त्यदादीनामः

7-2-102 त्यदादीनाम अः विभक्तौ

Sampurna sutra

Up

index: 7.2.102 sutra: त्यदादीनामः


त्यदादीनामङ्गस्य विभक्तौ अः

Neelesh Sanskrit Brief

Up

index: 7.2.102 sutra: त्यदादीनामः


त्यदादिगणस्य शब्दानाम् विभक्तिप्रत्यये परे अकारादेशः भवति ।

Neelesh English Brief

Up

index: 7.2.102 sutra: त्यदादीनामः


The words of त्यदादिगण get an अकारादेश when followed by a विभक्तिप्रत्यय.

Kashika

Up

index: 7.2.102 sutra: त्यदादीनामः


त्यदित्येवमादीनामकारादेशो भवति विभक्तौ परतः। त्यद् स्यः, त्यौ, त्ये। तद् सः, तौ, ते। यद् यः, यौ, ये। एतद् एषः, एतौ, एते। इदमयम्, इमौ, इमे। अदस् असौ, अमू, अमी। द्वि द्वौ। द्वाभ्याम्। द्विपर्यन्तानां त्यदादीनामत्वमिष्यते। इह न भवति, भवत् भवान्। संज्ञोपसर्जनीभूताः त्यदादयः पाठादेव पर्युदस्ताः इति इह न भवति, त्यद्, त्यदौ, त्यदः। अतित्यद्, अतित्यदौ, अतित्यदः। त्यदादिप्रधाने तु शब्दे भवत्येव, परमसः परमतौ, पर्मते।

Siddhanta Kaumudi

Up

index: 7.2.102 sutra: त्यदादीनामः


एषामकारोऽन्तादेशः स्याद्विभक्तौ ॥<!द्विपर्यन्तानामेवेष्टिः !> (वार्तिकम्) ॥ द्वौ 2 । द्वाभ्याम् 3 । द्वयोः 2 । द्विपर्यन्तानां किम् । भवान् । भवन्तौ । भवन्तः । संज्ञायामुपसर्जनत्वे च नात्वम् । सर्वाद्यन्तर्गणकार्यत्वात् । द्विर्नाम कश्चित् । द्विः । द्वी । द्वावतिक्रान्तोऽतिद्विः । हरिवत् । प्राधान्ये तु परमद्वावित्यादि ॥ औडुलोमिः । औडुलोमी । बहुवचने तु उडुलोमाः ।<!लोम्नोऽपत्येषु बहुष्वकारो वक्तव्यः !> (वार्तिकम्) ॥ बाह्वादीञोऽपवादः । औडुलोमिम् । औडुलोमी । उडुलोमान् ॥ इतीदन्ताः ॥ वातप्रमीरित्युणादिसूत्रेण माङ ईप्रत्ययः स च कित् । वातं प्रमिमीते वातप्रमीः । दीर्घज्जसि च । वातप्रम्यौ । वातप्रम्यः । हे वातप्रमीः । अमि पूर्वः <{SK194}> । वातप्रमीम् । वातप्रम्यौ । वातप्रमीन् । वातप्रम्या । वातप्रमीभ्याम् 3 । वातप्रम्ये । वातप्रम्यः 2 । वातप्रम्योः 2 । वातप्रम्याम् । दीर्घत्वान्न नुट् । ङौ तु सवर्ण दीर्घः । वातप्रमी । वातप्रमीषु । एवं ययीपप्यादयः । यान्त्यनेनेति ययीर्मार्गः । पाति लोकमिति पपीः सूर्यः । यापोः किद्द्वे च उ. <{SK439}>इति ईप्रत्ययः । क्विबन्तवातप्रमीशब्दस्य तु अमि शसि ङौ च विशेषः । वातप्रम्यम् । वातप्रम्यः । वातप्रम्यि । एरनेकाचः <{SK272}> इति वक्ष्यमाणो यण् प्रधीवत् । बह्वयः श्रेयस्यो यस्य स बहुश्रेयसी । दीर्घङ्यन्तत्वात् हल्ङ्याब् <{SK252}>इति सुलोपः ॥

Laghu Siddhanta Kaumudi

Up

index: 7.2.102 sutra: त्यदादीनामः


एषामकारो विभक्तौ। द्विपर्य्यन्तानामेवेष्टिः (वार्त्तिकम्) । द्वौ द्वौ। द्वाभ्याम् द्वाभ्याम् द्वाभ्याम् । द्वयोः द्वयोः ॥ पाति लोकमिति पपीः सूर्यः॥ दीर्घाज्जसि च <{LSK161}> - पप्यौ पप्यौ । पप्यः । हे पपीः । पपीम् । पपीन् । पप्या । पपीभ्याम् पपीभ्याम् पपीभ्याम् । पपीभिः । पप्ये । पपीभ्यः पपीभ्यः । पप्यः पप्यः । पप्योः । दीर्घत्वान्न नुट्, पप्याम् । ङौ तु सवर्णदीर्घ । पपी । पप्योः । पपीषु । एवं वातप्रम्यादयः ॥ बह्व्यः श्रेयस्यो यस्य स बहुश्रेयसी ॥

Neelesh Sanskrit Detailed

Up

index: 7.2.102 sutra: त्यदादीनामः


'त्यदादिगणः' नाम कश्चन गणः अस्ति । अस्मिन् गणे अष्ट शब्दाः समाविश्यन्ते - त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि । एतेषाम् सर्वेषाम् शब्दानाम् विभक्तिप्रत्यये परे अङ्गस्य अकारादेशः भवति । अलोऽन्त्यस्य 1.1.52 इत्यनेन अयम् अन्त्यादेशः भवति । कानिचन उदाहरणानि एतानि -

  1. त्यद् + टा [तृतीया-एकवचनस्य प्रत्ययः]

→ त्यद् + टा [त्यदादीनामः 7.1.12 इत्यनेन टा-इत्यस्य इन-आदेशः]

→ त्य अ + इन [टाङसिङसामिनात्स्याः 7.2.102 इत्यनेन त्यद्-इत्यस्य दकारस्य अकारादेशः]

→ त्य + इन [अतो गुणे 6.1.97 इति अकार-अकारयोः पररूपः अकारः]

→ त्येन [आद्गुणः 6.1.87 इति गुण-एकादेशः]

  1. तद् + ङे [चतुर्थी-एकवचनस्य प्रत्ययः]

→ तअ + ङे [त्यदादीनामः 7.2.102 इत्यनेन तद्-इत्यस्य दकारस्य अकारादेशः]

→ त अ स्मै [सर्वनाम्नः स्मै 7.1.14 इति ङे-प्रत्ययस्य स्मै-आदेशः]

→ तस्मै [अतो गुणे 6.1.97 इति अकार-अकारयोः पररूपः अकारः]

  1. यद् + जस् [प्रथमा/बहुवचनस्य प्रत्ययः]

→ य अ +जस्[त्यदादीनामः 7.2.102 इत्यनेन यद्-इत्यस्य दकारस्य अकारादेशः]

→ य + जस् [अतो गुणे 6.1.97 इति अकार-अकारयोः पररूपः अकारः]

→ य + शी [जसः शी 7.1.17 इति शी-आदेशः]

→ य + ई [लशक्वतद्धिते 1.3.8 इति शकारस्य इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः]

→ ये [आद्गुणः 6.1.87 इति गुण-एकादेशः]

  1. एतद् + भ्याम् [तृतीया-चतुर्थी-पञ्चमी-द्विवचनस्य प्रत्ययः]

→ एत अ भ्याम् [त्यदादीनामः 7.2.102 इत्यनेन एतद्-इत्यस्य दकारस्य अकारादेशः]

→ एत भ्याम् [अतो गुणे 6.1.97 इति अकार-अकारयोः पररूपः अकारः]

→ एताभ्याम् [सुपि च इति अकारस्य आकारः]

  1. इदम् + भ्यस् [चतुर्थी-पञ्चमीबहुवचनस्य प्रत्ययः]

→ अम् + भ्यस् [हलि लोपः 7.2.113 इति 'इद्' इत्यस्य लोपः]

→ अ अ भ्यस् [त्यदादीनामः 7.2.102 इत्यनेन इदम्-इत्यस्य मकारस्य अकारादेशः]

→ अ भ्यस् [अतो गुणे 6.1.97 इति अकार-अकारयोः पररूपः अकारः]

→ ए भ्यस् [बहुवचने झल्येत् 7.3.103 इति अकारस्य एकारः]

→ एभ्यः [विसर्गनिर्माणम्]

  1. अदस् + औ / औट् [प्रथमा/द्वितीया-द्विवचनस्य प्रत्ययः]

→ अद अ + औ / औट् [त्यदादीनामः 7.2.102 इत्यनेन अदस्-इत्यस्य सकारस्य अकारादेशः]

→ अद + औ / औट् [अतो गुणे 6.1.97 इति अकार-अकारयोः पररूपः अकारः]

→ अदौ [प्रथमयोः पूर्वसवर्णः 6.1.102 इति पूर्वसवर्णदीर्घे प्राप्ते नादिचि 6.1.103 इति तस्य निषेधः । अतः वृद्धिरेचि 6.1.88 इति वृद्धि-एकादेशः]

→ अमू [अदसोऽसेर्दादु दो मः 8.2.80 इति औकारस्य ऊकारः, दकारस्य च मकारः]

  1. एक-शब्दस्य विषये अनेन सूत्रेण अकारस्य अकारादेशः एव विधीयते, अतः अस्य सूत्रस्य एक-शब्दस्य विषये किमपि प्रयोजनम् नास्ति ।

  2. द्वि + ओस् [षष्ठी-सप्तमी-द्विवचनस्य प्रत्ययः]

→ द्व् अ + ओस् [त्यदादीनामः 7.2.102 इत्यनेन द्वि-इत्यस्य इकारस्य अकारादेशः]

→ द्वे +ओस् [ओसि च 7.3.104 इति ओकारादेशः]

→ द्वयोस् [एचोऽयवायावः 6.1.78 इति अय्-आदेशः]

→ द्वयोः [विसर्गनिर्माणम्]

ज्ञातव्यम् -

  1. त्यदादिगणः वस्तुतः सर्वादिगणस्य एकः उपगणः अस्ति । अतः एतेषाम् शब्दानाम् सर्वनामसंज्ञा भवति चेदेव अस्य सूत्रस्य प्रयोगः भवति, न अन्यथा । यथा, कस्यचन व्यक्तेः नाम 'त्यद्' इति अस्ति चेत् तस्य रूपाणि 'त्यद् त्यदौ त्यदः' एतादृशानि एव भवन्ति ।

  2. समस्तपदे त्यदादिगणस्य शब्दः प्रधानः अस्ति चेदेव अस्य सूत्रस्य प्रयोगः भवति, उपसर्जनः (=अप्रधानः) अस्ति चेत् न भवति । यथा -

अ) परमश्च तत् = 'परमतद्' अस्मिन् समस्तपदे 'तद्' इति प्रधानपदमस्ति, अतः अस्य रूपेषु वर्तमानसूत्रस्य प्रयोगं कृत्वा तद्-शब्दवदेव प्रक्रिया जायते - परमसः, परमतौ, परमते ।

आ) द्वौ अतिक्रान्तः = अतिद्वि । अत्र द्वि-शब्दः अप्रधानः अस्ति, अतः अत्र वर्तमानसूत्रस्य प्रयोगः न भवति, मुनि-शब्दवदेव रूपाणि जायन्ते । यथा - अतिद्विः, अतिद्वी, अतिद्वयः ।

  1. प्राग्दिशो विभक्तिः 5.3.1 अनेन सूत्रेण केषाञ्चन तद्धित-प्रत्ययानामपि विभक्तिसंज्ञा भवति । तेषां विषये अपि अस्य सूत्रस्य प्रसक्तिः अस्ति । यथा -

यद् + त्रल् [सप्तम्यास्त्रल् 5.3.10 इति त्रल-प्रत्ययः । प्राग्दिशो विभक्तिः 5.3.1 इति अस्य विभक्तिसंज्ञा]

→ य अ त्रल् [त्यदादीनामः 7.2.102 इत्यनेन यद्-इत्यस्य दकारस्य अकारादेशः]

→ यत्र [अतो गुणे 6.1.97 इति अकार-अकारयोः पररूपः अकारः]

  1. सर्वनामशब्दानाम् अव्ययसर्वनाम्नामकच् प्राक्टेः 5.3.71 अनेन सूत्रेण स्वार्थे 'अकच्' प्रत्ययः विधीयते । अयं प्रत्ययः सर्वनामशब्दस्य 'टि'-संज्ञकात् पूर्वमागच्छति । अस्मिन् प्रत्यये परे यत् प्रातिपदिकम् जायते, तस्यापि अनेन सूत्रेण अकारादेशः भवति । यथा, इदम्-शब्दात् 'अकच्' प्रत्यये परे 'इदकम्' इति प्रातिपदिकं सिद्ध्यति । तस्य तृतीयैकवचनस्य प्रक्रिया इयम् -

इदकम् + टा [तृतीयैकवचनस्य प्रत्ययः]

→ इदक अ + आ [त्यदादीनामः 7.1.102 इति मकारस्य अकारः]

→ इदक + आ [त्यदादीनामः 7.1.102 इति मकारस्य अकारः]

→ इमक + आ [दश्च 7.2.109 इति दकारस्य मकारादेशः]

→ इमक + इन [टाङसिङसामिनात्स्याः 7.1.12 इति टा-इत्यस्य इन-आदेशः]

→ इमकेन [आद्गुणः 6.1.87 इति गुण-एकादेशः]

Balamanorama

Up

index: 7.2.102 sutra: त्यदादीनामः


त्यदादीनामः - द्वि-औ इति स्थिते- । त्यदादीनामः ।अष्टन आ विभक्ता॑वित्यतो विभक्तावित्यनुवर्तते । एषामिति । त्यदादीनामित्यर्थः । त्यदादिर्येषामिति विग्रहः । 'अन्तादेशः' इत्यलोऽन्त्यपरिभाषालभ्यः । विभक्तौ किम् । तत्फलम् ।स्वमोर्नपुंसका॑दिति लुकि अत्वं न । द्विपर्यन्तानामिति । सर्वादिगणे ये त्यदादयः पठितास्तेषामिह द्विपर्यन्तानामेव ग्रहणे भाष्यकारस्येच्छत्यर्थः । द्विशब्दस्य द्विवचनेषु परतोऽत्वे कृते रामशब्दवद्रूपाणीत्याह-द्वावित्यादि । द्विपर्यन्तानामिति किमिति । युष्मदस्मदोरात्वयवत्वयलोपैर्बाधात्, किमः कादेशविधानाच्च तेषां त्यदादिष्वन्तर्भावेऽपि न दोष इति प्रश्नः । भवान् भवन्ताविति । भवत्-सिति स्थितेउगिदचा॑मिति नुमि हल्ङ्यादिलोपे संयोगान्तलोपेअत्वसन्तस्य चे॑ति दीर्घेभवा॑निति रूपम् । द्विपर्यन्ताना॑मित्यभावे तु भवत्-सिति स्थिते तकारस्य त्वे कृते 'अतो गुणे' इति पररूपेउगिदचा मिति नुमि 'सर्वनामस्थाने' इति दीर्घे सुलोपे नलोपे 'भवा' इति स्यात् । तथा॒भवत्-औ॑ इति स्थिते पूर्ववत्तकारस्याऽत्वे नुमि दीर्घे चभवाना॑विति स्यादिति भावः । अथ यदुक्तंसंज्ञो पसर्जनीभूतानां सर्वादिगणकार्यमन्तर्गणकार्यं च न भवती॑ति तत्स्मारयति — संज्ञायामित्यादिना । द्विर्नामेति ।नामे॑त्यव्ययं प्रसिद्धौ ।द्वि॑रिति प्रसिद्धः कश्चिदित्यर्थः । अत्र च संज्ञाभूतस्य द्विशब्दस्य एकद्विबहुवचनानि सन्ति, एकद्वित्र्यादिष्वपि द्विसंज्ञकत्वसंभवादित्यभिप्रेत्य आह — द्विः द्वी द्वय इति । अतिद्विरिति । 'अत्यादयः' इति समासः । परमद्वाविति । कर्मधारयोऽयम् । संज्ञोपसर्जनत्वाभावादिहाऽत्वं भवत्येव । आङ्गत्वेन पदाङ्गाधिकारपरिभाषया तदन्तग्रहणादिति भावः । उडूनि नक्षत्राणीव लोमानि यस्य स उडुलोमा । तस्यापत्यमौडुलोभिः ।बाह्वादिभ्यश्चे॑ति इञ् । 'नस्तद्धिते' इति टिलोपः । आदिवृद्धि अस्य एकवचनद्विवचनयोः सर्वत्र हरिवद्रूपम् । तदाह औडुलोमिरौड्डलोमी इति । बहुवचने तूडुलोमा इति । ननु तथा रूपं कथं, बाह्वादिगणस्थत्वेन इञः प्रसङ्गादित्यत आह — लोम्नोऽपत्येषु । लोमन्शब्दाद्बहुष्वपत्येषु विवक्षितेष्वकारः प्रत्ययो वक्तव्य इत्यर्थः । बाह्वादीञ इति । बाह्वादिगणाद्विहितस्य इञोऽपवाद इत्यर्थः । 'उडुलोमन्-अ' इति स्थिते 'नस्तद्धिते' इति टिलोपः । ञ्णित्त्वाऽभावात्कित्त्वाऽभावाच्च नादिवृद्धिः ।उडुलोम॑शब्दोऽकारान्तः । तस्य सर्वत्र बहुवचनेषु रामवद्रूपमिति भावः । इति इदन्तप्रकरणम् । अथेदानीमीकारान्ता निरूप्यन्ते । तत्र वातप्रमीशब्दो द्विधा ।माङ्भाने॑इति धातोरीप्रत्ययान्तः क्विबन्तश्च । तत्र प्रथमं व्युत्पादयति — वातप्रमीरित्यादिना ।कि॑दित्यनन्तरं 'निपात्यते' इति शेषः । वातमिति वातमित्युपपदे कर्तरि माङ्धातोरीप्रत्यये कित्त्वात्आतो लोप इटि चे॑त्यल्लोपेउपपदमतिङि॑ति समासे तस्मात्सुबुत्पत्तौवातप्रमी॑रिति प्रथमैकवचनम् । अङ्यन्तत्वान्न सुलोपः । एतदर्थमेव हल्ङ्यादिसूत्रे सत्यपि दीर्घग्रहणे ङीब्ग्रहणमिति भावः । दीर्घादिति । वातप्रमी-औ इति स्थितेदीर्घाज्जसि चे॑ति पूर्वसवर्णदीर्घे निषिद्धेइको यणची॑ति यणि वातप्रम्याविति रूपमित्यर्थः । हे वातप्रमीरिति । दीर्घान्तत्वात् । 'ह्रस्वस्य गुणः' इति न । अमीति । वातप्रमी — अम् इति स्थिते 'अमि पूर्वः' इति पूर्वरूपेवातप्रमी॑मिति रूपमित्यर्थः । 'एरनेकाचः' इति यण्तु न, ईप्रत्ययान्तस्य धातुत्वाऽभावात् । वातप्रमीनिति । पूर्वसवर्णदीर्घे 'तस्माच्छसः' इति नत्वम् । वातप्रम्येति । अघित्वात् 'आङो नाऽस्त्रिया' मिति नाभावस्याऽभावे यण् । वातप्रम्ये इति अघित्वान्हेङसिङस्सुघेर्ङिती॑ति गुणो न । वातप्रम्यामिति । आमि यणादेशे रूपम् । दीर्घत्वान्न नुट्, 'ह्रस्वनद्यापः' इति ह्रस्वग्रहणादिति भावः । ङौ त्विति । 'वातप्रमी — इ' इति स्थिते परत्वाद्यणादेशं बाधित्वा सवर्णदीर्घेवातप्रमी॑ति रूपम् । अघित्वादिदुदन्तत्वाऽभावाच्च अच्च घे॑रिति,औ॑दिति च न भवति । वस्तुतस्तुईदूतौ च सप्तम्यर्थे॑ इति सूत्रेसप्तम्यन्तमीदूदन्तं लोके नास्ति । अतःसोमो गौरी अधिश्रितः॑ 'मामकी तनू' इति वेद एव तदुदाहरण॑मिति भाष्यविरोधाद्वातप्रमी इति सप्तम्यन्तस्य लोके प्रयोगो नेत्यनुमीयत इति शब्देन्दुशेखरे स्पष्टम् । यापोरिति ।पापोः किद्द्वोषेचे॑त्यौणादिकसूत्रम् । याधातोः, पाधातोश्च ईप्रत्ययः स्यात्, सच कित् । प्रकृतिभूतयोस्तयोर्द्वित्वं चेत्यर्थः । कित्त्वादातो लोप इटि चेत्याल्लोपः । अभ्यासह्रस्वः । क्विबन्तवातेति । 'माङ् माने' इत्यस्मात्कर्तरि क्विपिघुमास्थे॑तीत्त्वेवातप्रमी॑शब्द इति केचित् । तन्न, 'ईत्त्वमवकारादौ' इति वार्तिकविरोधात् ।मीञ् हिंसाया॑मिति मीधातोः क्विपि तुवातप्रमी॑शब्दो निर्बाधः । वक्ष्यमाणो यणिति । अमिपूर्वरूपं, शसि पूर्वसवर्णदीर्घः, ङौ सवर्णदीर्घं च बाधित्वा परत्वात् 'एरनेकाचः' इति यण्, ईकारान्तधातुत्वादिति भावः । प्रधीवदिति । प्रकृष्टं ध्यायतीति प्रधीः ।ध्यायतेः संप्रसारणं चे॑ति क्विपि यकारस्य संप्रसारणमिकारः ।संप्रसारणाच्चे॑ति पूर्वरूपम् । 'हलः' इति दीर्घः । अस्य च ईकारान्तधातुत्वादमि ङसि ङौ च 'एरनेकाचः' इति यणादेशः । बह्वय इति ।बह्वादिभ्यश्चे॑ति ङीष् । श्रेयस्य इति । अतिप्रशस्ता इत्यर्थः ।द्विवचनविभज्योपपदे॑ इति ईयसुन् । 'प्रशस्यस्य श्रः' इति श्रः ।उगितश्चे॑ति ङीप् । बहुश्रेयसीति ।स्त्रियाः पुंव॑दिति पुंवत्त्वम् ।गोस्त्रियोरि॑ति ह्रस्ववस्तु न,ईयसोबह#उव्रीहेर्नेति वाच्य॑मिति तन्निषेधात् । बहुश्रेयसी-सिति स्थिते प्रक्रियां दर्शयति — दीर्घङ्यन्तत्वादिति । ननु श्रेयसीशब्द एव ङ्यन्तः, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात् । नचस्त्रीप्रत्यये न तदादिनियमः॑ इति निषेधान्नेह तदादिनियम इति वाच्यम्, अनुपसर्जन एव स्त्रीप्रत्यये हि न तदादिनियम इति प्रतिषेधः । इह तूपसर्जनन्वात्तदादिनियमोऽस्त्येवेति चेत्, अस्तु श्रेयसीशब्दस्यैव ङ्यन्तत्वम्, नतु बहुश्रेयसीशब्दस्य । तथापि हल्ङ्यादिलोपोऽत्र निर्बाधः । सोङ्र्यन्तात् श्रेयसीशब्दात्परत्वस्याऽनपायात् । नहि॒हल्ङ्याब्भ्य॑ इति विहितविशेषणं, प्रमाणाऽभावात् । या सा केत्यादावव्याप्तेश्च, तत्र सोष्टाबन्ताद्विहितत्वाऽभावात् । नहि॒हल्ङ्याब्भ्य॑इति विहितविशेषणं, प्रमाणाऽभावात् । या सा केत्यादावव्याप्तेश्च, तत्र सोष्टाबन्ताद्विहितत्वाऽभावात्, यत्त्त्किमिति हलन्तेभ्यः सुबुत्पत्तौ त्यदाद्यत्वे सत्येव टापः प्रवृत्तेः । नच तत्र हलन्ताद्विहितत्वेन निर्वाहः शङ्क्यः, यः सः क इत्यादावतिव्याप्तेः, कर्ता सखेत्यादावव्याप्तेश्चेत्यास्तां तावत् ।दीर्घाज्झसि चे॑ति पूर्वसवर्णदीर्घनिषेधे यणि बहुश्रेयस्यौ । बह#उश्रेयस्यः ।

Padamanjari

Up

index: 7.2.102 sutra: त्यदादीनामः


द्विपर्यन्ता इत्यादि । इष्टिरेवेयम् । यतूच्यते - शेषेलोपवचनं ज्ञापकमिति, तदयुक्तम्, उपसर्जनार्थत्वादतियूयमतिवयमिति । यदा तु शेषे लोपष्टिलोपस्तदा तु सुतरामज्ञापकम् । पाठादेव पर्युदस्ता इति । तथा च सर्वादिसूत्रे वार्तिकम् संज्ञोपसर्जनानां प्रतिषेधः पाठात्पर्युदासः इति ए। तेन पाठोपजीवनेन प्रवर्तमानमिदमपि संज्ञोपसर्जनीभूतानां न भवति । त्यदादीति । त्यादादीनामर्थः प्रधानं यत्र समासे तत्रेत्यर्थः । न हि ते पाठात्पर्युदस्ताः ॥