3-1-68 कर्तरि शप् प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः सार्वधातुके
index: 3.1.68 sutra: कर्तरि शप्
सार्वधातुके कर्तरि धातोः शप्
index: 3.1.68 sutra: कर्तरि शप्
सार्वधातुके कर्तरि प्रत्यये परे धातोः परः शप्-प्रत्ययः विधीयते ।
index: 3.1.68 sutra: कर्तरि शप्
A verb gets the विकरणप्रत्यय 'शप्' in presence of a सार्वधातुक प्रत्यय in कर्तरि प्रयोग.
index: 3.1.68 sutra: कर्तरि शप्
कर्तृवाचिनि सार्वधातुके परतो धातोः शप् प्रत्ययो भवति। पकारः स्वरार्थः। शकारः सार्वधातुकसंज्ञार्थः। भवति। पचति।
index: 3.1.68 sutra: कर्तरि शप्
कर्त्रर्थे सार्वधातुके परे धातोः शप् स्यात् । शपावितौ ॥
index: 3.1.68 sutra: कर्तरि शप्
कर्त्रर्थे सार्वधातुके परे धातोः शप्॥
index: 3.1.68 sutra: कर्तरि शप्
किम् नाम सार्वधातुकप्रत्ययः? तिङ्शित्सार्वधातुकम् 3.4.113 - तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति ।
किम् नाम कर्तरिप्रयोगः? लः कर्मणि च भावे च अकर्मकेभ्यः 3.4.69 अनेन सूत्रेण लकारः कर्तारम्, कर्म, तथा भावं निदर्शयितुम् शक्नोति । यत्र लकारः कर्तारम् निदर्शयति, सः कर्तरिप्रयोगः ।
कर्तरि प्रयोगे सार्वधातुके प्रत्यये परे धातोः परः औत्सर्गिकरूपेण 'शप्' इति गणविकरणम् प्रत्ययरूपेण आगच्छति । अस्मिन् विकरणे पकारस्य हलन्त्यम् 1.3.3 तथा शकारस्य लशक्वतद्धिते 1.3.8 इत्यनेन इत्संज्ञा भवति, ततः तयोः तस्य लोपः 1.3.9 इत्यनेन लोपः भवति । अतः केवलम् 'अ' इति अवशिष्यते ।
उदाहरणम् -
1) तिङ्-प्रत्ययः - 'पठ् + ति' इत्यत्र कर्तरि शप् 3.1.68 इत्यनेन शप्-प्रत्ययः विधीयते । पठ् + अ + ति = पठति ।
2) शित्-प्रत्ययः - 'पठ् + शतृ' इत्यत्र कर्तरि शप् 3.1.68 इत्यनेन शप्-प्रत्ययः विधीयते । 'पठ् + अ + अत्' इति प्राप्ते अतो गुणे 6.1.97 इत्यनेन द्वयोः अकारयोः एकः पररूपः अकारः भूत्वा 'पठत्' इति प्रातिपदिकं सिद्ध्यति ।
ज्ञातव्यम् - शप्-इत्यस्य भिन्नेषु धातुगणेषु श्यन्, श्नु, श आदयः अपवादाः विधीयन्ते । तेषां विषये दिवादिभ्यः श्यन् 3.1.69 इत्यतः कुषिरजोः प्राचां श्यन् परस्मैपदं च 3.1.90 इति यावत्सु सूत्रेषु पाठितम् अस्ति ।
index: 3.1.68 sutra: कर्तरि शप्
कर्तरि शप् - कर्तरि शप् ।सार्वधातुके य॑गित्यस्मात्सार्वधातुक इत्यनुवर्तते ।धातोरेकाचो हलादे॑रित्यस्माद्धातोरिति । तदाह — कत्र्रर्थ इत्यादिना । तिङि परे धातोर्विहितानां प्रत्यायानां शबादीनां विकरणसंज्ञा प्राचीनाचार्यसिद्धा । शपाविताविति । शकारपकारौ 'लशक्वतद्धिते' इतिहलन्त्य॑मिति चेत्संज्ञकावित्यर्थः । ततश्च शपि शकारपकारयोर्लोपेऽकारमात्रं शिष्यत इत्यर्थः ।
index: 3.1.68 sutra: कर्तरि शप्
कर्तरि शप्॥ पकारः स्वरार्थ इति। उपलक्षणमेतत्, ङ्त्विप्रतिषेधार्थः,'शप्श्यनोर्नित्यम्' इति विशेषणार्थश्च। शकारः सार्वधातुकार्थ इति। सञ्ज्ञापरोऽत्र सार्वधातुकशब्दो न सञ्ज्ञिपरः, सार्वधातुकसञ्ज्ञार्थ इत्यर्थः। कर्तृग्रहणस्य'कर्मवत्कर्मणा' इत्यत्रोपयोगः। इह तु सार्वधातुके शब् भवति, श्यन् भवतीति सामान्यविधानेऽपि भावकर्मणोर्यगपवाद इति कर्तर्येव शबादयो भविष्यन्ति॥