8-4-41 ष्टुना ष्टुः पूर्वत्र असिद्धम् संहितायाम् स्तोः श्चुः
स्तोः ष्टुना ष्टुः
सकारतवर्गयोः षकारटवर्गाभ्यां योगे संहितायाम् षकारटवर्गौ स्तः ।
In the context of संहिता, A सकार and a तवर्ग letter are converted (respectively) to a षकार and टवर्ग letter when associated with a षकार or a टवर्ग letter.
स्तोरिति वर्तते। सकारतवर्गयोः षकारटवर्गाभ्यां संनिपाते षकारटवर्गावादेशौ भवतः। अत्रापि तथैव संख्यातानुदेशाभावः। षकारेण सकारस्य — वृक्षष्षण्डे। प्लक्षष्षण्डे। तस्यैव टवर्गेण — वृक्षष्टीकते। प्लक्षष्टीकते। वृक्षष्ठकारः। प्लक्षष्ठकारः। तवर्गस्य षकारेण — पेष्टा। पेष्टुम्। पेष्टव्यम्। कृषीष्ट। कृषीष्ठाः। तस्यैव टवर्गेण — अग्निचिट्टीकते। सोमसुट्टीकते। अग्निचिट्ठकारः। सोमसुट्ठकारः। अग्निचिड्डीनः। सोमसुड्डीनः। अग्निचिड् ढौकते। सोमसुड् ढौकते। अग्निचिण्णकारः। सोमसुण्णकारः। अत्ट — अट्टति। अद्ड — अड्डति॥
स्तोः ष्टुना योगे ष्टुः स्यात् । रामष्षष्ठः । रामष्टीकते । पेष्टा । तट्टीका । चक्रिण्ढौकसे ॥
स्तोः ष्टुना योगे ष्टुः स्यात् । रामष्षष्ठः । रामष्टीकते । पेष्टा । तट्टीका । चक्रिण्ढौकसे ॥
हल्-सन्धिषु अन्यतमः ष्टुत्वम् इत्याख्यः सन्धिः प्रकृतसूत्रेण पाठ्यते । षकारस्य टवर्गीयवर्णस्य वा योगे (इत्युक्ते तस्मात् अव्यवहितरूपेण पूर्वः परः वा) सकारः उत तवर्गीयवर्णः विद्यते चेत्, सकारस्य षकारादेशः, तवर्गीयवर्णस्य च (यथासङ्ख्यम्) टवर्गीयवर्णादेशः भवति — इति अस्य सूत्रस्य आशयः । क्रमेण उदाहरणानि एतानि —
1. [ स् + ष् ] ⇒ राम + सुँ + षष्ठः → रामस् षष्ठः → रामष्षष्ठः ।
2. [ ष् + स् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः पदान्तषकारस्य <<झलां जशोऽन्ते>> 8.2.39 इति जश्त्वे डकारः विधीयते; तथा च अपदान्तषकारस्य <<षढोः कः सि>> 8.2.41 इत्यनेन सकारे परे ककारादेशः भवति ।
1. [ स् + ट् ] ⇒ राम + सुँ टीकते → रामस् टीकते → रामष्टीकते ।
2. [ स् + ठ् ] ⇒ राम + सुँ ठकारीयति → रामस् ठकारीयति → रामष्ठकारीयति ।
3. [ स् + ड् / ढ् / ण्] ⇒ अस्य उदाहरणानि न सन्ति, यतः डकारे/ढकारे/णकारे परे <<ससजुषो रुः>> 8.2.66 इति रुत्वं विधीयते । अपदान्तसकारात् अनन्तरम् डकारः/ढकारः/णकारः न कुत्रचित् दृश्यते ।
6. [ टवर्ग + स् ] ⇒ पदान्तटवर्गीयवर्णात् परस्य सकारस्य <<न पदान्ताट्टोरनाम्>> 8.4.42 इत्यनेन ष्टुत्वनिषेधः क्रियते । अपदान्तटवर्गीयवर्णात् परस्य सकारस्य उदाहरणानि न सन्ति ।
1. [ तवर्ग + ष् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः पदान्ततवर्गस्य अपदान्ततवर्गस्य च षकारे परे <<तोः षिः>> 8.4.43 इत्यनेन ष्टुत्वं निषिध्यते ।
2. [ ष् + त् ] ⇒ रुधादिगणस्य पिषॢँ-धातोः तकारादौ प्रत्यये परे प्रकृतसूत्रेण ष्टुत्वं भवति । यथा, पिष् + क्त → पिष्ट ।
3. [ ष् + थ् ] ⇒ अदादिगणस्य द्विष्-धातोः लट्लकारस्य मध्यमपुरुषबहुवचनस्य थ-प्रत्यये परे प्रकृतसूत्रेण ष्टुत्वं भवति । द्विष् + थ → द्विष्ठ ।
4. [ ष् + द् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः पदान्त-षकारस्य <<झलां जशोऽन्ते>> 8.2.39 इति जश्त्वे डकारः भवति । अपदान्तषकारात् परः दकारः नैव कुत्रचित् दृश्यते ।
5. [ ष् + ध् ] ⇒ अदादिगणस्य द्विष्-धातोः लोट्लकारस्य मध्यमपुरुषबहुवचनस्य ध्वम्-प्रत्यये परे प्रकृतसूत्रेण ष्टुत्वं भवति । द्विष् + ध्वम् → द्विष्ढ्वम् → (<<झलां जश् झशि>> 8.4.53 इति जश्त्वे) द्विड्ढ्वम् ।
6. [ ष् + न् ] ⇒ अस्य उदाहरणानि न सन्ति, यतः षकारे परे नकारस्य <<रषाभ्यां नो णः समानपदे>> 8.4.1 इति णत्वं विधीयते ।
1. [ त् / थ् / ध् + टवर्ग ] (
<<ष्टुना ष्टुः>> - ष्टुना ष्टुः ।स्तो॑रित्यनुवर्तते । तदाह-स्तोरिति । अत्रापि स्थान्यादेशानां यतासंख्यं, नतु॒ष्टुयोगे॑इत्यत्र । रामष्षष्ठ इति । रामस्-षष्ट इति स्थिते षकारयोगात्सस्य ष्टुत्वेन षः । अत्रापि 'ष्टुना योग' इत्यत्र न यथासंख्यमित्यस्य प्रयोजनं दर्शयितुं सकारस्य टवर्गयोगेऽपि उदाहरति — रामष्टीकते इति ।टीकृ गतौ॑ । तट्टीकेति । तस्य-टीकेति विग्रहः ।तद्टीके॑ति स्थिते टुत्वेन दस्य डत्वे चर्त्वम् । चक्रिण्ढोकसे इति । ढौकृ गतौ । चक्रिन् ढोकसे इति स्थिते टवर्गयोगान्नस्य टुत्वेन णत्वम् । न पदान्तात् ।अना॑मितितो॑रित्यस्य विशेषणं । ननु भिन्नविभक्तिकमेतत्कथं तद्विशेषणमित्यत आह — अनामिति लुप्तषष्ठीकमिति । नामवयवभिन्नस्येत्यर्थः । 'स्तोः'ष्टु॑रित्यनुवर्तते ।