अतो गुणे
6-1-97 अतः गुणे संहितायाम् अचि एकः पूर्वपरयोः पररूपम् अपदान्तात्
Sampurna sutra
Up
अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपम्
Neelesh Sanskrit Brief
Up
अपदान्त-अकारात् गुणे परे संहितायाम् पूर्वपरयोः एकः पररूप-एकादेशः भवति ।
Neelesh English Brief
Up
In the context of संहिता, when an अपदान्त अकार is followed by a गुण letter, both of them are replaced by a single पररूप.
Kashika
Up
अपदान्तादिति वर्तते। अकारादपदान्ताद् गुणे परतः पूर्वपरयोः स्थाने पररूपमेकादेशो भवति। पचन्ति। यजन्ति। अकः सवर्णे दीर्घस्य ६.१.१०१ अपवादः। पचे,यज इत्यत्र <<वृद्धिरेचि>> ६.१.८८ इति वृद्धिः प्राप्नोति। अत इति किम् ? यान्ति। वान्ति। गुण इति किम् ? अपचे। अयजे। अपदान्तादित्येव — दण्डाग्रम्। यूपाग्रम्॥
Siddhanta Kaumudi
Up
अपदान्तादकाराद्गुणे परतः पररूपमेकादेशः स्यादिति प्राप्ते । परत्वात्पूर्वसवर्णदीर्घः । अतो गुणे <{SK191}> इति हि [(परिभाषा - ) पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान्] इति न्यायेन अकः सवर्णे <{SK85}> इत्यस्यैवापवादो नतु प्रथमयो <{SK154}>रित्यस्यापि । रामाः ॥
Laghu Siddhanta Kaumudi
Up
अपदान्तादतो गुणे पररूपमेकादेशः॥
Neelesh Sanskrit Detailed
Up
अपदान्त-अकारात् संहितायाम् गुणसंज्ञकः वर्णः (अकार-एकार-ओकारः एतेषु कश्चन वर्णः) विद्यते चेत् पूर्वपरयोः एकः पररूप-एकादेशः भवति । इत्युक्ते, अकार-अकारयोः स्थाने अकारः, अकार-एकारयोः स्थाने एकारः, अकार-ओकारयोः स्थाने च ओकारः विधीयते । उदाहरणानि एतानि —
1. अपदान्त-अकारात् अकारे परे पररूपैकादेशः अकारः —
पठ्-धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य पठन्ति इति रूपस्य सिद्धौ अस्य सूत्रस्य प्रयोगः दृश्यते —
पठँ (व्यक्तायां वाचि, भ्वादिः, <{1.381}>)
→ पठ् + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्]
→ पठ् + झि [<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> 3.4.78 इति प्रथमपुरुषबहुवचनस्य विवक्षायाम् झि-प्रत्ययः]
→ पठ् + शप् + झि [<<कर्तरि शप्>> 3.1.68 इति शप्-प्रत्ययः]
→ पठ् + अ + अन्ति [<<झोऽन्तः>> 7.1.3 इति झकारस्य अन्तादेशः]
→ पठ् + अन्ति [अपदान्त-अकारात् अकारे परे <<अतो गुणे>> 6.1.97 इति उभयोः पररूपैकादेशः अकारः]
→ पठन्ति
2. अपदान्त-अकारात् एकारे परे पररूपैकादेशः एकारः —
लभ्-धातोः लट्-लकारस्य उत्तमपुरुषैकवचनस्य लभे इति रूपस्य सिद्धौ अस्य सूत्रस्य प्रयोगः दृश्यते —
डुलभँष् (प्राप्तौ, भ्वादिः, <{1.1130}>)
→ लभ् + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्]
→ लभ् + इट् [<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> 3.4.78 इति आत्मनेपदस्य उत्तमपुरुषैकवचनस्य विवक्षायाम् इट्-प्रत्ययः]
→ लभ् + शप् + इ [<<कर्तरि शप्>> 3.1.68 इति शप्-प्रत्ययः]
→ लभ् + अ + ए [<<टित आत्मनेपदानां टेरे>> 3.4.79 इति एकारः]
→ लभ् + ए [अपदान्त-अकारात् एकारे परे <<अतो गुणे>> 6.1.97 इति उभयोः पररूपैकादेशः एकारः]
→ लभे
3. अपदान्त-अकारात् ओकारे परे पररूपैकादेशः ओकारः — अस्य उदाहरणानि न विद्यन्ते ।
बाध्यबाधकभावः
प्रकृतसूत्रम् <<वृद्धिरेचि>>
6.1.88 , <<अकः सवर्णे दीर्घः>>
6.1.101 तथा च <<प्रथमयोः पूर्वसवर्णः>>
6.1.102 इति त्रयाणाम् सूत्राणाम् अपवादत्वेन प्रवर्तते । एतानि त्रीणि सूत्राणि
मिलित्वा प्रकृतसूत्रस्य प्रयोजनम् घ्नन्ति इत्याशयः । तदित्थम् —
1. उपरिनिर्दिष्टायाम् लभे शब्दस्य निर्दिष्टायाम् प्रक्रियायाम् <<वृद्धिरेचि>> 6.1.88 इत्यनेन प्राप्तम् वृद्धेकादेशं बाधित्वा प्रकृतसूत्रेण पररूपैकादेशः विधीयते ।
2. उपरिनिर्दिष्टायाम् पठन्ति शब्दस्य प्रक्रियायाम् <<अकः सवर्णे दीर्घः>> 6.1.101 इत्यनेन प्राप्तम् सवर्णदीर्घं बाधित्वा प्रकृतसूत्रेण पररूपैकादेशः विधीयते ।
3. राम + जस् इत्यत्र <<अकः सवर्णे दीर्घः>> 6.1.101 इत्यनेन प्राप्तम् सवर्णदीर्घं परत्वात् बाधित्वा <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यनेन पूर्वसवर्णदीर्घः प्राप्नोति । अस्य पूर्वसवर्णदीर्घस्य अपि अपवादत्वेन अत्र <<अतो गुणे>> 6.1.97 इति प्रकृतसूत्रं प्रवर्तते; परन्तु <<पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्>> इति परिभाषया अयम् अपवादः <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यस्य बाधकः न भवति । इत्युक्ते, राम + जस् इत्यत्र <<अतो गुणे>> 6.1.97 तथा च <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्येतयोः द्वयोः अपि प्राप्तौ सत्याम् परत्वात् <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यस्यैव प्रयोगः भवति । प्रक्रिया इयम् —
राम + जस् [<<स्वौजस्..>> 4.1.2 इति प्रथमाबहुवचनस्य जस्-प्रत्ययः]
→ राम + अस् [<<चुटू>> 1.3.7, <<तस्य लोपः>> 1.3.9]
→ रामास् [<<अकः सवर्णे दीर्घः>> 6.1.101 इत्यनेन सवर्णदीर्घैकादेशे (आकारे) प्राप्ते; परत्वात् तद्बाधित्वा <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते; अपवादत्वात् तद्बाधित्वा <<अतो गुणे>> 6.1.97 इत्यनेन पररूप-एकादेशे (अकारे) प्राप्ते, <<पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्>> इति न्यायेन <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यस्यैव प्रयोगं कृत्वा पूर्वसवर्णदीर्घादेशः भवति ।]
→ रामाः [<<ससजुषो रुः>> 8.2.66,<<खरवसानयोर्विसर्जनीयः>> 8.3.15 ]
दलकृत्यम्
1. अपदान्तात् इति किम् ? पदान्त-अकारस्य विषये इदं सूत्रं नैव प्रवर्तते । यथा,
दण्डस्य अग्रम् इत्यत्र
दण्ड + अग्रम् इति स्थिते पूर्वपदस्य अन्ते विद्यमानस्य अकारस्य पदान्तत्वं दृष्ट्वा अत्र प्रकृतसूत्रं नैव प्रवर्तते, अतः अत्र <<अकः सवर्णे दीर्घः>>
6.1.101 इत्यनेन सवर्णदीर्घे कृते रूपसिद्धिः भवति ।
2. अत् इति तपरकरणम् किमर्थम् ? अकारेण जायमानस्य सवर्णग्रहणस्य नियमनार्थम् प्रकृतसूत्रे
अत् इति अकारस्य तपरकरणम् कृतम् अस्ति । इत्युक्ते, <<तपरस्तत्कालस्य>>
1.1.70 इति सूत्रम् उपयुज्य
अत् इत्यनेन अकारस्य केवलम् तत्कालवाचिभेदानाम् (ह्रस्वभेदानाम्) एव ग्रहणं भवति, दीर्घभेदानाम् न । अतः अपदान्त-आकारस्य विषये इदं सूत्रं नैव प्रवर्तते । अतएव
या धातोः लट्लकारस्य प्रथमपुरुषबहुवचनस्य 'अन्ति' प्रत्यये परे प्रकृतसूत्रम् नैव विधीयते, अपितु केवलम् सवर्णदीर्घं कृत्वा 'यान्ति' इति रूपं सिद्ध्यति ।
Balamanorama
Up
<<अतो गुणे>> - अथ राम असिति स्थिते 'अकः सवर्णे दीर्घ' इति सवर्णदीर्घस्यापवादं पररूपमाशह्कितुमाह-अतो गुणे । 'एङि पररूप' मित्यतः पररूपमित्यनुवर्तते ।उस्यपदान्ता॑दित्यतोऽपदान्तादित्यनुवर्तते ।एकः पूर्वपरयो॑रित्यधिकृतम् । 'अत' इति पञ्चमी । तदाह — अपदान्तादित्यादिना । इति प्राप्त इति । नच परत्वादत्वात्, परादपवादस्य बलीयस्त्वादिति भावः । परत्वादिति । अतो गुणे॑ इत्यपेक्षयाप्रथमयोः पूर्वसवर्ण॑ इत्यस्य परत्वादित्यर्थः । ननु पररूपमिदमपवादत्वात् सवर्णदीर्घमिव पूर्वसवर्णदीर्घमपि कुतो न बाधत इत्यत आह-अतो गुण इतीत्यादि । अनन्तरान् । अव्यवहितानित्यर्थः । उत्तरानिति । व्यवहितानित्यर्थः । 'अतो गुण' इत्युत्तरमव्यक्तानुकरणस्येत्यादि पठित्वा, 'अकःसवर्णे दीर्घः'प्रथमयोः पूर्वसवर्णः॑ इति पठितम् । ततश्च पररूपमिदं सवर्णदीर्घमेव बाधते, नतु तद्व्यवहितं पूर्वसवर्णदीर्घमपीति भावः । वस्तुतस्तु पुरस्तादपवादन्यायस्य नायं विषयः । नहि पररूपमिदं पूर्वसवर्णदीर्घस्यापवादः । भवन्तीत्यादावप्राप्ते ।ञपि पूर्वसवर्णदीर्घे एतस्य पररूपस्यारम्भादित्यलम् । रुत्वविसर्गौ सिद्धवत्कृत्याह — रामा इति ।
Padamanjari
Up
अकः सवर्णे दीर्घस्यापवाद इति। ननु च मध्येऽपवादन्यायेन वृद्धेरेवायमपवादो युक्तः, न दीर्घस्य? गुणग्रहणाद्दीर्घस्यापि बाधको भविष्यति, अन्यथा - ठतोऽपदान्तात्ऽ इत्येव वक्तव्यम्। एङीत्येव, ततो जुसि च, अपदान्तादित्येव। एवं सिद्धं गुणग्रहणाद् गुणमात्रेऽयं विधैः प्रवर्तमानो दीर्घमपि बाधिष्यते। अत इति किमिति अदिति वर्तत एवेति प्रश्नः। तपरकरणे तात्पर्यमित्युतरम् ॥