खरवसानयोर्विसर्जनीयः

8-3-15 खरवसानयोः विसर्जनीयः पदस्य पूर्वत्र असिद्धम् संहितायाम् रः

Sampurna sutra

Up

पदस्य रः खर्-अवसानयोः विसर्जनीयः संहितायाम्

Neelesh Sanskrit Brief

Up

पदान्ते विद्यमानस्य रेफस्य संहितायाम् खर्-वर्णे परे अथवा अवसाने परे विसर्गादेशः भवति ।

Neelesh English Brief

Up

A र् present at end of a पद is converted to a विसर्ग when it is either followed by nothing, or when it is followed by a खर् letter in the context of संहिता.

Kashika

Up

र इति वर्तते। रेफान्तस्य पदस्य खरि परतोऽवसाने च विसर्जनीयादेशो भवति। वृक्षश्छादयति। प्लक्षश्छादयति। वृक्षस्तरति। प्लक्षस्तरति। अवसाने — वृक्षः। प्लक्षः। खरवसानयोरिति किम्? अग्निर्नयति। वायुर्नयति। इह नृकुट्यां भवो नार्कुटः, नृपतेरपत्यं नार्पत्य इति वृद्धेर्बहिरङ्गलक्षणत्वात् तदाश्रयस्य रेफस्य <<असिद्धं बहिरङ्गम्०>> इत्यसिद्धत्वाद् विसर्जनीयो भवति॥

Siddhanta Kaumudi

Up

खरि अवसाने च परे रेफस्य विसर्जनीयः स्यात्पदान्ते । इति विसर्गे प्राप्ते । अन्तवद्भावेन पदान्तरेफस्य न विसर्गः । उभयथर्क्षु <{SK3630}> कर्तरि चर्षिदेवतयो <{SK3167}>रित्यादिनिर्देशात् । उपसर्गेणैव धातोराक्षेपे सिद्धे धाताविति योगविभागेन पुनर्वृद्धिविधानार्थम् । तेन ऋत्यकः <{SK92}> इति पाक्षिकोऽपि प्रकृतिभावोऽत्र न भवति ॥

Laghu Siddhanta Kaumudi

Up

खरि अवसाने च पदान्तस्य रेफस्य विसर्गः। <<संपुंकानां सो वक्तव्यः>> (वार्त्तिकम्) । सँस्स्कर्ता, संस्स्कर्ता॥

Neelesh Sanskrit Detailed

Up

अष्टाध्याय्यां विद्यमानम् इदम् विसर्ग-निर्माणस्य (एकम् एव) सूत्रम् । पदान्तरेफस्य अनेन सूत्रेण अवसाने परे, तथा च संहितायाम् खर्-वर्णे परे विसर्गादेशः भवति । खर् = कर्कशव्यञ्जनानि = वर्गप्रथमाः, वर्गद्वितीयाः, शषसाः = ख्, फ्, छ्, ठ्, थ्, च, ट्, त्, क्, प्, श्, ष्, स् । खर्-प्रत्याहारे हकारः न अन्तर्भवति । अवसानम् इति संज्ञा <<विरामोऽवसानम्>> 1.4.110 इति सूत्रेण दीयते । कानिचन उदाहरणानि एतादृशानि — 1. राम-शब्दात् विहितस्य सुँ-प्रत्ययस्य रेफादेशे कृते तस्य अवसाने परे विसर्गः — राम + सुँ [प्रथमैकवचनस्य प्रत्ययः] → राम + स् [उकारस्य <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः। ] → राम + रुँ [पदान्तसकारस्य <<ससजुषो रुँ>> 8.2.66 इति रुँत्वम् ] → राम + र् [उकारस्य <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः। ] → रामः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति अवसाने परे रेफस्य विसर्गः] 2. पुनर् इति अव्ययस्य अन्ते विद्यमानस्य रेफस्य खर्-वर्णे परे विसर्गादेशः पुनर् + करोति → पुनः + करोति [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति खर्-वर्णे परे रेफस्य विसर्गः ] 3.विद्वान् तपति इत्यत्र संहितायाम् पदान्तनकारस्य <<नश्छव्यप्रशान्>> 8.3.7 इति रुत्वे, प्रकृतसूत्रेण खर्-वर्णे परे तस्य विसर्गादेशः सम्भवति । प्रक्रिया इयम् — विद्वान् + तपति → विद्वारुँ + तपति [<<नश्छव्यप्रशान्>> 8.3.7 इति पदान्तनकारस्य रुँत्वम् ] → विद्वाँरुँ + तपति / विद्वांरुँ + तिष्ठति [<<अत्रानुनासिकः पूर्वस्य तु वा>> 8.3.2 इति विकल्पेन अनुनासिकः । अनुनासिकाभावे <<अनुनासिकात् परोऽनुस्वारः>> 8.3.4 इति अनुस्वारः] → विद्वाँर् + तपति / विद्वांर् + तपति [उकारस्य <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः। ] → विद्वाँः + तपति / विद्वांः + तपति [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] → विद्वाँस् + तपति / विद्वांस् + तपति [<<विसर्जनीयस्य सः>> 8.3.34 इति सकारादेशः] → विद्वाँस्तपति / विद्वाँस्तपति । 4. गॄ-धातोः क्विप्-प्रत्यये कृते 'गिर्' इति प्रातिपदिकम् सिद्ध्यति, तस्य प्रथमैकवचनस्य रूपे रेफस्य प्रकृतसूत्रेण विसर्गः भवति । प्रक्रिया इयम् — गॄ + क्विप् + सुँ [<<क्विप् च>> 3.2.76 इति क्विप्-प्रत्ययः । ततः प्रथमैकवचनस्य सुँ-प्रत्ययः] → गिर् + स् [क्विप्-प्रत्ययस्य ककारपकारयोः इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, अतः सोऽपि लुप्यते । अपृक्तवकारस्य <<वेरपृक्तस्य>> 6.1.67 इति लोपः भवति ।] → गिर् + स् [<<ॠत इद्धातोः>> 7.1.100 इति ॠकारस्य इकारादेशः भवति, स च<<उरण् रपरः>> 1.1.51 इति रपरः विधीयते ।] → गिर् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति सुँ-प्रत्ययस्य लोपः । अस्मिन् लोपे कृते अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> 1.1.62 इत्यनेन 'गिर्' इत्यस्य <<सुप्तिङन्तं पदम्>> 1.4.14 इति पदसंज्ञा भवति । ] → गीर् [<<र्वोरुपधाया दीर्घ इकः>> 8.2.76 इति दीर्घः] → गीः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति अवसाने परे पदान्तरेफस्य विसर्गः । 5. दकारान्तस्य धातोः सिप्-प्रत्यये परे <<दश्च>> 8.2.75 इत्यनेन रुत्वम् भवति, ततः प्रकृतसूत्रेण रेफस्य विसर्गादेशः सम्भवति । प्रक्रिया इयम् — भिदिँर् (विदारणे, रुधादिः, <{7.2}>) → भिद् [<!इँर इत्संज्ञा वाच्या!> इति वार्त्तिकेन 'इँर्' इत्यस्य इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः] → भिद् + लङ् [<<अनद्यतने लङ्>> 3.2.111 इति लङ्लकारः] → अट् + भिद् + लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अडागमः] → अ + भिद् + सिप् [मध्यमपुरुषैकवचनस्य विवक्षायाम् <<तिप्तस्झि...>> 3.4.78 इत्यनेन सिप्-प्रत्ययः] → अ + भि श्नम् द् + सि [<<रुधादिभ्यः श्नम्>> 3.1.78 इति श्नम्-प्रत्ययः] → अ + भि न द् + स् [<<इतश्च>> 3.4.100 इति इकारलोपः] → अ + भि न द् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति अपृक्तसकारस्य लोपः] → अ + भि न रुँ [<<दश्च>> 8.2.75 इति पदान्तदकारस्य वैकल्पिकं रुँत्वम्] → अ + भि न र् [उकारस्य <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः। ] → अभिनः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति अवसाने परे रेफस्य विसर्गः] दलकृत्यम् 1. खरवसानयोः इति किमर्थम्? खर्-भिन्ने वर्णे परे रेफस्य विसर्गादेशः न भवति । यथा - पुनर् + गच्छति →‌ पुनर्गच्छति2. पदान्तरेफस्य इति किमर्थम्? अपदान्तरेफस्य खर्-वर्णे परे विसर्गः न भवति । यथा, पार्थ, अर्क, सर्प, वर्ष एतेषु शब्देषु रेफस्य विसर्गः न भवति । अष्टाध्याय्यां पर्यायवाचिशब्दानां प्रयोगे गौरवलाघवचर्चा नाद्रीयते । The discussion of अल्पाक्षरत्वम् is typically not done while comparing synonyms, even inside Ashtadhyayi. अतः अस्मिन् सूत्रे विसर्गः इति लघुशब्दस्य स्थाने विसर्जनीयः इति बृहच्छब्दः प्रयुक्तः दृश्यते चेदपि अयम् न कश्चन गौरवदोषः । बहिरङ्गलक्षणस्य रेफस्य अन्तरङ्गलक्षणः विसर्गः न भवति यत्र प्रक्रियायाम् बहिरङ्गनिमित्तकः रेफः जायते, तत्र तस्य रेफस्य अन्तरङ्गम् निमित्तम् आश्रित्य रेफस्य विसर्गादेशः नैव सम्भवति, यतः <<असिद्धं बहिरङ्गमन्तरङ्गे>> इत्यनया परिभाषया बहिरङ्गं कार्यम् अन्तरङ्गकार्यं प्रति असिद्धम् भवति । अत्र द्वे उदाहरणे अधः दत्ते स्तः — 1. नृपतेः अपत्यम् अस्मिन् अर्थे नृपति-शब्दात् तद्धितसंज्ञकः अण्-प्रत्ययः भवति । नृपति + अण् इति स्थिते प्रक्रियायाम् <<तद्धितेष्वचामादेः>> 7.2.117 इत्यनेन आदिवृद्धिं तथा च <<यस्येति च>> 6.4.148 इत्यनेन अन्तिम-इवर्णस्य लोपं कृत्वा नार्-पत्य इति सिद्ध्यति । अत्र 'नार्' इति पृथक् पदम् अस्ति, अपि च तस्य अन्ते विद्यमानात् रेफात् परः संहितायाम् खर्-वर्णः (पकारः) अवश्यं विद्यते । अतः अत्र <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इत्यनेन रेफस्य अनिष्टः विसर्गादेशः प्राप्नोति । तस्य निवारणार्थम् <<असिद्धं बहिरङ्गमन्तरङ्गे>> इति परिभाषा प्रयुज्यते । अत्र रेफस्य निमित्तम् (तद्धितसंज्ञकः अण् वर्णः) विसर्गस्य निमित्तस्य (पकारस्य) अपेक्षया बहिरङ्गः अस्ति (इत्युक्ते — दूरे विद्यते, प्रक्रियायाम् अनन्तरं च विधीयते) अतः रेफविधानम् विसर्गादेशस्य अपेक्षया बहिरङ्गम् कार्यम् अस्ति । <<असिद्धं बहिरङ्गमन्तरङ्गे>> इति परिभाषया इदं बहिरङ्गकार्यम् अन्तरङ्गकार्यं प्रति असिद्धम् भवति, अतः अत्र रेफविधानम् विसर्गनिर्माणार्थम् नैव दृश्यते । अतः एव नार्-पत्य अस्मिन् उदाहरणे रेफस्य विसर्गादेशः नैव सम्भवति, अपि तु केवलं वर्णमेलनं कृत्वा नार्पत्य इत्येव शब्दः सिद्ध्यति । 2. देवानाम् ऋषिः इत्यस्मिन् अर्थे देव-शब्दस्य अकारस्य ऋषि-शब्दस्य ऋकारेण सह <<आद्गुणः>> 6.1.87 इति एकादेशं कृत्वा देव्-अर्-षि इति जायते । अत्र <<अन्तादिवच्च>> 6.1.85 इति सूत्रेण अन्तवद्भावं प्रयुज्य 'देवर्' इति शब्दः पूर्वपदत्वं प्राप्नोति, अतश्च पदान्ते विद्यमानस्य रेफस्य खर्-वर्णे परे (षकारे परे) अनिष्टः विसर्गादेशः प्राप्नोति । अत्रापि <<असिद्धं बहिरङ्गमन्तरङ्गे>> इत्येव परिभाषां स्वीकृत्य अस्य निवारणं कर्तुं शक्यते । अत्र रेफस्य निर्माणार्थम् 'देव' तथा 'ऋषि' इति द्वे पदे आवश्यके, अतः रेफः पदद्वयाश्रितः अस्ति । विसर्गादेशार्थम् तु केवलम् षकारः निमित्तरूपेण आवश्यकम्, अतः विसर्गः एकपदाश्रितः अस्ति । इत्युक्ते, रेफनिर्माणविधिः विसर्गादेशस्य अपेक्षया बहिरङ्गः वर्तते । अस्यां स्थितौ <<असिद्धं बहिरङ्गमन्तरङ्गे>> इत्यनया परिभाषया अयं रेफादेशः विसर्गनिर्माणार्थम् असिद्धः भवति, अतश्च अस्मात् रेफात् विसर्गनिर्माणम् नैव सम्भवति । एवमेव, सुखेन ऋर्तः इत्यस्मिन् अर्थे <<एत्येधत्यूठ्सु>> 6.1.89 इत्यत्र पाठितेन <!ऋते च तृतीयासमासे!> इति वार्त्तिकेन सुख-शब्दस्य ऋत-शब्देन सह वृद्ध्येकादेशे कृते सुख्-आर्-त इत्यवस्थायाम् सुखार् इत्यत्र पदान्ते विद्यमानस्य रेफस्य तकारे परे <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति अनिष्टे विसर्गादेशे प्राप्ते एकपदाश्रितस्य विसर्गस्य कृते द्विपदाश्रितस्य वृद्ध्यादेशस्य असिद्धत्वं स्वीकृत्य अयम् अनिष्टः विसर्गादेशः निवार्यते । प्रार्च्छति इत्यस्मिन् उदाहरणे अपि अनेनैव कारणेन विसर्गादेशः न भवति । पाणिनिना स्वयमपि <<उभयथर्क्षु>> 8.3.8 (= उभयथा + ऋक्षुः), <<कर्तरि चर्षिदेवतयोः>> 3.2.186 (= च + ऋषिदेवतयोः) इत्यादिसूत्रेषु एकादेशे कृते तस्य असिद्धत्वं स्वीकृत्य विसर्गादेशः नैव क्रियते । अस्मिन् सन्दर्भे प्रौढमनोरमायाम् शब्दरत्ने च केचन अन्ये परिहाराः अपि उक्ताः सन्ति, जिज्ञासुभिः ते तत्तत्स्थले एव द्रष्टव्याः ।

Balamanorama

Up

<<खरवसानयोर्विसर्जनीयः>> - इति रेफस्येति । उपाच्र्छतीत्यत्र आरित्येकादेशस्य पूर्वन्तवत्त्वेन रेफस्य पदान्तत्वे सति विसर्गे प्राप्ते इत्युत्तरेणान्वयः । कथं विसर्गप्राप्तिरित्यत आह — खरवसानयोः ।रो री॑त्यतो र इति षष्ठन्तमनुवर्तते । तच्च पदस्येत्यधिकृतस्य विशेषणम् । येन विधिरिति रेफान्तस्येति लभ्यते । खरि अवसाने च परतो रेफान्तस्य पदस्य विसर्जनीयः स्यादित्यर्थः । अलोऽन्त्यस्येत्यन्त्यस्य भवति । अभावरूपस्य चावसानस्य बुद्धिकृतं परत्वम् । फलितमाह — खर्यवसाने चेति । पदान्त इति ।विद्यमानस्ये॑ति शेषः । यदि तु अन्त्यवर्णस्य अवसानसंज्ञा तदा अवसानं इत्यत्र योजना विरामोऽवसानमित्यत्रोक्ता । इति विसर्ग इति । उपाच्र्छतीत्यादवनेन विसर्गे प्राप्ते तत्परिहार उच्यत इत्यर्थः । अन्तवदिति । अन्तवत्त्वेन पदान्तत्वं प्राप्तस्य रेफस्य विसर्गो न भवतीत्यर्थः । कुत इत्यत आह — उभयथर्क्ष्विति । अन्यथा तत्रापि विसर्गनिर्देशः स्यादिति भावः । नन्वत्र धाताविति व्यर्थम् , उपसर्गग्रहणादेव धातावित्यस्य सिद्धेः, क्रियायोगे सत्येव उपसर्गसंज्ञाविधानात् । नच उपगत ऋकार उपर्कार इत्यत्र क्रियायोगस्य सत्त्वादुपसर्गत्वाच्च वृद्धिप्राप्तौ तन्निवृत्त्यर्थमिह धातुग्रहणमिति वाच्यं, यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञा इति परिभाषया गम्यमानगमनक्रियां प्रत्येव उपसर्गत्वात्, प्रकृते च ऋकारादिनिमित्तकोपसर्गत्वस्यैव विवक्षितत्वादित्याशङ्क्याह — उपसर्गेणैवेत्यादिना । उपसर्गग्रहणेनैव धातोराक्षेपे= अन्यथानुपपत्तिरूपार्तापत्तितो लाभे सति, पुनर्धाताविति वचनं पुनर्विधानार्थमित्यन्वयः । कथं पुनर्विधानलाभ इत्यत आह — योगविभागेनेति । योगशब्दः सूत्रशब्दपर्यायः । उपसर्गादृतीति धाताविति च सूत्रं विभज्यते । तत्र उपसर्गादृतीति पूर्वसूत्रे धातावित्यर्थाल्लभ्यमादाय उक्तार्थलाभः । धातावित्युत्तरसूत्रेऽपि उपसर्गादृतीति पूर्वसूत्रमनुवर्त्तंते । तथाच पूर्वसूत्रसमानार्थकमेतत्सूत्रं संपद्यत इति पुनर्विधानलाभ इत्यर्थः । किमर्थमिदं पुनर्विधानमित्यत आह-तेनेति । पुनर्विधानेनेत्यर्थः ।

Padamanjari

Up

यद्यत्रापि पदस्येति विशेषणषष्ठी स्यात्, तदा चकर्ष, कर्कश इत्यादावपदान्तस्यापि रेफस्य विसर्जनीयः स्यात् । स्थानषष्ठ।लं तु रेफेण पदे विशेषिते रेफान्तस्य पदस्यालोन्त्यस्य विसर्जनीयविधानान्न कश्चिद्दोष इति मन्यमान आह - रेफान्तस्य पदस्येति । खरि परतोऽवसाने चेति ।'परतः' इत्येतत्खरैव सम्बध्यते, नावसानेन; असम्भवात् । येन वर्णेन विरम्यते स एवावसानं स्यात् । विरतिःउवर्णस्यानुच्चारणम् । तत्र पदान्तस्य रेफस्य येन वर्णन विरम्यते स तावत्परो न सम्भवति । इतरत्पुनरवसानमभावरूपम्, न चाभावेन पौर्वापर्यं सम्भवति । तस्मात्'खरवसानयोः' इत्येकापि सप्तमी विषयभेदाद्धिद्यतेखरि परसप्तमी, अवसाने विषयसप्तमीति । अपर आह - वर्णेष्वप्युच्चरितप्रध्वंसिषु बुद्धिविरचितं पौर्वापर्यमस्ति, तत्वभावेनापि सम्भवति; तस्मादुभयत्रापि परसप्तमीति । उदाहरणेषु खरि विसर्जनीयस्य सत्वम्, चवर्गे श्चुत्वम्, टवर्गे ष्टुअत्वम् । नार्पत्य इति । पत्युतरपदाण्ण्यः । वृद्धेर्बहिरङ्गलक्षणत्वादिति । बहिर्भूततद्धितापेक्षत्वाद् वृद्धेर्बहिरङ्गत्वम् । तदाश्रयस्य रेफस्येति । तदाश्रयत्वं तु तया सह विधानात् । ठुरण् रपरःऽ इत्येतद्धि गुणवृद्धिविधिभिरेकतामापाद्य रपरत्वं विधते, तेन वृद्धेर्यन्निमितं तदेव रेफस्यापि, ततस्तस्यापि बहिरङ्गत्वम् । विसर्जनीयस्तु खर्मात्रमाश्रित्य भवन्नन्तरङ्गः । ननु बहिरङ्गपरिभाषा'वाह ऊठ्' इत्यत्र ज्ञापितत्वातद्देशा, ततः किम् ? तस्यां कर्तव्यायां विसर्जनीयः'पूर्वत्रासिद्धम्' इत्यसिद्धः, सा कथमन्तरङ्गमपश्यन्ती बहिरङ्गस्यासिद्धत्वमापादयति ? नैष दोषः;'कार्यकालं संज्ञापरिभाषम्' , ततश्च परिभाषान्तरवद् बहिरङ्गपरिभाषाया अप्यत्र प्रकरणे प्रवृत्तिरविरुद्धा ॥