8-3-19 लोपः शाकल्यस्य पदस्य पूर्वत्र असिद्धम् संहितायाम् भोभगोअघोअपूर्वस्य अशि व्योः
पदस्य अपूर्वयोः व्योः अशि शाकल्यस्य लोपः
अवर्णात् (अकारात् / आकारात्) परस्य पदान्तवकारस्य पदान्तयकारस्य च संहितायाम् अश्-वर्णे परे शाकल्यस्य मतेन (इत्युक्ते विकल्पेन) लोपः भवति ।
According to Shakalya, a वकार/यकार present at end of a पद and situated after अ/आ gets removed when it is followed by a letter from अश् प्रत्याहार in the context of संहिता.
वकारयकारयोः पदान्तयोरवर्णपूर्वयोर्लोपो भवति शाकल्यस्याचार्यस्य मतेनाशि परतः। क आस्ते, कयास्ते। काक आस्ते, काकयास्ते। अस्मा उद्धर, अस्मायुद्धर। द्वा अत्र द्वावत्र। असा आदित्यः, असावादित्यः। शाकल्यग्रहणं विभाषार्थम्। तेन यदापि लघुप्रयत्नतरो न भवत्यादेशः, तदापि व्योः पक्षे श्रवणं भवति॥
अवर्णपूर्वयोः पदान्तयोर्यवयोर्वा लोपोऽशि परे ॥ पूर्वत्रासिद्धम् <{SK12}> इति लोपशास्त्रस्यासिद्धत्वान्न स्वरसन्धिः । हर एहि । हरयेहि । विष्ण इह । विष्णविह । श्रिया उद्यतः । श्रियायुद्यतः । गुरा उत्कः । गुरावुत्कः ॥ कानि सन्ति कौ स्तः इत्यत्रास्तेरल्लोपस्य स्थानिवत्त्वेन यणावादेशौ प्राप्तौ न पदान्ते <{SK51}> इति सूत्रेण पदान्तविधौ तन्निषेधान्न स्तः ॥
अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोपो वाऽशि परे॥
<<लोपः शाकल्यस्य>> - हरे एहि, विष्णो इह, श्रियै उद्यतः, गुरौ उत्क इत्यत्र एचां क्रमेण अयवायावादेशेषु कृतेषु यकारवकारयोर्वैकल्पिकं लोपं विधत्ते — लोपः शाकल्यस्य । 'भो भगो' इत्यतोऽपूर्वस्येति, अशीति चानुवर्तते ।व्योर्लघुप्रयत्ने॑त्यतो व्योरित्यनुवर्तते । वकारयकारयोरित्यर्थः । अपूर्वस्येति च व्योरित्यस्य विशेषणम् । अवर्णः पूर्वो यस्मात्स अपूर्वः । अपूर्वस्य वस्य यस्य चेति प्रत्येकमन्वयाभिप्रायमेकवचनम् । पदस्येत्यधिकृतमवर्णपूर्वकाभ्यां यकारवकाराभ्यां विशेष्यते । विशेषणत्वाच्च व्योरिति तदन्तता लभ्यते । ततश्चाऽवर्णपूर्वो यो वकारो यकारश्च, तदन्तपदस्य लोपः स्यादशि परत इत्यर्थः । अलो ।ञन्त्यपरिभाषया तादृशपदान्तस्येति लभ्यते । शाकल्यग्रहणान्मतान्तरे न भवतीति गम्यते । ततश्च फलितमाह — अवर्णपूर्वयोरित्यादिना ।व्यो॑रित्यनुवृत्तवपि वर्णसमाम्नाये यकारस्य प्राथम्याद्यवयोरित्युक्तम् । न च शाकल्यवंश्यानामेव पुरुषाणामेतल्लोपानुसरणं नान्येषामिति पुरुषभेदेन व्यवस्थार्थमेव शाकल्यग्रहणं कुतो न स्यादिति वाच्यम्,न वेति विभाषे॑ति सूत्रभाष्येआचार्यदेशशीलने च तद्विषयते॑ति प्रस्तुत्यइको ह्रस्वोऽङ्यो गालवस्य ॑प्राचामवृद्ध#आ॑दित्यादौ गालवाद्याचार्यग्रहणं, प्राचामुदीचामित्यादिदेशविशेषग्रहणं च अविशेषेण विकल्पार्थमेव, नतु तत्तद्वंश्यतत्तद्देशभेदेन प्रयोगव्यवस्थार्थमिति सिद्धान्तितत्वात् । ननु हरे एहीत्यत्र अयादेशे यकारस्य लोपे सतिओमाङोश्चे॑ति पररूपं स्यात् । विष्णो-इह,श्रियै-उद्यतः, गुरौ-उत्क इत्यत्र अवायावादेशेषु वकारयकालोपे आद्गुण #इति गुणः स्यादित्यत आह — पूर्वत्रेति । वकारयकारयोर्लोपस्याऽसिद्धत्वेन ताभ्यां व्यवहिततया.ञच्परकत्वाऽभावादाशङ्कितोऽच्सन्धिर्न भवतीत्यर्थः । तदेवमिक्सन्धिरेच्सन्धिश्च निरूपितः । तदुभयत्रातिप्रसङ्गमाशङ्क्य समाधत्ते — कानीत्यादिना ।यद्यपि, तथापी॑त्यध्याहार्यम् । कानि सन्ति, कौ स्त इत्यत्र यद्यपि यणावादेशो प्राप्तौ तथापि न भवत इत्यन्वयः । नन्वत्र इकारौकारयोः सकारपरकत्वादच्परकत्वाऽभावात् कथं यणावोः प्राप्तिरित्यत आह — अस्तेरल्लोपस्य स्थानिवद्भावेनेति । अस्धातोरादादिकाल्लटिप्रथमपुरुषबहुवचनेसन्ती॑ति रूपम् । प्रथमपुरुषद्विवचने तु 'स्त' इति रूपम् । उभयत्रापि 'श्नसोरल्लोपः' इति धात्वादेरकारस्य लोप इति स्थितिः । तत्राऽल्लोपस्य स्थानिवत्त्वेनाऽच्त्वादिकारौकारयोरच्परकत्लाद्यणावादेशौ प्राप्नुत इत्यर्थः । न च स्थानिवदादेशो ऽनल्विधाविति स्थानिवद्भावोऽत्र न सम्भवति । अल्लोपस्य स्थानिभूतो योऽकारस्तं परं निमित्तत्वेनाश्रित्य प्रवर्तमानयोर्यणावादेशविध्योः स्थान्यलाश्रयत्वादिति वाच्यम्,अचः परस्मिन् पूर्वविधौ॑ इति स्थानिवद्भावोपपत्तेः । अल्लोपस्य क्ङिति परे विधीयमानस्य परनिमित्तकाजादेशतया तत्स्थानीभूतादकारात्पूर्वत्वेन दृष्टयोरिकारोकारयोर्यणावादेशविधौअचः परस्मि॑न्निति प्रवृत्तेरिति भावः ।
अवर्णपूर्वयोरिति । ओकारपूर्वस्य तूतरसूत्रेण तूतरसूत्रेण नित्यं लोपो विधास्यते । शाकल्यग्रहणं विकल्पार्थमिति । ननु लोपोऽप्युच्यते, लघुप्रयत्नतरोऽपि, तावुभौवचनाद्भविष्यतः; तत्किं विकल्पार्थेन शाकल्यग्रहणेन ? अत आह - तेनेति ॥