क्तक्तवतू निष्ठा
1-1-26 क्तक्तवतू निष्ठा
Sampurna sutra
Up
क्त-क्तवतू निष्ठा
Neelesh Sanskrit Brief
Up
'क्त' तथा 'क्तवतु' एतौ प्रत्ययौ निष्ठासंज्ञकौ स्तः ।
Neelesh English Brief
Up
The 'क्त' and 'क्तवतु' pratyayas are called 'निष्ठा'.
Kashika
Up
क्तश्च क्तवतुश्च क्तक्तवतू प्रत्ययौ निष्ठासंज्ञौ भवतः। कृतः। कृतवान्। भुक्तः। भुक्तवान्। ककारः कित्कार्यार्थः। उकार उगित्कार्यार्थः। निष्ठाप्रदेशाः — <<श्वीदितो निष्ठायाम्>> ७.२.१४ इत्येवमादयः॥
Siddhanta Kaumudi
Up
एतौ निष्ठासंज्ञौ स्तः ॥
Laghu Siddhanta Kaumudi
Up
एतौ निष्ठासंज्ञौ स्तः॥
Neelesh Sanskrit Detailed
Up
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'निष्ठा' इति संज्ञा । 'क्त' तथा 'क्तवतु' एतयोः प्रत्यययोः 'निष्ठा' इति संज्ञा भवति ।
प्रयोजनम्
निष्ठासंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्याम् भिन्नाः विधयः उक्ताः सन्ति । यथा, दकारान्तधातोः परः निष्ठाप्रत्ययः विद्यते चेत् निष्ठाप्रत्ययस्य तकारस्य तथा च धातोः अन्ते विद्यमानस्य दकारस्य - उभयोः अपि <<रदाभ्यां निष्ठातो नः पूर्वस्य च दः>>
8.2.42 इत्यनेन सूत्रेण नकारादेशः भवति -
भिद् + क्त [<<निष्ठा>> 3.2.102 इति क्त-प्रत्ययविधानम्]
--> भिद् + त [इत्संज्ञालोपः]
--> भिन् + न [<<रदाभ्यां निष्ठातो नः पूर्वस्य च दः>> 8.2.42 इति दकारस्य नकारः, निष्ठाप्रत्ययस्य तकारस्य अपि नकारः]
--> भिन्न
प्रयोगः
अष्टाध्याय्यां निष्ठासंज्ञायाः साक्षात् प्रयोगः चतुर्दशसु सूत्रेषु कृतः अस्ति -
1. <<निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः>>
1.2.19
2. <<निष्ठा>>
2.2.36
3. <<न लोकाव्ययनिष्ठाखलर्थतृनाम्>>
2.3.69
4. <<निष्ठा>>
3.2.102
5. <<स्फायः स्फी निष्ठायाम्>>
6.1.22
6. <<निष्ठा च द्व्यजनात्>>
6.1.205
7. <<निष्ठोपसर्गपूर्वमन्यतरस्याम्>>
6.2.110
8. <<निष्ठोपमानादन्यतरस्याम्>>
6.2.169
9. <<निष्ठायां सेटि>>
6.4.52
10. <<निष्ठायामण्यदर्थे>>
6.4.60
11. <<ह्लादो निष्ठायाम्>>
6.4.95
12. <<श्वीदितो निष्ठायाम्>>
7.2.14
13. <<इण्निष्ठायाम्>>
7.2.47
14. <<रदाभ्यां निष्ठातो नः पूर्वस्य च दः>>
8.2.42
अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति ।
क्तवतुँप्रत्यये इत्संज्ञक-उकारस्य प्रयोजनम्
'क्तवतु' प्रत्यये उकारः इत्संज्ञकः अस्ति । अस्य एकं प्रयोजनम् अस्ति <<उगिदचां सर्वनामस्थाने अधातोः>>
7.1.70 इत्यनेन सर्वनामस्थाने परे नुमागमः । वस्तुतस्तु अस्मिन् प्रत्यये उकारस्य स्थाने इत्संज्ञकः ऋकारः स्थाप्यते चेत् (इत्युक्ते , 'क्तवतृँ' इति प्रत्ययः निर्मीयते चेत्) अपि अनेन एव सूत्रेण नुमागमः भवितुम् अर्हति । तथापि अत्र पाणिनिना इत्संज्ञकः उकारः एव स्थाप्यते । अयम् उकारः <<अत्वसन्तस्य चाधातोः>>
6.4.14 इति सूत्रेण प्रथमैकवचनस्य रूपे उपधादीर्घत्वम् कारयितुम् स्थापितः अस्ति -
पठितवत् + सुँ
--> पठितवत् + स् [इत्संज्ञालोपः]
--> पठितवात् + स् [<<अत्वसन्तस्य चाधातोः>> 6.4.14 इति 'अतुँ' प्रत्ययान्तस्य अङ्गस्य उपधादीर्घः]
--> पठितवा नुम् त् + स् [<<उगिदचां सर्वनामस्थाने अधातोः>> 7.1.70 इत्यनेन सर्वनामस्थाने परे अङ्गस्य नुमागमः । अत्र दीर्घे कृते एव नुमागमः भवति इति कौमुदीवचनम् ]
--> पठितवा न् त् स् [मकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः । उकारः उच्चारणार्थः, सोऽपि लुप्यते ।]
--> पठितवान् त् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति अपृक्त-सुँ-प्रत्ययस्य लोपः]
--> पठितवान् [<<संयोगान्तस्य लोपः>> 8.2.23 इति तकारलोपः]
अत्र 'क्तवतृँ' इति प्रत्ययः क्रियते चेत् उपधादीर्घः नैव सिद्ध्येत्, अतः अत्र 'क्तवतुँ' इति उकारनिर्देशः एव आवश्यकः ।
इतरेतराश्रयः
<<क्तक्तवतू निष्ठा>>
1.1.26 इत्यनेन सूत्रेण 'क्त' तथा 'क्ववतुँ' एतयोः
प्रत्यययोः निष्ठासंज्ञा भवति । इत्युक्ते, एतयोः शब्दयोः प्रारम्भे प्रत्ययसंज्ञा भवेत्, ततः एव एतयोः निष्ठासंज्ञा अपि भवितुम् अर्हति । परन्तु एतयोः शब्दयोः प्रत्ययसंज्ञा तु <<निष्ठा>>
3.2.102 इत्यनेनैव सूत्रैण भवति । इत्युक्ते, अत्र कश्चन इतरेतराश्रयः (cyclic dependency) दृश्यते -
अ) <<निष्ठा>>
3.2.102 इत्यनेन निष्ठासंज्ञकौ क्तक्तवतुँशब्दौ प्रत्ययौ भूते भवतः - इति निष्ठासंज्ञाश्रिता प्रत्ययसंज्ञा ।
आ) <<क्तक्तवतू निष्ठा>>
1.1.26 इत्यनेन क्तक्तवतुँप्रत्यययोः निष्ठासंज्ञा भवति - इति प्रत्ययसंज्ञाश्रिता निष्ठासंज्ञा ।
अस्य इतरेतराश्रयस्य समाधानम् कर्तुम् भाष्यकारः <<निष्ठा>>
3.2.102 अस्मिन् सूत्रे प्रयुक्ताम् 'निष्ठा'संज्ञाम् 'भाविनी'संज्ञारूपेण बोधयति । भाविनी इत्युक्ते 'अग्रे या भविष्यति सा' । 'येषाम् प्रत्ययत्वे प्राप्ते निष्ठासंज्ञा भवेत्, तौ क्तत्ववतुशब्दौ निष्ठासंज्ञया अत्र गृह्येते, तयोः च भूतकाले प्रयोगः भवति' इति <<निष्ठा>>
3.2.102 सूत्रस्य भाष्यकारेण उक्तः आशयः अस्ति ।
Balamanorama
Up
<<क्तक्तवतू निष्ठा>> - क्तक्तवतू निष्ठा । क्त, क्तवतु अनयोद्र्वन्द्वः । निष्ठेति प्रत्येकाभिप्रायमेकवचनम् ।
Padamanjari
Up
इह क्तक्तवतुरूपाश्रयेयं संज्ञा, रूपनिर्ग्रहश्च प्रयोगे उपदेशे वा भवति । न च प्रयोगे सानुबन्धकं रूपमस्तीत्युपदेशगतं ग्राह्यम् । तत्र ङपुंसके भावे क्तः' 'ञीतः' इति क्तस्य क्वचिदुपदेशोऽस्ति । यदि तस्यैव स्याद्, लिङ्गान्तरे,कालान्तरे धात्वन्तरे च न स्यात् । क्तवतोस्तु न क्वचिदुपदेशः, तत्केनविहितयोः क्तक्तवत्वोरेषा संज्ञा विधीयते ? अनयैव संज्ञया । वक्ष्यति - निष्ठेति । यद्येवम्, इतरेतराश्रयः प्राप्नोति-विहितयोः संज्ञा, संज्ञया च विधानमिति, नैष दोषः; भाविनी संज्ञा विज्ञायते सूत्रशाटकवत् । तद्यथा-कश्चित्कञ्चित् तन्तुवायमाह-अस्य सूत्रस्य शाटकं वयेति । स पश्यति-यदि शाटको न वातव्यः; अथ वातव्यो न शाटकः; शाटको वातव्यश्चेति विप्रतिषिद्धम्; स मन्ये वातव्यो यस्मिन्नुते शाटक इत्येतद्भवतीति । तद्वदिहापि तौ भूते काले भवतः, ययोर्विहितयोर्निष्ठेत्येषा संज्ञा भविष्यतीति ॥