3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् प्रत्ययः परः च आद्युदात्तः च धातोः लस्य
लस्य तिप्-तस्-झि-सिप्-थस्-थ-मिप्-वस्-मस्-त-आताम्-झ-थास्-आथाम्-ध्वम्-इड्-वहि-महिङ् प्रत्ययः धातोः परः
लकारस्य स्थाने तिप्-तस्-झि-सिप्-थस्-थ-मिप्-वस्-मस्-त-आताम्-झ-थास्-आथाम्-ध्वम्-इड्-वहि-महिङ् एते आदेशाः भवन्ति ।
A लकार is initially converted to one of these 18 आदेशाः - तिप्, तस्, झि, सिप्, थस्, थ, मिप्, वस्, मस्, त, आताम्, झ, थास्, आथाम्, ध्वम्, इड्, वहि, महिङ्.
लस्य तिबादय आदेशा भवन्ति। तिप्सिप्मिपां पकारः स्वरार्थः। इटष्टकार <<इटोऽत्>>३.४.१०६ इति विशेषणार्थः, तिबादिभिरादेशैस्तुल्यत्वाद् न देशविध्यर्थः। महिङो ङकारस्तिङ् इति प्रत्याहारग्रहणार्थः। पचति, पचतः, पचन्ति। पचसि, पचथः, पचथ। पचामि, पचावः, पचामः। पचते, पचेते, पचन्ते। पचसे, पचेथे, पचध्वे। पचे, पचावहे, पचामहे। एवमन्येष्वपि लकारेषूदाहार्यम्॥
एतेऽष्टादशलादेशाः स्युः ॥
एतेऽष्टादश लादेशाः स्युः॥
अनेन सूत्रेण लकाराणाम् स्थाने सर्वप्रथमम् ये आदेशाः भवितुमर्हन्ति, ते पाठिताः सन्ति । एते अष्टादश-आदेशाः 'तिङ्' अनेन प्रत्याहारेण गृह्यन्ते । <<लः परस्मैपदम्>> 1.4.99 तथा च <<तङानावात्मनेपदम्>> 1.4.100 इत्यनेन एतेषाम् परस्मैपद-आत्मनेपद-संज्ञाः भवन्ति । अग्रे <<तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः>> 1.4.101 इत्यनेन तेषां त्रयाणाम् त्रयाणाम् प्रथम-मध्यम-उत्तमसंज्ञाः भवन्ति, तथा च <<तान्येकवचनद्विवचनबहुवचनान्येकशः>> 1.4.102 इत्यनेन तेषां क्रमेण एकवचन-द्विवचन-बहुवचनसंज्ञाः भवन्ति । एते अष्टादश प्रत्ययाः तथा तेभ्यः विहिताः संज्ञाः एतादृशाः - तिप् = परस्मैपदम् + प्रथमपुरुषः + एकवचनम् तस् = परस्मैपदम् + प्रथमपुरुषः + द्विवचनम् झि = परस्मैपदम् + प्रथमपुरुषः + बहुवचनम् सिप् = परस्मैपदम् + मध्यमपुरुषः + एकवचनम् थस् = परस्मैपदम् + मध्यमपुरुषः + द्विवचनम् थ = परस्मैपदम् + मध्यमपुरुषः + बहुवचनम् मिप् = परस्मैपदम् + उत्तमपुरुषः + एकवचनम् वस् = परस्मैपदम् + उत्तमपुरुषः + द्विवचनम् मस् = परस्मैपदम् + उत्तमपुरुषः + बहुवचनम् त = आत्मनेपदम् + प्रथमपुरुषः + एकवचनम् आताम् = आत्मनेपदम् + प्रथमपुरुषः + द्विवचनम् झ = आत्मनेपदम् + प्रथमपुरुषः + बहुवचनम् थास् =आत्मनेपदम् + मध्यमपुरुषः + एकवचनम् आथाम् = आत्मनेपदम् + मध्यमपुरुषः + द्विवचनम् ध्वम् = आत्मनेपदम् + मध्यमपुरुषः + बहुवचनम् इट् = आत्मनेपदम् + उत्तमपुरुषः + एकवचनम् वहि = आत्मनेपदम् + उत्तमपुरुषः + द्विवचनम् महिङ् = आत्मनेपदम् + उत्तमपुरुषः + बहुवचनम् अनेन विभाजनेन प्रत्येकम् तिङ्-प्रत्ययस्य विशिष्टः उल्लेखः भवितुमर्हति । ज्ञातव्यम् - 1. सर्वेषाम् लकाराणाम् तिङन्तरूपसिद्धौ प्रारम्भे एतेभ्यः एव एकः आदेशः विधीयते । तस्य आदेशस्य आवश्यकं चेत् अग्रे परिवर्तनम् भवति । 2. वर्तमानसूत्रेण 'तिङ्' तथा 'तङ्' एतयोः द्वयोः प्रत्याहारयोः निर्माणम् भवति । 3. एतेषामष्टादशप्रत्ययानाम् <<विभक्तिश्च>> 1.4.104 इत्यनेन विभक्तिसंज्ञा अपि भवति । 4. एतेषु सर्वेषु - - तिप्, सिप्, मिप् इत्यत्र पकारस्य इत्संज्ञा भवति । - इट् इत्यत्र टकारस्य इत्संज्ञा भवति । - महिङ् इत्यत्र ङकारस्य इत्संज्ञा भवति । तस्य ग्रहणम् 'तिङ्' तथा 'तङ्' प्रत्याहारस्य निर्माणार्थम् कृतमस्ति । - 'झि' / 'झ' इत्यत्र झकारस्य इत्संज्ञा भवति । - तस्, थस्, वस्, मस्, आताम्, थास्, आथाम्, ध्वम् एतेषु सर्वेषु अन्तिम मकारसकारयोः <<हलन्त्यम्>> 1.3.3 इत्यनेन इत्संज्ञायां प्राप्तायां <<न विभक्तौ तुस्माः>> 1.3.4 इत्यनेन सा निषिध्यते । अतः एतेषाम् मकारसकारयोः इत्संज्ञा न भवति ।
<<तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्>> - तिप्तस् । तिप्, तस्, झि, सिप्, थस्, थ, मिप्, वस्, मस्, त , आताम्, झ,थास्, आथाम्, ध्वम्, इड्, वहि, महिङ् । एषां समाहारद्वन्द्वात्प्रथमैकवचनम् । लस्येति स्थानषष्ठन्तमधिकृतम् । तेन आदेश इति लभ्यते । फलितमाह — एत इति । तसादौ रुत्वाऽभाव आर्षः । तिबादौ पकारानुबन्धयोजनं तु द्वेष्टीत्यादौ सार्वधातुकमपदिति ङित्त्वनिवृत्त्यर्थम् । तदुदाहरणेषु स्पष्टीभविष्यति ।
तिबादीनां समाहारद्वन्द्वः । पकारः स्वरार्थ इति । प्रदर्शनमेतत्,'सार्वधातुकमपित्' इत्याद्यपि प्रयोजनम् । इटष्टकार इत्यादि । ननु ठिटोऽत्ऽ इत्यत्र लिङ्त्यिनुवर्तते, तेनेकारस्यात्वविधानेऽपि नास्त्यतिप्रसङ्गः ? एवमपि तिबाद्यवयवस्य प्राप्नोति, यथा ठेरुःऽ इत्येतल्लोट इत्यनुवृतावपि तिबाद्यवयस्य भवति । न हि तत्रावयवषष्ठी, लिङ् इति तु स्थानषष्ठीत्यत्र प्रमाणमस्ति । अथ ठाद्यन्तौ टकितौऽ इति देशविध्यर्थष्टकारः कस्मान्न भवतीत्याह - तिबादिमिरित्यादि । तुल्यत्वमुसदृशत्वम्, तच्चैकयोगनिर्दिष्टत्वेन लस्येत्येका षष्ठी, तत्र तिबादयः सप्तदशादेशाः स्थाने योगं प्रयोजयन्ति, तानेको नोत्सहते विहन्तुमित्यर्थः । महिङे ङ्कार इत्यादि । तिङ्त्युपिलक्षणम् । तङ्त्यिपि प्रत्याहारो भवति । चिनुमहे इत्यादौ तु गुणप्रतिषेधार्थो न भवति ; सार्वधातुकमपित्ऽ इत्यनेनैव सिद्धत्वात् । यत्र ह्यार्धधातुकमेषिषिमहीति, तत्र ङ्त्वार्थिः कस्मान्न भवति ? प्रत्याहारे चरितार्थस्य समुदायानुबन्धस्यावयवानुबन्धत्वे प्रमाणाभावात् । तृनि कथम् ? तस्यापि हि नकार'न लोकाव्यय' इत्यत्र प्रत्याहारे चरितार्थः, ठौङ् आपःऽ इत्यत्र च वक्ष्यते -'सामान्यग्रहणार्थो ङ्कारः, अन्यथा निरनुबन्धकस्य प्रथमाद्विवचनस्यैव ग्रहणं स्याद्, न सानुबन्धकस्यौटः' इति, तच्च विरुध्यते; तस्यापि टकारस्य सुडिति प्रत्याहारे चरितार्थतया औकारस्य निरनुबन्धकत्वात् । तस्मान्महिङे ङ्कारः प्रत्याहारार्थः, न त्ववयवानुबन्ध इत्याचार्याणां स्मृतिपरम्परैवात्र शरणम् ॥