1-3-8 लशकु अतद्धिते धातवः इत् आदिः प्रत्ययस्य
उपदेशे अतद्धितस्य प्रत्ययस्य आदिः ल-श-कु इत्
तद्धितभिन्नप्रत्ययस्य औपदेशिकस्वरूपस्य आदौ विद्यमानः लकारः, शकारः, कवर्गीयवर्णः च इत्संज्ञकः भवति ।
The letters ल्, श्, क्, ख्, ग्, घ्, ङ् at the beginning of the औपदेशिक form of a non-तद्धित प्रत्यय are called इत् ।
तद्धितवर्जितस्य प्रत्ययस्यादितो वर्तमाना लकारशकारकवर्गा इत्संज्ञा भवन्ति। लकार — <<ल्युट् च>> ३.३.११५ — चयनम्। जयनम्। शकार — <<कर्तरि शप्>> ३.१.६८ — भवति । पचति। कवर्ग — <<क्तक्तवतू निष्ठा>> १.१.२६ — भुक्तः, भुक्तवान्। <<प्रियवशे वदः खच्>> ३.२.३८ — प्रियंवदः। वशंवदः। <<ग्लाजिस्थश्च ग्स्नुः>> ३.२.१३९ — ग्लास्नुः। जिष्णुः। भूष्णुः। <<भञ्जभासमिदो घुरच्>> ३.२.१६१ — भङ्गुरम्। <<टाङसिङसामिनात्स्याः>> ७.१.१२ — वृक्षात्। वृक्षस्य। अतद्धित इति किम्? चूडालः। लोमशः। कर्णिका॥
तद्धितवर्जप्रत्ययाद्या लशकवर्गा इतः स्युः । इति शसः शस्येत्संज्ञा ॥
तद्धितवर्जप्रत्ययाद्या लशकवर्गा इतः स्युः॥
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'इत्' इति संज्ञा । इयम् संज्ञा <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इत्यस्मात् <<लशक्वतद्धिते>> 1.3.8 इत्येतेषु सूत्रेुषु पाठिता अस्ति । एतेषाम् सूत्राणाम् सङ्कलनम् 'इत्संज्ञाप्रकरणम्' नाम्ना ज्ञायते । अस्य प्रकरणस्य इदम् सप्तमम् (अन्तिमम्) सूत्रम् । अनेन सूत्रेण तद्धितभिन्नप्रत्ययस्य औपदेशिकस्वरूपस्य (मूलस्वरूपस्य) आदौ विद्यमानस्य लकारस्य, शकारस्य, कवर्गीयवर्णस्य च इत्संज्ञा भवति । यथा —
1) ल्युट् इत्यस्य कृत्प्रत्ययस्य आदिस्थः लकारः इत्संज्ञकः अस्ति ।
2) श्यन् इत्यस्य विकरणप्रत्ययस्य आदिस्थः शकारः इत्संज्ञकः अस्ति ।
3) क्यच् इत्यस्य सनादिप्रत्ययस्य आदिस्थः ककारः इत्संज्ञकः अस्ति ।
4) खिष्णुच् इत्यस्य कृत्प्रत्ययस्य आदिस्थः खकारः इत्संज्ञकः अस्ति ।
5) ग्स्नु इत्यस्य कृत्प्रत्ययस्य आदिस्थः गकारः इत्संज्ञकः अस्ति ।
6) घिनुण् इत्यस्य कृत्प्रत्ययस्य आदिस्थः घकारः इत्संज्ञकः अस्ति ।
7) ङि इत्यस्य सुप्प्रत्ययस्य आदिस्थः ङकारः इत्संज्ञकः अस्ति ।
<<लशक्वतद्धिते>> - ॒राम शस्-इति स्थिते, 'न विभक्तौ तुस्मा'इति सकारस्य नेत्वम् । तत्र शकारस्य अनन्त्यत्वाद्धलन्त्यमित्यस्याऽप्राप्तावाह-लशक्वतद्धिते । 'लशकु' इति समाहारद्वन्द्वः । उपदेशेऽजनुनासिक इत्,आदिर्ञिटुडवः,षः प्रत्ययस्ये॑त्यतः-इदिति , आदिरिति, प्रत्ययस्येति चानुवर्तते । अतद्धित इति षष्ठर्थे सप्तमी । तद्धितभिन्नस्य प्रत्ययस्य आदिभूतं लकारशकारकवर्गम् इत्संज्ञं भवतीत्यर्थः । तदाह — तद्धितवर्जेति । अतद्धित इति किम् ।कर्णललाटात्कनलङ्कारे॑ । कर्णिका । अत्र ककारस्य तद्धितावयवत्वान्नेत्त्वम् । सति तस्मिन्किति चे॑त्यादिवृद्धिः स्यात् । एतेन प्रयोजनाऽभावादेव लशादितद्धितेषु नेत्त्वमित्यतद्धितग्रहणं व्यर्थमिति निरस्तम् । इति शस इति । शकारस्येत्संज्ञायां 'तस्य लोप' इति लोपः । शकारोच्चारणं तु 'जसः शी' 'तस्माच्छसो नः' इत्यादौ विषयविभागार्थम् । राम असिति स्थिते, अकः सवर्णे दीर्घ इति बाधित्वा, अतो गुण इति प्राप्ते प्रथमयोरिति पूर्वसवर्णदीर्घे, रामास् इति स्थिते ।
प्रियंवद इति। ठरुर्द्विषदजन्तस्य मुम्ऽ । जिष्णुरिति। स्नुप्रत्ययस्य गित्वपक्षे गकारस्येदमुदाहरणम्। चूडाल इति । मत्वर्थे'प्राणिस्थादातो लजन्यतरस्याम्' इति । अत्र प्रयोजनाभावादेव न भविष्यतीति शक्यं वक्तुम्। कर्णिकेति।'कर्णललाटात् कनलङ्कारे' इति भवार्थे कन्। अत्र'किति च' इति वृद्धिः स्यात्, रूपञ्च न सिध्येत्। अथ तुदिर्च्छिदिर्प्रभृतिषु इरित्यस्य समुदायस्य केनेत्संज्ञा?मा भूत्समुदायस्य, रेफस्य हलन्त्यम् इति भविष्यति, इकारस्य उपदेशेजनुनासिक इत् इति। इरितो वा इत्यात्रापि - इश्च रश्चेरौ तावितावस्येति विग्रहः, न तु इरित्ययं समुदायः स इद्यस्येति। अवश्यं च इकारस्य पृथगीत्संज्ञेषितव्या, स्वरितेत इत्यात्मनेपदं यथा स्यादिति। यद्येवम्, ठिदितो नुम् धात्तोःऽ इति नुम् प्राप्नोति, कुम्भीधान्यन्यायेन न भवति; यस्य पुनः कुम्भ्यां वान्यत्र वा, नासौ कुम्भीधान्यः। नायं न्यायो नुम्विधौ शक्य आश्रयितुम्। इह हि न स्यात्-टुअनदिऽ नन्दथुरिति। ज्ञापकात् सिद्धम्, यदयम्'न हशः' इति क्सस्य प्रतिषेधं शास्ति, तज्ज्ञापयति-नेदितां नुम्भवति; अन्यथा हशेरिदित्वान्नुमि सति अनिगुपधात्वात् क्सस्य प्राप्तिरेव नास्ति, किं तन्निषेधेन। परिहारान्तरमप्यत्र नुम्विधौ वक्ष्यते॥