हलि च

8-2-77 हलि च पदस्य पूर्वत्र असिद्धम् धातोः र्वोः उपाधायाः दीर्घः इकः

Sampurna sutra

Up

र्वोः धातोः उपधायाः इकः हलि दीर्घः

Neelesh Sanskrit Brief

Up

रेफ-वकारान्त-धातोः उपधाभूतस्य इक्-वर्णस्य हल्-वर्णे परे दीर्घादेशः भवति ।

Neelesh English Brief

Up

The उपधा letter of a रेफान्त or a वकारान्त धातु becomes दीर्घ if that letter belongs to the इक् प्रत्याहार and if the धातु is followed by a हल् letter.

Kashika

Up

हलि च परतो रेफवकारान्तस्य धातोरुपधाया इको दीर्घो भवति। आस्तीर्णम्। विस्तीर्णम्। विशीर्णम्। अवगूर्णम्। वकारान्तस्य — दीव्यति। सीव्यति। धातोरित्येव — दिवमिच्छति दिव्यति। चतुर इच्छति चतुर्यति। इक इत्येव — स्मर्यते। भव्यम्। अपदान्तार्थोऽयमारम्भः॥

Siddhanta Kaumudi

Up

रेफवान्तस्य धातोरुपधाया इको दीर्घः स्याद्धलि । न चाल्लोपस्य स्थानिवत्त्वम् । दीर्घविधौ तन्निषेधात् । बहिरङ्गपरिभाषा तूक्तन्यायेन न प्रवर्तते । प्रतिदीव्नः । प्रतिदीव्नेत्यादि ॥ यज्वा । यज्वानौ । यज्वानः ॥

Laghu Siddhanta Kaumudi

Up

रेफवान्तस्य धातेरुपधाया इको दीर्घो हलि। पिपूर्तः। पिपुरति। पपार॥

Neelesh Sanskrit Detailed

Up

यस्य धातोः अन्ते रेफः वकारः वा अस्ति तस्य उपधायाम् विद्यमानस्य इ/उ/ऋ/ऌवर्णस्य हल्-वर्णे परे दीर्घादेशः भवति । उदाहरणानि एतानि - 1. 'तॄ' धातोः कर्मणि-प्रयोगे लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - तॄ + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → तॄ + त [<<भावकर्मणोः>> 1.3.13 इति कर्मणि-प्रयोगस्य विवक्षायामात्मनेपदम् । <<तिप्तस्..>> 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'त' प्रत्ययः] → तॄ + यक् + त [<<सार्वधातुके यक्>> 3.1.67 इति विकरणप्रत्यय यक्] → तिर् + यक् + त [<<ऋत इद्धातोः>> 7.1.100 इति ॠकारस्य इकारः । <<उरण् रपरः>> 1.1.51 इति सः रपरः] → तिर् + य + ते [<<टित आत्मनेपदानां टेरे>> 3.4.79 इति एकारादेशः] → तीर् य ते [<<हलि च>> इति रेफान्तधातोः उपधायाः इक्-वर्णस्य दीर्घादेशः] → तीर्यते । 2. 'दिव्' धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - दिव् + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → दिव् + तिप् [<<तिप्तस्..>> 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः] → दिव् + श्यन् + तिप् [<<दिवादिभ्यः श्यन्>> 3.1.69 इति विकरणप्रत्ययः श्यन्] → दिव् + य + ति [इत्संज्ञालोपः] → दीव्यति [<<हलि च>> इति वकारान्तधातोः उपधायाः इक्-वर्णस्य दीर्घादेशः] ज्ञातव्यम् - 1. अस्य सूत्रस्य प्रयोगः 'अपदान्त'धातोः विषये एव भवति, यतः यदि धातुः पदसंज्ञकः अस्ति तर्हि <<र्वोरुपधायाः दीर्घः इकः>> 8.2.76 अनेन पूर्वसूत्रेणैव दीर्घादेशः विधीयते । अतः अस्मिन् विषये काशिकाकारः वदति - 'अपदान्तार्थः ऽयमारम्भः' । अतः यद्यपि एतत् सूत्रम् पदाधिकारे अस्ति, तथापि अनेन सूत्रेण उक्तः विधिः अपदान्तविधिः अस्तीति स्मर्तव्यम् । 2. अस्मिन् सूत्रे 'र्वोः' इति 'धातोः' इत्यस्य विशेषणरूपेण प्रयुज्यते । 'र्वोः धातोः' इत्यत्र <<येन विधिस्तदन्तस्य>> 1.1.72 इत्यनेन 'रेफ-वकारान्त-धातोः' इति अर्थः जायते ।

Balamanorama

Up

Padamanjari

Up