4-1-2 सुऔजसमौट्शस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् प्रत्ययः परः च आद्युदात्तः च
सुँ-औ-जस्-अम्-औट्-शस्-टा-भ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसिँ-भ्याम्-भ्यस्-ङस्-ओस्-आम्-ङि-ओस्-सुप् ङ्याप्प्रातिपदिकात् प्रत्ययः परश्च
ङ्यन्तात्, आबन्तात्, प्रातिपदिकात् च सुँ-औ-जस्-अम्-औट्-शस्-टा-भ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसिँ-भ्याम्-भ्यस्-ङस्-ओस्-आम्-ङि-ओस्-सुप् एते प्रत्ययाः भवन्ति ।
The प्रत्ययाः - सुँ-औ-जस्-अम्-औट्-शस्-टा-भ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसिँ-भ्याम्-भ्यस्-ङस्-ओस्-आम्-ङि-ओस्-सुप् get attached to a word that ends in ङीप्/ङीष्/ङीन्/टाप्/डाप्/चाप् pratyay, or is a प्रातिपदिक.
ङ्याप्प्रातिपदिकादित्यधिकृतम्। ङ्याप्प्रातिपदिकात् स्वादयः प्रत्यया भवन्ति। उकारादयोऽनुबन्धा यथायोगमुच्चारणविशेषणार्थाः। औटष्टकारःसुडिति प्रत्याहारग्रहणार्थः। पकारः सुबिति प्रत्याहारार्थः। संख्या कर्मादयश्च स्वादीनामर्थाः शास्त्रान्तरेण विहिताः, तेन सहास्यैकवाक्यता। ङ्यन्तात् तावत् — कुमारी। गौरी। शार्ङ्गरवी। ङीब्ङीष्ङीनां क्रमेणोदाहरणम् — कुमारी, कुमार्यौ, कुमार्यः। कुमारीम् कुमार्यौ, कुमारीः। कुमार्या, कुमारीभ्याम्, कुमारीभिः। कुमार्यै, कुमारीभ्याम्, कुमारीभ्यः। कुमार्याः, कुमारीभ्याम्, कुमारीभ्यः। कुमार्याः कुमार्योः, कुमारीणाम्। कुमार्याम्, कुमार्योः, कुमारीषु। एवं गौरी शार्ङ्गरवी चोदाहार्य। आपः खल्वपि — खट्वा। बहुराजा। कारीषगन्ध्या। टाब्डाप्चापां क्रमेणोदाहरणम् — खट्वा, खट्वे, खट्वाः। खट्वाम्,खट्वे, खट्वाः। खट्वया, खट्वाभ्याम्,खट्वाभिः। खट्वायै, खट्वाभ्याम् खट्वाभ्यः। खट्वायाः, खट्वाभ्याम्,खट्वाभ्यः। खट्वायाः, खट्वयोः,खट्वानाम्। खट्वायाम्, खट्वयोः, खट्वासु। एवं बहुराजाकारीषगन्ध्ये चोदाहार्ये। एवं प्रातिपदिकात् — दृषद्, दृषदौ, दृषदः। दृषदम्, दृषदौ, दृषदः। दृषदा, दृषद्भ्याम्, दृषद्भिः। दृषदे, दृषद्भ्याम्, दृषद्भ्यः। दृषदः दृषद्भ्याम्, दृषद्भ्यः। दृषदः, दृषदोः, दृषदाम्। दृषदि, दृषदोः, दृषत्सु॥
ङ्यन्तादाबन्तात्प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः । सुङस्योरुकारेकारौ जशटङपाश्चेतः ॥
सु औ जस् इति प्रथमा । अम् औट् शस् इति द्वितीया । टा भ्याम् भिस् इति तृतीया । ङे भ्याम् भ्यस् इति चतुर्थी । ङसि भ्याम् भ्यस् इति पञ्चमी । ङस् ओस् आम् इति षष्ठी । ङि ओस् सुप् इति सप्तमी ॥
प्रातिपदिकेभ्यः पदस्य निर्माणं कर्तुम् आवश्यकाः एकविंशतिः सुप्-प्रत्ययाः प्रकृतसूत्रेण पाठिताः सन्ति । एते एकविंशतिः प्रत्ययाः <<सुपः>> 1.4.103 इति सूत्रेण क्रमेण
| एकवचनम् | द्विवचनम् | बहुवचनम् | |
|---|---|---|---|
| प्रथमा | सुँ | औ | जस् |
| द्वितीया | अम् | औट् | शस् |
| तृतीया | टा | भ्याम् | भिस् |
| चतुर्थी | ङे | भ्याम् | भ्यस् |
| पञ्चमी | ङसिँ | भ्याम् | भ्यस् |
| षष्ठी | ङस् | ओस् | आम् |
| सप्तमी | ङि | ओस् | सुप् |
एते एकविंशतिः प्रत्ययाः
<<स्वौजसमौट्छस्टाभ्याम्भिस्-ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप्>> - स्वैजसमौट् । सु-औ-जस्, अम्-औट्-शस्, टा-भ्यां-भिस्, ङे-भ्यां-भ्यस्, ङसि-भ्यां-भ्यस्, ङस्-ओस्-आम्, ङि-ओस्-सुप् — इत्येकविंशतिः स्वादयः । समाहाद्वन्द्वः, इतरेतरयोगद्वन्द्वो वा । तथा सति सौत्रमेकवचनम् । ङ्याप्प्रातिपदिकादित्यदिकृतं,प्रत्ययः॑,परश्चे॑ति च यथायथं च विपरिणम्यते । तदाह — ङ्यन्तादित्यादिना । सुङस्योरिति । सु-ङसि-इत्यनयोरुकारेकारौ, जस्-शस्-इत्यनयोर्जकारशकारौ, औट्-टा — इत्यनयोष्टकारः, ङे-ङसि-ङस्-ङि-इत्येतेषां ङकारः, 'सुप्' इत्यस्य पकार इत्येते इत्संज्ञकाः प्रत्येतव्या इत्यर्थः ।उपदेशेऽजनुनासिक इत्,चुटू॑, लशक्वतद्धिते॑, 'हलन्त्यम्' इति सूत्रै॑रिति शेषः । इत्संज्ञायां च लोपः । तदुच्चारणफलं तु तत्र तत्र वक्ष्यते ।
उकारादयोऽनुबन्धा इत्यादि । तत्र प्रथमैकवचनस्योकारः ठेततदोः सुलोपःऽ,'दीर्घात्सुतिसि' इत्यत्र केवलस्य व्यञ्जनस्योच्चारयितुमशक्यत्वादुच्चारणार्थः । अत्र तु सूत्रे औकारोपश्ले षाच्छक्यते सकारमात्रमुच्चारयितुम् । ठनङ्सौऽ इत्यत्र विशेषणार्थस्तु न भवति; व्यावर्त्यस्याभावात् । न च ठनङसिऽ इत्युच्यमाने वर्णनिर्देशे च तदादिविधिसम्भवात्सप्तमीबहुवचनेऽपि प्रसङ्गः;'सर्वनामस्थाने' इत्यनुवृतेः । जसो जकारोऽस्मिन्नेव सूत्रेऽसन्दिग्धोच्चारणार्थः; अन्यथा ह्याइकारस्यावादेशे सन्देहः स्यात् - किमौकारस्योच्चारणम्, अथावित्यस्येति ।'जसः शी' इत्यादौ विशेषणार्थस्तु न भवति; ठसः शीऽ इत्युच्यमानेऽप्यतिप्रसङ्गाभावात्, शसादीनां सानुबन्धकत्वात् । शसश्शकार औटष्टकारस्यासन्दिग्धोच्चारणार्थः; अन्यथा डकारष्टकार इति सन्देहः स्यात्।'तस्माच्छसः' इत्यादौ विशेषणार्थस्तु न भवति; जसादीनां सानुबन्धकत्वात् ।'टा' इत्यत्र टकारः'टाङसिङसामिनात्स्याः' इति विशेषणार्थः; अन्यथा'सुपां सुलुक्' इत्यादिना विहितस्याकारस्यापि ग्रहणं स्यात् । तदेवमेषां चतुर्णामुकारादय उच्चारणविशेषणार्थाः । इत्संज्ञाप्येषां प्रयोगे श्रवणं मा भूदिति, न पुनरित्कार्यं किञ्चिदस्ति । औटष्टकारः सुडिति प्रत्याहारग्रहणार्थः । णेóप्रभृतिषु ङ्कारः'घेर्ङिति' इति विशेषणार्थः । ङ्सेरिकारः'युष्मदस्मद्भां ङ्सो' श्ऽ इत्यत्र ग्रहणं मा भूदित्येवमर्थः । पकारः प्रत्याहारग्रहणार्थ इति । उकारादयोऽनुबन्धा यथायोगमुच्चारणविशेषणार्था इत्यनेनागतार्थत्वादिदमुक्तम् । एवं च - ठौटष्टकारः सुडिति प्रत्याहारार्थःऽ इत्यग्रिमग्रन्थेन भवितव्यम् । क्व पुनरिमेऽर्थे स्वादयो भवन्तीत्याह - संख्याकर्मादयश्चेति । शास्त्रान्तरेणेति ।'बहुषु बहुवचनम्' ,'कर्मणि द्वितीया' इत्यादिना । तेन सहास्यैकवाक्यतेति । पूर्वं त्ववान्तरवाक्यभेदापेक्षया शास्त्रान्तरेणेत्युक्तम् । आकांक्षायोग्यतावशेन भिन्नप्रकरणपठितानामप्येकवाक्यता भवत्येव । प्रकरणभेदेन तु पाठस्तिङदिविधिनाप्येकवाक्यत्वं यथा स्यादिति ।'बहुषु बहुवचनम्' इत्यत्र तु भिन्नवाक्यत्वमाश्रित्योक्तम्-ङ्याप्प्रतिपदिकात्स्वादयो लस्य तिबादय इति बहुवचनं विहितं तस्यानेन बहुत्वं संख्यावाच्यत्वेन विधीयते इति । अव्ययेयस्तु निः संख्येभ्यः सामान्यविहिताः खादयो विद्यन्त एवेति च । एकवाक्यतायां तु विशिष्टे एवार्थे कर्मादिसम्बन्धिन्येकत्वादौ स्वादीनां विधानात्सामान्यविहितत्वं नोपपद्यते । तस्माद् ठव्ययादाप्सुपःऽ इत्यव्ययादुत्पन्नस्य सुपो लुग्विदानाल्लिङ्गादव्ययेभ्योऽस्मिन्पक्षे स्वाद्यौत्पतिः । उदाहरणानि यथायोगं स्वे स्वे वाक्ये प्रकटीकरिष्यन्ते ॥