः>> 7.2.116 इति उपधावृद्धिः] → पाक् + अ [घित्-प्रत्यये परे <<चजोः कु घिण्ण्यतोः>> 7.3.52 इति चकारस्य कुत्वम् ककारः] → पाक 5) 'दृशिँर्' इत्यस्य 'इँर्' इति समुदायस्य <!इँर इत्संज्ञा वाच्या!> अनेन वार्त्तिकेन इत्संज्ञा भवति । अग्रे अस्य इत्संज्ञकसमुदायस्य <<तस्य लोपः>> 1.3.9 इत्यनेन लोपः अपि भवति । 'दृश्' इति अवशिष्टः अंशः अग्रे प्रक्रियायाम् भागं स्वीकरोति । यथा, दृश्-धातोः अनीयर्-प्रत्यये परे 'दर्शनीय' इति रूपम् एतादृशं सिद्ध्यति — दृशिँर् (प्रेक्षणे, भ्वादिः) → दृश् [दृशिँर्-धातौ विद्यमानस्य 'इँर्' इति अंशस्य <!इँर इत्संज्ञा वाच्या!> अनेन वार्त्तिकेन इत्संज्ञा भवति । <<तस्य लोपः>> 1.3.9 इत्यनेन अग्रे तस्य लोपः जायते ] → दृश् + अनीयर् [<<तव्यत्तव्यानीयरः>> 3.1.96 इति अनीयर्-प्रत्ययः] → दृश् + अनीय [अनीयर्-प्रत्यये विद्यमानस्य रेफस्यापि <<हलन्त्यम्>> 1.3.3 इत्यनेन इत्संज्ञा, तथा च <<तस्य लोपः>> 1.3.9 इत्यनेन लोपः भवति । ] → दर्श् + अनीय [<<पुगन्तलघूपधस्य च>> 7.3.86 इति उपधागुणः । <<उरण् रपरः>> 1.1.51 इति सः रपरः] → दर्शनीय सूत्रे 'तस्य' इति ग्रहणस्य प्रयोजनम् <<तस्य लोपः>> 1.3.9 इति सूत्रे 'तस्य' इति शब्दः प्रयुक्तः अस्ति । अस्य प्रयोजनम् अस्ति — सम्पूर्णस्य इत्संज्ञासमुदायस्य लोपविधानम् । यदि अत्र केवलम् 'लोपः' इत्येव सूत्रम् क्रियते, तर्हि <<अलोऽन्त्यस्य>> 1.1.52 इत्यनेन इत्संज्ञकसमुदायस्य (इत्युक्ते, ञि/टु/डु/इँर्-इत्येतेषाम्) केवलम् अन्तिमवर्णस्यैव लोपः सम्भवेत्, न हि सम्पूर्णस्य समुदायस्य । तादृशम् मा भूत्, अतः अस्मिन् सूत्रे 'तस्य' इति शब्दस्य ग्रहणं कृतं दृश्यते । वस्तुतस्तु, अत्र कश्चन अन्यः अपि शास्त्रविषयः अस्ति । <<अलोऽन्त्यस्य>> 1.1.52 इति सूत्रस्य भाष्ये भाष्यकारैः <<नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे>> (परिभाषा 105) इति काचित् परिभाषा पाठिता दृश्यते । अनया परिभाषया — अनर्थकस्य समुदायस्य स्थाने उक्तः आदेशः सर्वस्यैव समुदायस्य स्थाने भवति, न केवलं तस्य अन्तिमवर्णस्य स्थाने — इति कश्चन सिद्धान्तः दीयते । अस्य सिद्धान्तस्य पक्षे अस्मिन् सूत्रे 'तस्य' ग्रहणम् विना अपि 'ञि', 'टु', 'डु', 'इँर्' इत्यत्र सर्वत्र सम्पूर्णस्यैव समुदायस्य लोपः सम्भवति, यतः एते सर्वे अनर्थवर्णसमुदायाः सन्ति । अतः अस्य सिद्धान्तस्य पक्षे प्रकृतसूत्रे 'तस्य' इति ग्रहणम् अपि अनावश्यकम् एव वर्तते ।

Balamanorama

Up

<<तस्य लोपः>> - एतेष्वादेशेषु यकारवकारयोर्हलन्त्यमितीत्संज्ञायां लोपमाशङ्कितुमाह — तस्य लोपः । इत्संज्ञाप्रकरणान्ते इदं सूत्रम् । तत्र तच्छब्दः सन्निहितमितं परामृशति । तदाह — तस्येतीति । इत्यनेन सूत्रेण यवयोर्लोपो न शङ्कनीय इत्यर्थः । कुत इत्यत आह — उच्चारणेति । यद्यत्र यवयोर्लोपः स्यात्तर्हि तयोः सूत्रेऽनुच्चारणमेव स्यात्,प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वर॑मिति न्यायादिति भावः । तर्हि किमनयोरित्संज्ञयेत्यत आह — एवंचेति । उक्तप्रकारेण लोपाऽभावे सतीत्संज्ञापीह यकारे वकारे च न भवति, फलाऽभावादित्यर्थः । क्रमेणोदाहस्ति — हरय इत्यादिना । हरे — ए,विष्णो-ए, नै-अकः, पौ-अक इति स्थितेषु एकारादीनां क्रमादयादयः ।

Padamanjari

Up

तस्य ग्रहणं किमर्थम्, यावताऽभावो लोपः, स च कस्यचिदेव भवति,तत्र प्रकरणादित्संज्ञकस्यैव लोपो भविष्यतीत्यत आह-तस्य ग्रहणमित्यादि। आदिर्ञिटुअडव इति । असति तस्य ग्रहणे येऽनेकाल इत्संज्ञका ञिप्रभृतयस्तेष्वलोऽन्त्यस्य लोपः स्यात्, तस्य ग्रहणसामर्थ्यातु सर्वस्य भविष्यति। एतच्च'नानर्थके' लोन्त्यस्य विधीःऽ इत्यनाश्रित्योक्तम्॥