8-2-61 नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि पदस्य पूर्वत्र असिद्धम् निष्ठातः नः न
नसत्त निषत्त अनुत्त प्रतूर्त सूर्त गूर्त इत्येतानि छन्दसि विषये निपात्यन्ते। नसत्त निषत्तेति सदेर्नञ्पूर्वाद् निपूर्वात् च नत्वाभावो निपात्यते। नसत्तमञ्जसा। नसन्नमिति भाषायाम्। निष॑त्तः (ऋ०१.५८.३)। निषण्ण इति भाषायाम्। अनुत्तमित्युन्देर्नञ्पूर्वस्य निपातनम्। अनु॑त्त॒मा ते॑ मघव॒न् (ऋ० १.१६५.९)। अनुन्नमिति भाषायाम्। प्रतूर्तमिति त्वरतेः, तुर्वी इत्येतस्य वा निपातनम्। प्रतू॑र्तं वाजि॒न् (तै०सं० ४.१.२.१)। प्रतूर्णमिति भाषायाम्। सूर्तमिति सृ इत्येतस्योत्वं निपात्यते। सूर्ता गावः। सृता गाव इति भाषायाम्। गूर्तमिति गूरी इत्येतस्य नत्वाभावो निपात्यते। गूर्ता अ॒मृत॑स्य॒ (मा०सं० ६.३४)। गूर्णमिति भाषायाम्॥
सदेर्नञ्पूर्वान्निपूर्वाच्च निष्ठायां नत्वाभावो निपात्यते । नसत्तमञ्जसा । निपत्तमस्य चरतः । असन्नं निषण्णमिति प्राप्ते । उन्देर्नञ्पूर्वस्यानुत्तम् । प्रतूर्तमिति त्वरतेः, तुर्वीत्यस्य वा । सूर्तमिति सृ इत्यस्य । गूर्तमिति गुरी इत्यस्य ॥
नसतेत्यादीनामनुकरणपदानां द्वन्द्वः । निषतमिति ।'सदिरप्रतेः' इति षत्वम् । अनुन्नमिति भाषायामिति ।'नुदविदोन्दत्रा' इति विकल्पो न भवति; एतन्निपातानारम्भसामर्थ्यादित्याहुः । प्रतूर्तमिति । यदा त्वरतेः, तदा'ज्वरत्वर' इत्यादिना ऊठ् । उदा तु'तुर्वीहिंसायाम्' इत्यस्य, तदा राल्लोपःऽ। उत्वमिति । रपरत्वम् ठुरण् रपरःऽ इत्यव सिद्धम्; परभाषाणामसिद्धप्रकरणेऽपि प्रवृतेः ॥