Home
Prev 8.3.16
Next 8.3.18
भोभगोअघोअपूर्वस्य योऽशि 8-3-17 भोभगोअघोअपूर्वस्य यः अशि पदस्य पूर्वत्र असिद्धम् संहितायाम् रोः
Sampurna sutra Up
भो-भगो-अघो-अपूर्वस्य पदस्य रोः अशि यः
Neelesh Sanskrit Brief Up
भोस्, भगोस्, अघोस् - एतेषाम् अन्ते विद्यमानस्य पदान्त-रुँ-वर्णस्य, तथा च अवर्णात् अनन्तरम् विद्यमानस्य पदान्त-रुँ-वर्णस्य संहितायाम् अश्-वर्णे परे यकारादेशः भवति ।
Neelesh English Brief Up
In the context of संहिता, A पदान्त रुँ that is present either at the end of भोस्/भगोस्/अघोस्, or after the letter अ/आ is converted to यकार when followed by a letter from the अश् प्रत्याहार.
Kashika Up
भोर् भगोर् अघोर् इत्येवंपूर्वस्यावर्णपूर्वस्य च रो रेफस्य यकारादेशो भवत्यशि परतः। भो अत्र। भगो अत्र। अघो अत्र। भो ददाति। भगो ददाति। अघो ददाति। अवर्णपूर्वस्यक आस्ते, कय् आस्ते। ब्राह्मणा ददति। पुरुषा ददति। भोभगोअघोअपूर्वस्येति किम् ? अग्निरत्र। वायुरत्र। अश्ग्रहणं किम्? वृक्षः। प्लक्षः। नैतदस्ति, <<संहितायाम्>> ८.२.१०८ इत्यनुवर्तते। तर्ह्यश्ग्रहणमुत्तरार्थम्। <<हलि सर्वेषाम्>> ८.३.२२ इत्ययं लोपोऽशि हलि यथा स्यात्। इह मा भूत् — वृक्षं वृश्चतीति वृक्षवृट्, तमाचष्टे यः स वृक्षवयति, वृक्षवयतेरप्रत्ययो वृक्षव् करोति। अथ तत्रैवाश्ग्रहणं कस्माद् न कृतम्? उत्तरार्थम्, <<मोऽनुस्वारः>> ८.३.२३ इति हल्मात्रे यथा स्यात्। <<व्योर्लघुप्रयत्नतरः शाकटायनस्य>> ८.३.१८ ,<<लोपः शाकल्यस्य>> ८.३.१९ इत्येतत् च वृक्षव् करोतीत्यत्र मा भूदित्यश्ग्रहणम्। रोरित्येव — प्रातरत्र। पुनरत्र॥
Siddhanta Kaumudi Up
एतत्पूर्वस्य रोर्यादेशः स्यादशि परे । असन्धिः सौत्रः ॥ लोपः शाकल्यस्य <{SK67}> । देवा इह । देवायिह । अशि किम् । देवाः सन्ति । यद्यपीह यत्वस्यासिद्धत्वाद्विसर्गो लभ्यते तथापि विसर्गस्य स्थानिवद्भावेन रुत्वाद्यत्वं स्यात् । नह्ययमल्विधिः । रोरिति समुदायरूपाश्रयणात् । भोस् भगोस् अघोस् इति सकारान्ता निपाताः । तेषां रोर्यत्वे कृते ॥
Laghu Siddhanta Kaumudi Up
एतत्पूर्वस्य रोर्यादेशोऽशि। देवा इह, देवायिह। भोस् भगोस् अघोस् इति सान्ता निपाताः। तेषां रोर्यत्वे कृते॥
Neelesh Sanskrit Detailed Up
अश् = सर्वे स्वराः + मृदुव्यञ्जनानि (वर्गतृतीयचतुर्थपञ्चमाः, अन्तःस्थाः, हकारः) । खर्-प्रत्याहास्थान् वर्णान् विहाय अन्ये सर्वे वर्णाः सर्वे अश्-प्रत्याहारे विद्यन्ते ।
पदान्ते विद्यमानस्य रुँवर्णस्य प्रकृतसूत्रेण द्वयोः स्थलयोः यकारादेशः विधीयते । क्रमेण विवरणम् एतादृशम् —
1. भोस्, भगोस्, अघोस् एतेषाम् अन्ते विद्यमानस्य रुँ-इत्यस्य यकारादेशः
भोस् , भगोस् तथा च अघोस् —एते त्रयः शब्दाः निपाताः (अतश्च, अव्ययसंज्ञकाः, अतश्च पदसंज्ञकाः) सन्ति । <<चादयोऽसत्वे>> 1.4.57 इत्यत्र निर्दिष्टस्य चादिगणस्य आकृतिगणत्वात् एते शब्दाः पण्डितैः तत्रैव समाविश्यन्ते । एते त्रयः अपि शब्दाः सम्बोधनवाचकाः सन्ति । सामान्यरूपेण भोस् इति अव्ययम् हे अस्मिन् अर्थेे मनुष्याणाम् सम्बोधनार्थम्; भगोस् इति अव्ययम् भगवन् अस्मिन् अर्थे देवानाम् सम्बोधनार्थम्, तथा च अघोस् इति अव्ययम् पापिन् अस्मिन् अर्थे राक्षसानाम् सम्बोधनार्थम् उपयुज्यते । एतेषाम् सर्वेषाम् अन्ते विद्यमानस्य सकारस्य <<ससजुषो रुः>> 8.2.66 इत्यनेन रुँत्वे कृते, अश्-वर्णे परे प्रकृतसूत्रेण तस्य यकारादेशः भवति । उदाहरणानि एतानि —
1. भोस् जनाः इत्यत्र यकारनिर्माणम् —
भोस् जनाः
→ भोरुँ जनाः [<<ससजुषोः रुँः>> 8.2.66 इति पदान्तसकारस्य रुँत्वम् ।
→ भोय् जनाः [<<भोभगोअघोअपूर्वस्य योऽशि>> 8.3.17 इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः]
→ भो जनाः [<<हलि सर्वेषाम्>> 8.3.22 इति यकारलोपः]
2. भगोस् अच्युत इत्यत्र यकारनिर्माणम् —
भगोस् अच्युत
→ भगोरुँ अच्युत [<<ससजुषोः रुँः>> 8.2.66 इति पदान्तसकारस्य रुँत्वम् ]
→ भगोय् अच्युत [<<भोभगोअघोअपूर्वस्य योऽशि>> 8.3.17 इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः]
→ भगो अच्युत [<<ओतो गार्ग्यस्य>> 8.3.20 इति यकारलोपः]
3. अघोस् रावण इत्यत्र यकारनिर्माणम् —
अघोस् रावण
→ अघोरुँ रावण [<<ससजुषोः रुँः>> 8.2.66 इति पदान्तसकारस्य रुँत्वम् ]
→ अघोय् रावण [<<भोभगोअघोअपूर्वस्य योऽशि>> 8.3.17 इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः]
→ अघो रावण [<<ओतो गार्ग्यस्य>> 8.3.20 इति यकारलोपः]
अव्ययवाचिशब्देभ्यः सुप्-प्रत्यये कृते <<अव्ययादाप्सुपः>> 2.4.82 इत्यनेन तस्य लोपः भवति, ततश्च <<सुप्तिङन्तं पदम्>> 1.4.14 इति एतेषाम् पदसंज्ञा अपि भवति । अतः अव्ययानां नित्यम् पदत्वम् स्वीक्रियते । उपरि दत्तेषु उदाहरणेषु भोस् , भगोस् , अघोस् एते त्रयः अपि पदसंज्ञकाः सन्ति, अतः एतेषाम् अन्ते विद्यमानस्य सकारस्य रुँत्वम्, ततश्च यकारादेशः अपि सम्भवति ।
2. अवर्णात् (अकारात् /आकारात्) अनन्तरम् विद्यमानस्य पदान्त-रुँ-इत्यस्य यकारादेशः
अकारात् उत आकारात् अनन्तरम् पदान्ते रुँ-वर्णः विधीयते चेत् तस्य अश्-वर्णे परे यकारादेशः भवति । उदाहरणानि एतानि —
1. देवा + जस् + गच्छन्ति इत्यत्र पदान्तसकारस्य रुँत्वे कृते तस्य प्रकृतसूत्रेण यकारादेशः भवति —
देवा जस् गच्छन्ति
→ देवास् गच्छन्ति [<<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इति पूर्वसवर्णदीर्घः आकारः]
→ देवारुँ गच्छन्ति [<<ससजुषोः रुँः>> 8.2.66 इति पदान्तसकारस्य रुँत्वम् ]
→ देवाय् गच्छन्ति [<<भोभगोअघोअपूर्वस्य योऽशि>> 8.3.17 इति रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः]
→ देवा गच्छन्ति [<<हलि सर्वेषाम्>> 8.3.22 इति यकारलोपः]
2. राम + सुँ + आसीत् इत्यत्र पदान्तसकारस्य रुँत्वे कृते तस्य प्रकृतसूत्रेण यकारादेशः भवति —
राम सुँ आसीत्
→ राम रुँ आसीत् [<<ससजुषोः रुँः>> 8.2.66 इति पदान्तसकारस्य रुँत्वम् ]
→ रामय् आसीत् [<<भोभगोअघोअपूर्वस्य योऽशि>> 8.3.17 इति अश्-वर्णे परे यकारादेशः]
→ राम आसीत् [<<लोपः शाकल्यस्य>> 8.3.19 इति यकारलोपः]
3. देवाँ अच्छा सुमती (ऋग्वेदः ४.१.२) — इत्यत्र देवान् -शब्दस्य नकारस्य रुँत्वे कृते तस्य प्रकृतसूत्रेण यकारादेशः भवति —
देवान् + अच्छा
→ देवारुँ + अच्छा [<<दीर्घादटि समानपादे>> 8.3.9 इति वैकल्पिकं रुँत्वम् ]
→ देवाँरुँ + अच्छा [<<आतोऽटि नित्यम्>> 8.3.3 इति अनुनासिकत्वम]
→ देवाँय् + अच्छा [<<भोभगोअघोअपूर्वस्य योऽशि>> 8.3.17 इति यकारादेशः]
→ देवाँ अच्छा [<<लोपः शाकल्यस्य>> 8.3.19 इति यकारलोपः]
दलकृत्यम्
1. रुँ-वर्णस्य इति किमर्थम् ? पदान्ते विद्यमानस्य रेफस्य अनेन सूत्रेण यकारादेशः न भवति । यथा,
पुनर् गच्छति इत्यत्र पदान्ते केवलं रेफः विद्यते, न हि रुँ-वर्णः, अतः संहितायाम् सत्याम् अपि अस्य रेफस्य अश्-वर्णे परे (गकारे परे) प्रकृतसूत्रेण यकारादेशः न भवति, अपि तु केवलम् वर्णमेलनम् कृत्वा
पुनर्गच्छति इति रूपं सिद्ध्यति ।
2. अकारात् / आकारात् परस्य रुँ-वर्णस्य इति किमर्थम् ? यत्र रुँ-वर्णात् पूर्वम् अन्यः वर्णः विद्यते, तत्र प्रकृतसूत्रेण यकारादेशः न भवति । यथा, 'मुनि + सुँ + इति' इत्यत्र सुँ-प्रत्ययस्य रुँत्वे कृते तस्य यकारादेशः न भवति । प्रक्रिया इयम् —
मुनि + सुँ + इति [प्रथमैकवचनस्य सुँ-प्रत्ययः]
→ मुनि + रुँ + इति [<ससजुषो रुँः>> 8.2.66 इति रुँत्वम्]
→ मुनि + र् + इति [<<उपदेशेऽजनुनासिक इत्>> 1.3.2 इति उकारस्य इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः]
→ मुनिरिति [अत्र पदान्त-रुँ-वर्णस्य अश्-वर्णे परे प्रकृतसूत्रेण यकारादेशः न भवति, यतः रेफात् पूर्वम् अवर्णः न विद्यते । अतः अत्र केवलम् वर्णमेलनं कृत्वा रूपं सिद्ध्यति ।]
3. अश्-वर्णे परे इति किमर्थम् ? यदि पदान्त-रुँवर्णात् परः अश् वर्णः नास्ति, तर्हि तत्र प्रकृतसूत्रम् नैव प्रवर्तते । यथा,
राम + सुँ + तरति इत्यत्र पदान्तसकारस्य रुँत्वे कृते अग्रे अश्-वर्णस्य अभावात् रुँ-इत्यस्य यकारादेशः न भवति —
राम सुँ तरति
→ राम रुँ तरति [<<ससजुषोः रुँः>> 8.2.66 इति पदान्तसकारस्य रुँत्वम् ]
→ रामः तरति [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गादेशः । अत्र रुँ-वर्णात् परः अश्-वर्णः नास्ति अतः अत्र प्रकृतसूत्रं नैव प्रवर्तते ।]
बाध्यबाधकभावः
प्रकृतसूत्रेण अवर्णात् (अकारात् / आकारात्) परस्य रुँ-वर्णस्य अश्-वर्णे परे यकारादेशः विधीयते । परन्तु यत्र रुँ-वर्णात् पूर्वम् ह्रस्वः अकारः अस्ति, तत्र द्वयोः स्थलयोः प्रकृतसूत्रस्य सपादसप्ताध्याय्याः सूत्राभ्याम् बाधः भवति । एते स्थले एतादृशे —
1. ह्रस्व-अकारात् परस्य पदान्त-रुँ-वर्णस्य ह्रस्व-अकारे परे <<अतो रोरप्लुतादप्लुते>> 6.1.113 इति उकारादेशः भवति । यथा —
राम + सुँ + अस्ति
→ राम + रुँ + अस्ति [<<ससजुषो रुः>> 8.2.66 इति रुँत्वम्]
→ राम + उ + अस्ति [<<भोभगोअघोअपूर्वस्य योऽशि>> 8.3.17 इत्यनेन अश्-वर्णे परे पदान्त-रुँ-वर्णस्य यकारादेशे प्राप्ते; तस्य असिद्धत्वात् <<अतो रोरप्लुतादप्लुते>> 6.1.113 इति सपादसप्ताध्यायीसूत्रेण अत्र उकारादेशः भवति । <<अतो रोरप्लुतादप्लुते>> 6.1.113 इत्यस्य कृते <<ससजुषो रुः>> 8.2.66 इति सूत्रम् तु आश्रयात् सिद्धम् एव ज्ञेयम् ।]
→ रामो अस्ति [<<आद्गुणः>> 6.1.87 इति गुणैकादेशः]
→ रामोऽस्ति [<<एङः पदान्तादति>> 6.1.109 इति पूर्वरूपैकादेशः]
2. ह्रस्व-अकारात् परस्य पदान्त-रुँ-वर्णस्य हश्-वर्णे परे (मृदुव्यञ्जने परे) <<हशि च>> 6.1.114 इति उकारादेशः भवति । यथा —
राम + सुँ + गच्छति
→ राम + रुँ + गच्छति [<<ससजुषो रुः>> 8.2.66 इति रुँत्वम्]
→ राम + उ + गच्छति [<<भोभगोअघोअपूर्वस्य योऽशि>> 8.3.17 इत्यनेन अश्-वर्णे परे पदान्त-रुँ-वर्णस्य यकारादेशे प्राप्ते; तस्य असिद्धत्वात् <<हशि च>> 6.1.114 ] इति सपादसप्ताध्यायीसूत्रेण अत्र उकारादेशः भवति । <<हशि च>> 6.1.114 इत्यस्य कृते <<ससजुषो रुः>> 8.2.66 इति सूत्रम् तु आश्रयात् सिद्धम् एव ज्ञेयम् ।]
→ रामो गच्छति [<<आद्गुणः>> 6.1.87 इति गुणैकादेशः]
एतौ द्वौ अपवादौ / बाधकौ विहाय अन्यत्र सर्वत्र अवर्णात् परस्य पदान्त-रुँ-वर्णस्य अश्-वर्णे परे यकारादेशः एव भवति ।
सूत्रे 'अशि' शब्दग्रहणम् व्यर्थम्
अस्मिन् सूत्रे 'अशि' इति शब्दः वस्तुतः अनावश्यकः अस्ति । <<भोभगोअघोअपूर्वस्य यः>> इत्येव सूत्रम् क्रियते चेदपि खर्-वर्ण परे <<खरवसानयोर्विसर्जनीयः>>
8.3.15 इति पूर्वसूत्रेण रुँ-इत्यस्य विसर्गादेश: एव भवेत्, अतः तद्भिन्नस्थलेषु (इत्युक्ते, अश्-वर्णे परे एव) <<भोभगोअघोअपूर्वस्य यः>> इत्यनेन यकारादेशः सम्भवति । तथापि अस्मिन् सूत्रे 'अशि' इति विशिष्टनिर्देशः कृतः अस्ति । एतद् ग्रहणम् उत्तरसूत्रार्थम् अस्ति इति अस्य सूत्रस्य भाष्ये स्पष्टीक्रियते ।
सिद्धान्तकौमुद्यां दीक्षितेन तु —
अशि इति ग्रहणम् विसर्गस्य यकारादेशनिषेधार्थम् क्रियते — इति कश्चन पक्षः उपस्थापितः अस्ति । इत्युक्ते,
राम सुँ तरति एतादृशेषु स्थलेषु सुँ-प्रत्ययस्य रुँत्वे कृते, ततः <<खरवसानयोर्विसर्जनीयः>>
8.3.15 इत्यनेन रेफस्य विसर्गादेशे कृते, <<स्थानिवदादेशोऽनल्विधौ>>
1.1.56 इति स्थानिवद्भावेन विसर्गस्य स्थाने रुँ इति (अनेकाल्-स्थानिनम्) गृहीत्वा पदान्तरुँवर्णस्य <<पुनः प्रसङ्गविज्ञानात् सिद्धम्>> इति परिभाषया <<भोभगोअघोअपूर्वस्य यः>> इत्यनेन यः यकारादेशः सम्भवति, तस्य निवारणार्थम् अस्मिन् सूत्रे 'अशि' इति स्पष्टः निर्देशः क्रियते — इति अत्र दीक्षितमतम् । अस्मिन् सन्दर्भे कौमुद्याम्, बालमनोरमायां च एतादृशं विवरणं लभ्यते —
देवाः सन्ति । यद्यपि इति यत्वस्य असिद्धत्वात् विसर्गः लभ्यते, तथापि विसर्गस्य स्थानिवद्भावेन रुत्वात् यत्वं स्यात् । न हि अयम् अल्विधिः । रोः इति समुदायरूपाश्रयणात् । — सिद्धान्तकौमुदी
ननु इह अश्-ग्रहणं व्यर्थम् । न च 'देवार्-सन्ति' इति स्थिते रेफस्य यत्वव्यावृत्त्यर्थं तद् इति वाच्यम् ; यत्वस्य असिद्धतया विसर्गे सति सत्वे 'देवास्सन्ति' इति सिद्धेः ।... अस्तु यत्वस्य असिद्धत्वात् रेफस्य विसर्गः, तथापि तस्य स्थानिवद्भावेन रुत्वात् यत्वं दुर्वारम् । अतः अश्-ग्रहणम् आवश्यकम् इति भावः । ननु यत्वविधौ विसर्गस्य स्थानिवद्भावेन कथं रुत्वम्, अनल्विधौ इति निषेधात् ? ... यद्यपि यत्वविधिः विसर्गस्थानिभूतं रेफम् आश्रयति, तथापि न अल्विधिः । ह्रस्वत्वादिरूपवर्णमात्रवृत्तिधर्मपुरस्कारेण स्थान्यलाश्रयत्वस्य तत्र विवक्षितत्वात् । प्रकृते च यत्वविधिः रुत्वेनैव रेफम् आश्रयति न तु रेफत्वेन, तथा सति प्रातरत्र इत्यादौ अतिव्याप्तेः । रुत्वं च रेफ-उकारसमुदायधर्मः, न तु रेफमात्रवृत्तिः । अतः यत्वे कर्तव्ये विसर्गस्य स्थानिवद्भावेन रुत्वात् यत्वं स्यात् । अतः अशि इति परनिमित्तम् आश्रितम् इति भावः ।— बालमनोरमा
परन्तु लघुशब्देन्दुशेखरे नागेशेन अस्य पक्षस्य खण्डनं कृतम् अस्ति । अस्मिन् विषये अधिकम् ज्ञातुम् मूलग्रन्थः एव द्रष्टव्यः ।
'असन्धिः सौत्रः' इति दीक्षितमतम् चिन्त्यम्
अस्मिन् सूत्रे प्रयुक्ताः
भो, भगो, अघो एते शब्दाः सिद्धान्तकौमुद्याम् दीक्षितेन ओकारान्ताः स्वीकृताः सन्ति । अस्यां स्थितौ सूत्रनिर्माणसमये वस्तुतः <<एङः पदान्तादति>>
6.1.109 इत्यनेन पूर्वरूपैकादेशं कृत्वा
भोभगोऽघोऽपूर्वस्य इति निर्देशः भवेत् । परन्तु पाणिनिना तादृशः सन्धिः अत्र न कृतः दृश्यते । अयम् असन्धिः सौत्रः (सूत्रविशिष्टः, भाषायाम् उपयोक्तुम् अनुचितः) — इति अत्र दीक्षितस्य अभिप्रायः वर्तते । अयं पक्षः वस्तुतस्तु चिन्त्यः एव । अत्र विद्यमानाः
भो, भगो, अघो एते शब्दाः मूलरूपेण
भोस्, भगोस्, अघोस् इति सकारान्ताः सन्ति, तेषु विद्यमानस्य सकारस्य रुत्वे यकारः, तस्य च लोपे कृते
भोभगोअघोअपूर्वस्य इति शब्दः सिद्ध्यति, तत्र लोपस्य असिद्धत्वात् <<एङः पदान्तादति>>
6.1.109 इत्यस्य नैव प्रसक्तिः भवति, अतः अत्र
भोभगोअघोअपूर्वस्य इत्येव शब्दः उचितः अस्ति । दीक्षितेन प्रौढमनोरमायां स्वयम् अपि अयमेव पक्षः अङ्गीकृतः दृश्यते ।
भगोस्, अघोस् एतयोः पुंलिङ्गस्य एकवचनस्य रूपैः सह एव प्रयोगः
भगोस् तथा
अघोस् एतयोः निपातयोः केवलम् पुंलिङ्गे-एकवचनस्य रूपैः सह एव प्रयोगः साहित्ये उपलभ्यते — इति दीक्षितः प्रौढमनोरमायां वदति । अन्यैः रूपैः सह एतेषां प्रयोगः क्रियते चेत् न कश्चन व्याकरणदोषः, परन्तु तादृशाः प्रयोगाः नैव दृष्टाः — इति तस्य अत्र आशयः वर्तते ।
Balamanorama Up
<<भोभगोऽघोऽपूर्वस्य योऽशि>> - भोभगो ।रोस्सुपी॑त्यतोरो॑रि त्यनुवर्तते । भो भगो अघो अ इत्येषां द्वन्द्वः । एतो पूर्वे यस्मादिति बहुव्रीहिः । पूर्वशब्दश्च प्रत्येकं संबध्यते — भोपूर्वकस्य भगोपूर्वकस्य अघोपूर्वकस्य अकारपूर्वकस्य च रोरिति । तदाह — एतत्पूर्वकस्येति । अत्र सूत्रे भगो अघो इत्यत्र, अघो अपूर्वस्येत्यत्र च एङः पदान्तादतीति पूर्वरूपमाशङ्क्याह — असन्धिरिति । सन्ध्यभावः सूत्रप्रयुक्त इत्यर्थः ।कृतलब्धे॑त्यण् । देवाय् इह इति स्थिते सस्य रुः । तस्य अश्परकत्वाभावाद्यत्वं न । किन्तु विसर्गः ।विसर्जनीयस्य सः॑ । नन्विह अश्ग्रहणं व्यर्थम् । नच देवार् — सन्तीति स्थिते रेफस्य यत्वव्यावृत्त्यर्थं तदिति वाच्यं यत्वस्याऽसिद्धतया विसर्गे सति सत्वे देवास्सन्तीति सिद्धेरिति शङ्कते — यद्यपीति । परिहरति-तथापीति । अस्तु यत्वस्यासिद्धत्वाद्रेफस्य विसर्गः, तथापि तस्य स्थानिवद्भावेन रुत्वाद्यत्वं दुर्वारम् । अतोऽश्ग्रहणमावश्यकमिति भावः । ननु यत्वविधौ विसर्गस्य स्थानिवद्भावेन कथं रुत्वम् । अनल्विधाविति निषेधात् । विसर्गस्थानिभूतं रेफमाश्रित्य प्रवर्तमानस्य यत्वविधेः स्थान्यलाश्रयत्वादित्यत आह — न ह्रमल्विधिरिति । कुत इत्यत आह — रोरिति समुदायरूपाश्रयणादिति । यद्यपि यत्वविधिर्विसर्गस्थानिभूतं रेफमाश्रयति, तथापि नाऽल्विधिः । ह्रस्वत्वादिरूपवर्णमात्रवृत्तिधर्मपुरस्कारेण स्थान्यलाश्रयत्वस्य तत्र विवक्षितत्वात् । प्रकृते च यत्वविधी रुत्वेनैव रेफमाश्रयति नतु रेफत्वेन, तथा सति प्रातरत्रेत्यादावतिव्याप्तेः । रुत्वं च रेफोकारसमुदायधर्मो न तु रेफमात्रवृत्ति । अतो यत्वविधिर्विसर्गस्थानिभूतं न रेफं वर्णमात्रवृत्तिधर्मपुरस्कारेणाश्रयतीति नाल्विधिः । अतो यत्वे कर्तव्ये विसर्गस्य स्थानिवद्भावेन रुत्वाद्यत्वं स्यात् । अतोऽशीति परनिमित्तमाश्रितमिति भावः । निपाता इति । चादेराकृतिगणत्वादिति भावः । रोर्यत्वे कृत इति ।भोभगोअघो इत्यनेने॑ति शेषः । 'भोय्-अच्युत' इति स्थितेलोपश्शाकल्यस्ये॑ति न भवति, यकारस्य अपूर्वकत्वाऽभावात् ।
Padamanjari Up
अश्ग्रहणमनर्थकमन्यत्राभावात्, अशोऽन्यः खर्भवति, तत्र च'पूर्वत्रासिद्धम्' इति यत्वस्यासिद्धत्वाद्विसर्जनीयेन भाव्यम्, कृते विसर्जनीये स्थानिवद्भावाद् रुग्रहणे ग्रहणात् स्यात्प्रसङ्ग इति चेत् ? न; अल्स्थानिकत्वात् । अत्र हि रोर्यो रेफस्य विसर्जनीयस्य स्थानी, न पुना रुरेव । किञ्च - यत्वस्याप्यस्य रोर्यो रेफः स एव स्थानी, न पुना रुरेव । तस्मादल्विधित्वादपि नास्ति स्थानिवद्भावः । संहिताधिकाराच्चावसाने यत्वं न भविष्यति, तस्मादश्ग्रहणमनर्थकम् ? इत्यत आह - अश्ग्रहणमुतरार्थमिति । एतदेव व्यनक्ति - हलि सर्वेषामिति । वृक्षवयतेरप्रत्यय इति । स पुनर्विच, न क्विप् । क्विपि हि एकदेशविकृतस्यानन्यत्वाद्वयति ग्रहणेन ग्रहणाद्वकारस्य सम्प्रसारणं स्यात् ।'लोपो व्योर्वलि' इति वलोपः । स्थानिवत्वं च णेरत्र क्वौ लुप्तत्वान्न विद्यते । विचि तु णिलोपस्य स्थानिवद्भावाद्वलोपो नास्ति । सम्प्रसारणस्य त्वप्रसङ्ग एव ।'हलि सर्वेषाम्' इत्यनेन तु लोपे कर्तव्ये'पूर्वत्रासिद्धे न स्थानिवत्' इति स्थानिवत्वनिषेधाद् वलोपः स्यादिति विशेष्यते । अथ ककारे परतः'लोपो व्योः' इति वलोपः कस्मान्न भवति, णिलोपस्य स्थानिवद्भावए नास्ति, पदान्तविधौ प्रतिषेधात्, वकारस्य पदान्तत्वात् ? नैष दोषः; भावसाधनस्त्वत्र विधिशब्दः, ततश्च पदान्ते विधीयमाने स्थानिवत्वनिषेधः । न च लोपः पदान्तः; तस्याभावरूपत्वात् । अथेति । यदि'हलि सर्वेषाम्' इत्यत्राश्ग्रहणस्य प्रयोजनम्, तत्रैवं वक्तव्यम् -'हशि' इति, तत्किं हल्ग्रहणं कृत्वाऽश्ग्रहणेन तद्विशेष्यत इति प्रश्नार्थः । एवकारो भिन्नक्रमः, तत्र हश्ग्रहणमेव कस्मान्न कृतमिति । उतरार्थमिति । यदि तत्र हश्ग्रहणÄ क्रियते,'मो' नुस्वारःऽ इत्यत्र पुनर्हल्ग्रहणं कर्तव्यम् । हल्मात्रे यथा स्यादिति । सर्वथोभाभ्यां ग्रहणाभ्यां न मुच्यामहे इति भावः । तथाप्यत्राश्ग्रहणानुरोधे प्रयोजनं वक्तव्यम् ? तदाह - व्योर्लघुप्रयत्नतर इति ॥