4-1-2 सुऔजसमौट्शस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् प्रत्ययः परः च आद्युदात्तः च
index: 4.1.2 sutra: स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप्
सुँ-औ-जस्-अम्-औट्-शस्-टा-भ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसिँ-भ्याम्-भ्यस्-ङस्-ओस्-आम्-ङि-ओस्-सुप् ङ्याप्प्रातिपदिकात् प्रत्ययः परश्च
index: 4.1.2 sutra: स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप्
ङ्यन्तात्, आबन्तात्, प्रातिपदिकान्तात् च सुँ-औ-जस्-अम्-औट्-शस्-टा-भ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसिँ-भ्याम्-भ्यस्-ङस्-ओस्-आम्-ङि-ओस्-सुप् एते प्रत्ययाः भवन्ति ।
index: 4.1.2 sutra: स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप्
The प्रत्ययाः - सुँ-औ-जस्-अम्-औट्-शस्-टा-भ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसिँ-भ्याम्-भ्यस्-ङस्-ओस्-आम्-ङि-ओस्-सुप् get attached to a ङ्यन्त, आबन्त and a प्रातिपदिकान्त.
index: 4.1.2 sutra: स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप्
ङ्याप्प्रातिपदिकात् 4.1.1 इत्यधिकृतम्। ङ्याप्प्रातिपदिकात् स्वादयः प्रत्यया भवन्ति। उकारादयोऽनुबन्धा यथायोगमुच्चारणविशेषणार्थाः। औटः टकारः सुटिति प्रत्याहारग्रहणार्थः। पकारः सुपिति प्रत्याहारार्थः। सङ्ख्याकर्मादयश्च स्वादीनामर्थाः शास्त्रान्तरेण विहितास् तेन सह अस्य एकवाक्यता। ङ्यन्तात् तावत् कुमारी। गौरी। शार्ङ्गरवी। ङीब्ङीष्ङीनां क्रमेण उदाहरणम्। कुमारी, कुमार्यौ, कुमार्यः। कुमारीम्, कुमार्यौ, कुमारीः। कुमार्या, कुमारीभ्याम्, कुमारीभिः। कुमार्यै, कुमारीभ्याम्, कुमारीभ्यः। कुमार्याः, कुमारीभ्याम्, कुमारीभ्यः। कुमार्याः, कुमार्योः, कुमारीणाम्। कुमार्याम्, कुमार्योः, कुमारीषु। एवं गौरी, शार्ङ्गरवी चोदाहार्ये। आपः खल्वपि खट्वा। बहुराजा। कारीषगन्ध्या। टाब्डाप्चापां क्रमेण उदाहरणम्। खट्वा, खट्वे, खट्वाः। खट्वाम्, खट्वे, खट्वाः। खट्वया, खट्वाभ्याम्, खट्वाभिः। खट्वायै, खट्वाभ्याम्, खट्वाभ्यः। खट्वायाः, खट्वाभ्याम्, खट्वाभ्यः। खट्वायाः खट्वयोः, खट्वानाम्। खट्वायाम्, खट्वयोः, खट्वासु। एवं बहुराजाकारीषगन्ध्ये च उदाहार्ये। एवं प्रातिपदिकात् दृषद्, दृषदौ, दृषदः। दृषदम्, दृषदौ, दृषदः। दृषदा, दृषद्भ्याम्, दृषद्भिः। दृसदे, दृषद्भ्याम्, दृषद्भ्यः। दृषदः, दृषद्भ्याम्, दृषद्भ्यः। दृषदः, दृषदोः, दृषदाम्। दृषदि, दृषदोः, दृषत्सु।
index: 4.1.2 sutra: स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप्
ङ्यन्तादाबन्तात्प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः । सुङस्योरुकारेकारौ जशटङपाश्चेतः ॥
index: 4.1.2 sutra: स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप्
सु औ जस् इति प्रथमा । अम् औट् शस् इति द्वितीया । टा भ्याम् भिस् इति तृतीया । ङे भ्याम् भ्यस् इति चतुर्थी । ङसि भ्याम् भ्यस् इति पञ्चमी । ङस् ओस् आम् इति षष्ठी । ङि ओस् सुप् इति सप्तमी ॥
index: 4.1.2 sutra: स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप्
अनेन सूत्रेण एकविंशति प्रत्ययाः दीयन्ते । एतेषामेव सामुहिकं नाम 'सुप्-प्रत्ययाः' इति ।
सुप्-तिङन्तं पदम्1.4.14 इत्यनेन एतेषु कोऽपि प्रत्ययः यस्य शब्दस्य अन्ते आगच्छति, सः शब्दः 'पद'संज्ञां प्राप्नोति । यथा - 'राम' (प्रातिपदिकम्) + सुँ (प्रत्ययः) = रामः (पदम्) । अतः एतेषां सु्प्-प्रत्ययानां योजनेन 'पदनिर्माणं भवति' इत्युच्यते ।
एते एकविंशतिः प्रत्ययाः सुपः 1.4.103 इत्यनेन क्रमेण सप्तवारम् एकवचन-द्विवचन-बहुवचन-संज्ञकाः भवन्ति । इत्युक्ते - सुँ = एकवचनम् , औ = द्विवचनम् , जस् = बहुवचनम् , अम् = एकवचनम् , औट् = द्विवचनम्, शस् = बहुवचनम् ... आदयः ।
एतेषां प्रत्ययानाम् विभक्तिश्च 1.4.104 इत्यनेन विभक्तिसंज्ञा भवति । आचार्येण तेषां विधानम् 'प्रथमा, द्वितीया, ... सप्तमी' अनेन क्रमेण कृतमस्ति । इत्युक्ते, प्रथमाः त्रयः प्रत्ययाः (सुँ-औ-जस्) प्रथमाविभक्तिः नाम्ना ज्ञायते । अग्रिमाः त्रयः प्रत्ययाः (अम-औट्-शस्) द्वितीयाविभक्तिः नाम्ना ज्ञायते । अनेनैव प्रकारेण सर्वाः विभक्तयः त्रीन् त्रीन् प्रत्ययान् स्वीकुर्वन्ति । एतादृशम् विभक्ति-वचन विभाजनेन प्रत्येकम् प्रत्ययस्य विशिष्टः उल्लेखः भवितुमर्हति । यथा - प्रथमा-एकवचनस्य प्रत्ययः 'सुँ', द्वितीया-बहुवचनस्य प्रत्ययः 'शस्' - आदयः ।
एतेषु प्रत्ययेषु केचन वर्णाः इत्संज्ञकाः सन्ति । यथा -
उपदेशेऽजनुनासिक इत् 1.3.2 इत्यनेन सुँ इत्यस्य उकारः तथा ङसिँ इत्यस्य इकारः इत्संज्ञां प्राप्नुतः ।
हलन्त्यम् 1.3.3 इत्यनेन औट्-इत्यस्य टकारः तथा सुप्-इत्यस्य पकारः इत्संज्ञां प्राप्नुतः । तथा च, न विभक्तौ तुस्माः 1.3.4 इत्यनेन जस् / शस् प्रत्यययोः अन्तिमसकारस्य इत्संज्ञा निषिध्यते ।
चुटू 1.3.7 इत्यनेन जस् इत्यस्य जकारः, टा इत्यस्य टकारः ङे/ङसिँ/ङस्/ङि एतेषाम् ङकारः इत्संज्ञां प्राप्नुवन्ति ।
लशक्वतद्धिते 1.3.8 इत्यनेन शस्-इत्यस्य शकारः इत्संज्ञां प्राप्नोति ।
सर्वेषाम् इत्संज्ञकवर्णानाम् प्रक्रियासमये तस्य लोपः 1.3.9 इत्यनेन लोपः भवति ।
एतेषां सर्वेषाम् प्रत्ययानाम् आदिस्वरः अनुदात्तौ सुप्-पितौ 3.1.3 इत्यनेन अनुदात्तसंज्ञकः भवति ।
index: 4.1.2 sutra: स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप्
स्वौजसमौट्छस्टाभ्याम्भिस्-ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप् - स्वैजसमौट् । सु-औ-जस्, अम्-औट्-शस्, टा-भ्यां-भिस्, ङे-भ्यां-भ्यस्, ङसि-भ्यां-भ्यस्, ङस्-ओस्-आम्, ङि-ओस्-सुप् — इत्येकविंशतिः स्वादयः । समाहाद्वन्द्वः, इतरेतरयोगद्वन्द्वो वा । तथा सति सौत्रमेकवचनम् । ङ्याप्प्रातिपदिकादित्यदिकृतं,प्रत्ययः॑,परश्चे॑ति च यथायथं च विपरिणम्यते । तदाह — ङ्यन्तादित्यादिना । सुङस्योरिति । सु-ङसि-इत्यनयोरुकारेकारौ, जस्-शस्-इत्यनयोर्जकारशकारौ, औट्-टा — इत्यनयोष्टकारः, ङे-ङसि-ङस्-ङि-इत्येतेषां ङकारः, 'सुप्' इत्यस्य पकार इत्येते इत्संज्ञकाः प्रत्येतव्या इत्यर्थः ।उपदेशेऽजनुनासिक इत्,चुटू॑, लशक्वतद्धिते॑, 'हलन्त्यम्' इति सूत्रै॑रिति शेषः । इत्संज्ञायां च लोपः । तदुच्चारणफलं तु तत्र तत्र वक्ष्यते ।
index: 4.1.2 sutra: स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप्
उकारादयोऽनुबन्धा इत्यादि । तत्र प्रथमैकवचनस्योकारः ठेततदोः सुलोपःऽ,'दीर्घात्सुतिसि' इत्यत्र केवलस्य व्यञ्जनस्योच्चारयितुमशक्यत्वादुच्चारणार्थः । अत्र तु सूत्रे औकारोपश्ले षाच्छक्यते सकारमात्रमुच्चारयितुम् । ठनङ्सौऽ इत्यत्र विशेषणार्थस्तु न भवति; व्यावर्त्यस्याभावात् । न च ठनङसिऽ इत्युच्यमाने वर्णनिर्देशे च तदादिविधिसम्भवात्सप्तमीबहुवचनेऽपि प्रसङ्गः;'सर्वनामस्थाने' इत्यनुवृतेः । जसो जकारोऽस्मिन्नेव सूत्रेऽसन्दिग्धोच्चारणार्थः; अन्यथा ह्याइकारस्यावादेशे सन्देहः स्यात् - किमौकारस्योच्चारणम्, अथावित्यस्येति ।'जसः शी' इत्यादौ विशेषणार्थस्तु न भवति; ठसः शीऽ इत्युच्यमानेऽप्यतिप्रसङ्गाभावात्, शसादीनां सानुबन्धकत्वात् । शसश्शकार औटष्टकारस्यासन्दिग्धोच्चारणार्थः; अन्यथा डकारष्टकार इति सन्देहः स्यात्।'तस्माच्छसः' इत्यादौ विशेषणार्थस्तु न भवति; जसादीनां सानुबन्धकत्वात् ।'टा' इत्यत्र टकारः'टाङसिङसामिनात्स्याः' इति विशेषणार्थः; अन्यथा'सुपां सुलुक्' इत्यादिना विहितस्याकारस्यापि ग्रहणं स्यात् । तदेवमेषां चतुर्णामुकारादय उच्चारणविशेषणार्थाः । इत्संज्ञाप्येषां प्रयोगे श्रवणं मा भूदिति, न पुनरित्कार्यं किञ्चिदस्ति । औटष्टकारः सुडिति प्रत्याहारग्रहणार्थः । णेóप्रभृतिषु ङ्कारः'घेर्ङिति' इति विशेषणार्थः । ङ्सेरिकारः'युष्मदस्मद्भां ङ्सो' श्ऽ इत्यत्र ग्रहणं मा भूदित्येवमर्थः । पकारः प्रत्याहारग्रहणार्थ इति । उकारादयोऽनुबन्धा यथायोगमुच्चारणविशेषणार्था इत्यनेनागतार्थत्वादिदमुक्तम् । एवं च - ठौटष्टकारः सुडिति प्रत्याहारार्थःऽ इत्यग्रिमग्रन्थेन भवितव्यम् । क्व पुनरिमेऽर्थे स्वादयो भवन्तीत्याह - संख्याकर्मादयश्चेति । शास्त्रान्तरेणेति ।'बहुषु बहुवचनम्' ,'कर्मणि द्वितीया' इत्यादिना । तेन सहास्यैकवाक्यतेति । पूर्वं त्ववान्तरवाक्यभेदापेक्षया शास्त्रान्तरेणेत्युक्तम् । आकांक्षायोग्यतावशेन भिन्नप्रकरणपठितानामप्येकवाक्यता भवत्येव । प्रकरणभेदेन तु पाठस्तिङदिविधिनाप्येकवाक्यत्वं यथा स्यादिति ।'बहुषु बहुवचनम्' इत्यत्र तु भिन्नवाक्यत्वमाश्रित्योक्तम्-ङ्याप्प्रतिपदिकात्स्वादयो लस्य तिबादय इति बहुवचनं विहितं तस्यानेन बहुत्वं संख्यावाच्यत्वेन विधीयते इति । अव्ययेयस्तु निः संख्येभ्यः सामान्यविहिताः खादयो विद्यन्त एवेति च । एकवाक्यतायां तु विशिष्टे एवार्थे कर्मादिसम्बन्धिन्येकत्वादौ स्वादीनां विधानात्सामान्यविहितत्वं नोपपद्यते । तस्माद् ठव्ययादाप्सुपःऽ इत्यव्ययादुत्पन्नस्य सुपो लुग्विदानाल्लिङ्गादव्ययेभ्योऽस्मिन्पक्षे स्वाद्यौत्पतिः । उदाहरणानि यथायोगं स्वे स्वे वाक्ये प्रकटीकरिष्यन्ते ॥