8-4-1 रषाभ्यां नः णः समानपदे पूर्वत्र असिद्धम् संहितायाम्
index: 8.4.1 sutra: रषाभ्यां नो णः समानपदे
समानपदे रषाभ्याम् नः णः संहितायाम्
index: 8.4.1 sutra: रषाभ्यां नो णः समानपदे
समानपदे रेफात् षकारात् वा परस्य नकारस्य संहितायाम् णत्वं भवति ।
index: 8.4.1 sutra: रषाभ्यां नो णः समानपदे
a नकार occurring immediately after ष् or र् in the same पद is converted to a णकार.
index: 8.4.1 sutra: रषाभ्यां नो णः समानपदे
रेफषकाराभ्यामुत्तरस्य नकारस्य णकारादेशो भवति, समानपदस्थौ चेन्निमित्तनिमित्तिनौ भवतः । आस्तीर्णम् । विशीर्णम् । अवगूर्णम् । षकारात् कुष्णाति । पुष्णाति । मुष्णाति । षग्रहणमुत्तरार्थम्, ष्टुत्वेनैव हि सिद्धमेतत् । समानपदे इति किम् ? अग्निर्नयति । वायुर्नयति । ऋवर्णाच्चेति वक्तव्यम् । तिसृणाम् । चतसृणाम् । मातॄणाम् । पितॄणाम् । रश्रुतिसामान्यनिर्देशाद्वा सिद्धम् । अवर्णभक्त्या च व्यवधानेऽपि णत्वं भवतीति क्षुभ्नादिषु नृनमनतृप्नोतिग्रहणं ज्ञापकम् । अथवा ऋवर्णादपि णत्वं भवतीत्येतदेवानेन ज्ञाप्यते ॥
index: 8.4.1 sutra: रषाभ्यां नो णः समानपदे
एकपदस्थाभ्यां रेफषकाराभ्यां परस्य नस्य णः स्यात् । यूष्णः । यूष्णा । पूर्वस्मादपि विधौ स्थानिवद्भाव इति पक्षे त्वड्व्यवाय इत्येवात्र णत्वम् ॥<!पूर्वत्रासिद्धीये न स्थानिवदिति तु इह नास्ति !> (वार्तिकम्) ।<!तस्य दोषः संयोगादिलोपलत्वणत्वेष्विति निषेधात् !> (वार्तिकम्) ॥
index: 8.4.1 sutra: रषाभ्यां नो णः समानपदे
स्पष्टम् । अचो रहाभ्यां द्वे <{LSK60}> । अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः । चतुर्ण्णाम्, चतुर्णाम् ॥
index: 8.4.1 sutra: रषाभ्यां नो णः समानपदे
रेफः / षकारः यस्मिन् पदे अस्ति, तस्मिन्नेव पदे रेफात् षकारात् वा परः नकारः वर्तते चेत् तस्य णकारादेशः भवति ।
यथा - पुष् + ना + ति = पुष्णाति । चतुर् + नाम् → चतुर्ण्णाम् ।
अस्मिन् सूत्रे समानपदे इति किमर्थमुक्तमस्ति? यदि रेफः / षकारः यस्मिन् पदे अस्ति तस्मिन् पदे नकारः नास्ति, तर्हि नकारस्य णत्वं न भवति । यथा -
अग्नि सुँ + नयति
→ अग्निर् + नयति [ससजुषो रुँः 8.2.66 इति विसर्गस्य रुत्वम् । ]
→ अग्निर्नयति [समानपदं नास्ति, अतः नकारस्य णत्वं न भवति ।]
अत्र एकं वार्तिकमपि ज्ञातव्यम् - <!ऋवर्णात् नस्य णत्वं वाच्यम्!> । इत्युक्ते, ऋकारात् परस्य अपि नकारस्य णकारादेशः भवति । यथा - तिसृ + नाम् → तिसृणाम् । पितृ + नाम् → पितॄणाम् ।
index: 8.4.1 sutra: रषाभ्यां नो णः समानपदे
रषाभ्यां नो णः समानपदे - रषाभ्याम् । रषाभ्यामिति दिग्योगे पञ्चमी । परस्येत्यध्याहार्यम् । समानशब्द एकपर्यायः । यथा - समानग्रामा वयमिति । आधारसप्तमीबलात् विद्यमानाभ्यामिति लभ्यते । न इति षष्ठी । तदाह - एकपदस्थाभ्यामिति । एकत्वं चेहाखण्डत्वं विवक्षितं, पदे इत्येतावतैव सिद्धे समानग्रहणसामर्थ्यात् । अन्यथा रामनामेत्यादौ 'अट्कुप्वाङ्' इति णत्वापत्तिः । एतस्यैव समानपदशब्दस्य तत्राप्यनुवृत्तेः । 'मातृभोगीणः' इत्यत्र णत्वं तु तद्धिताधिकारे वक्ष्यते । यूष्ण इति । शसि रूपम् । यूष्णेति । तृतीयैकवचनम् । नचाल्लोपस्य स्थानिवद्भावान्नकारस्य षात्परत्वं नेति शङ्क्यं,रषाभ्यामिति षात्परस्य हि नस्य णत्वे कर्तव्येऽल्लोपस्य स्थानिवद्भावो नापेक्षितः । किंतु णत्वाभावे तदपेक्षा । णत्वाभावश्चाशास्त्रीयत्वान्नातिदेश्यः । स्थानिनि सति यत्कार्यं भवति तदेव हि स्थानिवत्सूत्रेणातिदिश्यते । स्थानिनि सति यन्न भवति तदादेशेऽपि न भवतीत्येवं कार्याभावस्त्वशास्त्रीयत्वान्नातिदिश्यते इति स्थानिवत्सूत्रेऽवोचाम । यद्यप्यचः परस्मिन्नित्यत्राशास्त्रीयः कार्याभावोऽप्यतिदिश्यत इत्यभ्यधायि, तथापि नेह तस्यापि सूत्रस्य प्रवृत्तिरिति । स्थानिभूतादचः पूर्वत्वेन दृष्टस्यैव विधौ तत्प्रवृत्तेः । इह चाल्लोपस्थानिभूतादकारात्परस्यैव णत्वविधानादिति भावः । नन्वचः परस्मिन्निति सूत्रे स्थानिभूतादचः पूर्वस्मात्परस्य विधावजादेशः स्थानिवदिति पक्षोऽपि भाष्ये स्थितः । एवञ्चात्र लोपादेशस्थानिभूतादकारात्पूर्वो यः षकारस्तस्मात्परस्य नकारस्य णत्वविधौ लोपस्य स्थानिवद्भावे सत्यकारेण व्यवधानात्षात्परत्वाऽभावात्कथं णत्वमित्यत आह — पूर्वस्मादिति । पक्षे त्वित्यादिनाऽस्य पक्षस्याऽनित्यत्वं सूचितम् । अत एव प्रविगणय्येति भाष्ये प्रयुक्तं सङ्गच्छते । चुरादौ 'गण सङ्ख्याने' इत्यदन्तो धातुः । णिच् । अतो लोपः । अल्लोपस्य स्थानिवद्भावात् अत उपधायाः 7.2.116 इति वृद्धिर्न । ण्यन्तात्क्त्वो ल्यपि णिलोपं बाधित्वा ,ल्यपि लघुपूर्वात् 6.4.56 इति णेरयादेशः । पूर्वस्मात्परस्य विधौ स्थानिवद्भावस्य नित्यत्वे इह ल्यपि लघुपूर्वादिति णेरयादेशो न स्यात् । लोपस्थानिभूतादतः पूर्वस्मात्परस्य णेरयादेशविधावल्लोपस्य स्थानिवद्भावे सति अता व्यवहितत्वेन णेर्लघुपूर्वाण्णकारात्परत्वाऽभावात् । तस्मादचः परस्मिन्नित्यत्र पूर्वस्मात्परस्य विधौ स्थानिवद्भावस्याऽनित्यत्वं विज्ञायते । एवं च गोशब्दात्संबुद्धौ ओतो णित्त्वे वृद्धौ हे गौरिति सिध्यति । अन्यथा औकारस्य स्थानिभूतादोकारात्पूर्वो यो गकारस्तस्मात्परस्याः सम्बुद्धेर्लोपविधौ स्थानिवद्भावे ओकारादेङः परत्वात्सम्बुद्धिलोपः स्यादिति शब्देन्दुशेखरे स्पष्टम् । अड्व्यवाये इत्येवेति । अट्कुप्वाङिति सूत्रेणैवेत्यर्थः । षादव्यवहितपरस्य नस्य णत्वविधावुदाहरणं तु — पुष्णातीत्यादि बोध्यम् । वस्तुतस्तु तत्रापि ष्टुत्वेनैव सिद्धे षग्रहणमुत्तरार्थमिति स्पष्टमाकरे । नन्वल्लोपस्य णत्वे कर्तव्ये कथं स्थानिवद्भावः, पूर्वत्रासिद्धे न स्थानिवदिति निषेधात् । णत्वस्य पूर्वत्रासिद्धीयत्वादित्यत आह — पूर्वत्रेति । संयोगादिलोपे लत्वे च कर्तव्ये, तस्य=पूर्वत्रासिद्धे न स्थानिवदित्यस्य, दोषः=बाधः । अप्रवृत्तिरिति यावत् । सयोगादिलोपे यथा - चक्र्यत्र । इह 'अचः परस्मिन्' इति यणादेशस्य स्थानिवद्भावात्स्कोः संयोगाद्योरिति ककारलोपो न । लत्वे यथा - निगाल्यते । अत्र णिलोपस्य स्थानिवत्त्वात् अचि विभाषा 8.2.21 इति लत्वम् । णत्वे यथा - माषवपनी । वपतेर्ल्युट्, अनादेशः, उगित्त्वान्ङीप्, यस्येति च 6.4.148 इति नकारादकारस्य लोपः । इह अकारलोपस्य स्थानिवत्त्वेन नकारस्य प्रातिपदिकान्तत्वाऽभावात् प्रातिपदिकान्तनुम्विभक्तिषु च 8.4.11 इति णत्वं न । यूषन्-भ्यामिति स्थिते ।
index: 8.4.1 sutra: रषाभ्यां नो णः समानपदे
निमित्तयोरादेशे चाकार उच्चारणार्थः । समानं च तत्पदं समानपदम् । निमित्तनिमित्तिनोश्चायमाधारनिर्द्देशः । तदाह - समानपदस्थो चेदिति । एकपर्यायः समानशब्दः । निमित्ते रषौ, निमित्ती नकारः । यद्यप्यसौ प्रागेव सिद्धस्वरूपः, तथापि तत्स्थाने भवतो णकारस्य यन्निमित्तम्, तस्यापि तेन सम्बन्धोऽस्त्येव । णकार एव वा निमित्ती, तस्य तु विधानोत्तरकालं समानपदस्थत्वम् । षग्रहणमुत्तरार्थमिति । अडादिव्यवाये णत्वं वक्ष्यति, तदस्मादपि यथा स्यात् । अथेहार्थमपि कस्मान्न भवति ? अत आह - ष्टुत्वेनैव सिद्धमेतदिति । ऋवर्णाच्चेति वक्तव्यमिति । रषाभ्यां णत्वमुच्यमानमृकारान्न प्राप्नोतीति वचनम् । न च शक्यं वक्तुम् - ऋवर्णस्थाद्रेफाद् भविष्यतीति । वर्णो ह्यत्र रेफः सूत्र उपात्तः, षकारेण साहचर्यात् । न च वर्णैकदेशा वर्णग्रहणेन गृह्यन्ते । तिसृणामिति ।'न तिसृचतसृ' इति प्रतिषेधात् 'नामि'6.4.3 इति दीर्घत्वाभावः । ततर्हि वक्तव्यम् ? नेत्याह - रश्रुतिसामान्यनिर्देशात्सिद्धमिति । र इति श्रुतिः श्रोत्रेणोपलब्धिर्ययोस्ते रश्रुती वर्णात्मिका चावर्णात्मिका च व्यक्तिः, तयोर्यत्सामान्यं तन्निर्दिश्यते; न तु वर्णात्मिकैव व्यक्तिरित्यर्थः । नन्वेवमपि ऋकारे त्रयो भागा अभितोऽज्भक्तिर्मध्ये रेफभक्तिर्मात्रा चतुर्भागात्मिका, ततश्च परयाज्भक्त्या व्यवधानान्न प्राप्नोति ? अड्व्यवाय इत्येवं भविष्यति । न पराज्भक्तिरट्सन्निविष्टा, सा ह्यर्द्धमात्रा चतुर्भागात्मिका ऋकारभक्तिः । न च तस्याः सवर्णग्रहणेन नाप्यड्ग्रहणेन ग्रहणम्; असवर्णत्वात्, न हि तस्याः स्थानं प्रयत्नो वा पृथगस्ति । तस्मात्सामान्यनिर्दशेऽपि नैव णत्वं सिध्यति, अत आह - वर्णभक्त्या चेति । वर्णस्य समुदायस्यावयवभूता या पराज्भक्तिस्तयेत्यर्थः । ननु च नृनमनग्रहणं वृद्ध्यर्थं स्यात् - नृनमनस्यापत्यं नार्नमनिरिति ? नैतदस्ति; बहिरङ्गा वृद्धिः, अन्तरङ्गं णत्वम्, असिद्धं बहिरङ्गमन्तरङ्गे । अथ वेति । व्यक्तिनिर्द्देशेऽपि दोष इत्यर्थः । अपरः प्रकारः - अभितोऽज्भक्ती चतुर्भागात्मिके, मध्ये शुद्धो रेफोऽर्धमात्रात्मकः, तेन व्यक्तिनिर्देशेऽप्यदोष इत्यर्थः । ननु च परयाज्भक्त्या व्यवधानम् ? एवं तर्हि उतरसूत्रे योगविभागः करिष्यते -'व्यवायेऽपि' इति, व्यवायेऽपि णत्वं भवति; ततः 'अट्कुप्वाङ्नुम्भिः' इति । इदमिदानीं किमर्थम् ? नियमार्थम् - वर्णात्मकैर्व्यवाये यदि भवति अडादिभिरेवेति । 'अपदान्तस्य मूर्धन्यः' 8.3.55 इत्यधिकारादत्र णग्रहणं शक्यमकर्तुम् । उतरत्र च 'पदान्तस्य' 8.4.37 इति प्रतिषेधः ॥