8-2-31 हः ढः पदस्य पूर्वत्र असिद्धम् झलि अन्ते
index: 8.2.31 sutra: हो ढः
हः ढः झलि पदस्य अन्ते
index: 8.2.31 sutra: हो ढः
हकारस्य पदान्ते झलि परे वा ढकारादेशः भवति ।
index: 8.2.31 sutra: हो ढः
A हकार is converted to a ढकार at पदान्त or when followed by a झल् letter.
index: 8.2.31 sutra: हो ढः
हकारस्य ढकारदेशो भवति झलि परतः पदान्ते च। सोढा। सोढुम्। सोढव्यम्। जलाषात्। वोढा। वोढुम्। वोढव्यम्। प्रष्ठवाट्। दित्यवाट्।
index: 8.2.31 sutra: हो ढः
॥ अथ हलन्तपुंलिङ्गप्रकरणम् ॥
हस्य ढः स्याज्झलि पदान्ते च । हल्ङ्याब् <{SK252}> इति सुलोपः । पदान्तत्वाद्धस्य ढः । जश्त्वचर्त्वे । लिट् । लिड् । लिहौ । लिहः । लिहम् । लिहौ । लिहः । लिहा । लिड्भ्याम् । लिट्त्सु । लिट्सु ॥
index: 8.2.31 sutra: हो ढः
हस्य ढः स्याज्झलि पदान्ते च। लिट्, लिड्। लिहौ। लिहः। लिड्भ्याम्। लिट्त्सु, लिट्सु॥
index: 8.2.31 sutra: हो ढः
पदान्ते विद्यमानस्य हकारस्य नित्यम् ढकारादेशः भवति । अपदान्ते विद्यमानस्य हकारस्य झलि परे ढकारादेशः भवति ।
यथा -
1) 'मधुलिह्' इत्यस्य हकारान्तपुंलिङ्गशब्दस्य तृतीयैकवचनस्य रूपम् -
मधुलिह् + भ्याम् [तृतीयैकवचनस्य प्रत्ययः]
→ मधुलिढ् + भ्याम् [स्वादिष्वसर्वनामस्थाने 1.4.17 इति 'लिह्' इत्यस्य पदसंज्ञा । अतः हकारस्य हो ढः 8.2.31 इति ढकारः ।]
→ मधुलिड् भ्याम् [झलां जशोऽन्ते 8.2.39 इति जश्त्वम् ।]
→ मधुलिड्भ्याम् ।
2) गुहुँ (संवरणे) अस्य धातोः क्त-प्रत्यये प्रक्रिया इयम् -
गुह् + क्त [निष्ठा 3.2.102 इति क्त-प्रत्ययः]
→ गुढ् + त [अपदान्तहकारस्य हो ढः 8.2.31 इति झलि परे ढकारः]
→ गुढ् + ध [झषस्तथोर्धोऽधः 8.2.40 इत्यनेन तकारस्य धकारः]
→ गुढ् + ढ [ष्टुना ष्टुः 8.4.41 इति ष्टुत्वे धकारस्य ढकारः]
→ गुढ [ढो ढे लोपः 8.3.13 इति ढकारे परे ढकारस्य लोपः । ष्टुत्वमस्य कृते सिद्धमस्ति ।]
→ गूढ [ढ्रलोपे पूर्वस्य दीर्घोणः 6.3.111 इति उकारस्य दीर्घः । ढकारलोपः अस्य कृते सिद्धः अस्ति ।]
index: 8.2.31 sutra: हो ढः
नहो धः - अथ हान्ताः । 'णह बन्धने'णो नः॑ । उपनह्रते इति विग्रहे उपपूर्वात्संपदादित्वात्कर्मणि क्विप् ।नहिवृती॑त्यादिना पूर्वपदस्य दीर्घः । उपानह्शब्दः स्त्रीलिङ्गः — पादुकावाची । 'पादूरुपानत्स्त्री' इत्यमरः । नहो धः । 'हो ढः' इत्यतो 'ह' इत्यनुवर्तते ।पदस्ये॑त्यधिकृतम् ।स्कोः संयोगे॑त्यतोऽन्ते इत्यनुवर्तते ।झलो झली॑त्यतोझली॑त्यनुवर्तते । तदाह — नहो हस्येत्यादिना । 'हो ढः' इति ढत्वापवादः । उपानदिति । उपानह्शब्दात्सोर्हल्ङ्यादिलोपः, हस्य धः, जश्त्वचर्त्वे इति भावः । अत्र दकार एव तु न विहितः, तथा सतिनद्ध॑मित्यत्ररदाभ्या॑मिति नत्वप्रसङ्गादित्यलम् । उपानद्भ्यामिति । हस्य धत्वे जश्त्वमिति भावः । उपानत्स्विति । धत्वेखरि चे॑ति चर्त्वमिति भावः । उष्णिहशब्दश्छन्दोविशेषवाची स्त्रीलिङ्गः । तुं व्युत्पादयितुमाह — ष्णिह प्रीतावित्यादिना । दलोपषत्वे इति । उदो दकारस्य लोपः, सस्य षत्वं च निपात्यत इत्यर्थः । न च 'धात्वादेः षः सः' इति कृतसकारस्य 'आदेशप्रत्यययोः' इत्येव षत्वे सिद्धे किं तन्नि पातनेन इति वाच्यं, सात्पदाद्यो॑रिति निषेधबाधनार्थं षत्वनिपातनस्यावश्यकत्वात् । न च उष्णिह्शब्दात्समासात्सुबुत्पत्तेः पूर्वं स्निहित्येतन्न पदम् । नितरां सकारस्य पदादित्वमिति वाच्यं,पदादादि॑रिति पक्षे षत्वनिषेधप्रसक्तेरित्याहुः । हस्य घ इति । घोषनादसंवारमहाप्राणसाम्यादिति भावः । नचक्विन्प्रत्ययस्ये॑ति कुत्वस्याऽसिद्धत्वाद्धो ढ इति ढत्वमेवोचितमिति वाच्यं,षत्वापवादः कुत्व॑मिति कैयटादिमते तुल्यन्यायतया षत्वस्येव ढत्वस्यापि कुत्वेन बाधात् । जश्त्वचर्त्वे इति । नच जश्त्वे कर्तव्येक्विन्प्रत्ययस्य कु॑रिति कुत्वस्याऽसिद्धत्वं शङ्क्यम्, 'उष्णिगञ्चु' इति निर्देशेन जश्त्वे कर्तव्ये कुत्वस्याऽसिद्धत्वाऽभावज्ञापनात् । वस्तुतस्तुक्विन्प्रत्ययस्य कु॑रिति कुत्वं षत्वापवादो न भवती॑ति मूलकारमते तुल्यन्यायाड्ढत्वस्यापि नापवादः । ततश्च तद्रीत्या ढडगका इति बोध्यम् । इति हान्ताः । अथ वान्ताः । द्यौरिति । दिव्शब्दः स्त्रीलिङ्गः ।द्यौदिवौ द्वे स्त्रिया॑मित्यमरः । तस्मात्सुः,दिव औ॑दिति वकारस्य औकारः, इकारस्य यण्, रुत्वविसर्गौ । सुलोपस्य औत्त्वस्थानिभूतवकाराश्रयत्वेनाल्विधित्वात्स्थानिवत्त्वाभावान्न हल्ङ्यादिलोप इति भावः । द्युभ्यामिति । भ्यामादौ हलिदिव उदि॑त्युत्त्वमिति भावः । इति वान्ताः । अथ रान्ताः । गीरिति ।गृ निगरणे॑क्विप् ,ॠत इद्दातो॑रितीत्त्वं रपरत्वं, गिर्शब्दात्सुबुत्पत्तिः, सोर्लोपः, र्लोरुपधायाः॑ इति दीर्घः, रेफस्य विसर्ग इति भावः । भ्यामादौ तु हलि 'र्वोः' इति दीर्घः, गीभ्र्यामित्यादि । गीर्षु । एवं पूरिति । गीर्वदित्यर्थः । 'पृ पालनपूरणयोः' क्विप्,उदोष्ठपूर्वस्ये॑त्युत्त्वं, रपरत्वम् । पुर्शब्दात्सोर्लोपः,र्वो॑रिति दीर्घः, रेफस्य विसर्ग इति भावः । चतरुआआदेश इति । जश्शसोः स्त्रीलिङ्गस्य चतुर्शब्दस्यत्रिचतुरोः स्त्रिया॑मित्यनेनेति भावः । चतरुआ इति । परत्वा॒च्चतुरनडुहो॑रित्यमानं बाधित्वा चतसृभावे यण् । चतसृभावे कृते आम्तु न,विप्रतिषेधे यद्बाधितं तद्बाधितमेवे॑ति न्यायादिति स्थानिवत्सूत्रे भाष्ये स्पष्टम् । चतसृणामिति । 'न तिसृचतसृ' इति दीर्घनिषेधः । इति रान्ताः । अथ मान्ताः । किम इति । किम्शब्दात्स्त्रीलिङ्गाद्विभक्तौ 'किमः कः' इति प्रकृतेः कादेशे कृतेऽदन्तात्वाट्टाबित्यर्थः । सर्वावदिति । सर्वाशब्दवदित्यर्थः ।सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः॑ इति न, शब्दस्वरूपपरस्य गौणतया कदाऽपि सर्वनामत्वाऽभावादिति भावः ।
index: 8.2.31 sutra: हो ढः
सोढेअति ।'तीषसह' इतीड् विकल्पः । तुराषाडिति ।'च्छन्दसि सहः' इति ण्विः, ठन्येषामपि दृश्यतेऽ इति पूर्वपदस्य दीर्घत्वम्;'सहेः साडः सः' इति षत्वम् । प्रष्ठवाडिति ।'वहश्च' इति ण्विः ॥