अट्कुप्वाङ्नुम्व्यवायेऽपि

8-4-2 अट्कुप्वाङ्नुम्व्यवाये अपि पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे

Sampurna sutra

Up

रषाभ्याम् नः णः समानपदे अट्-कु-पु-आङ्-नुम्-व्यवाये अपि

Neelesh Sanskrit Brief

Up

रेफात् षकारात् परस्य नकारस्य णकारादेशः अट्-वर्णस्य, कवर्गीयवर्णस्य, पवर्गीयवर्णस्य, आङ्-अस्य उपसर्गस्य, अनुस्वारस्य च व्यवधाने अपि भवति ।

Neelesh English Brief

Up

a नकार occurring after ष् or र् in the same पद is converted to a णकार even when it is separated from the ष् or र् by one or more letters from the अट् प्रत्याहार, कवर्ग, पवर्ग, आङ् , or अनुस्वार.

Kashika

Up

अट् कु पु आङ् नुम् इत्येतैर्व्यवायेऽपि रेफषकाराभ्यामुत्तरस्य नकारस्य णकार आदेशो भवति। अड्व्यवाये तावत् — करणम्। हरणम्। किरिणा। गिरिणा। कुरुणा। गुरुणा। कवर्गव्यवाये — अर्केण। मूर्खेण। गर्गेण। अर्घेण। पवर्गव्यवाये — दर्पेण। रेफेण। गर्भेण। चर्मणा। वर्मणा। आङ्व्यवाये — पर्याणद्धम्। निराणद्धम्। अड्व्यवाय इति सिद्ध आङ्ग्रहणं <<पदव्यवाये०>> ८.४.३८ इत्यस्य प्रतिषेधस्य बाधनार्थम्। नुम्व्यवाये — बृंहणम्। बृंहणीयम्। नुम्ग्रहणमनुस्वारोपलक्षणार्थं द्रष्टव्यम्। तेन तृंहणम्, तृंहणीयमित्यत्रानुस्वारव्यवाये नुमभावेऽपि णत्वं भवति। सत्यपि च नुमि यत्रानुस्वारो न श्रूयते तत्र न भवति — प्रेन्वनम्, पे्रन्वनीयमिति। व्यवायोपलक्षणार्थत्वादडादीनामिह व्यस्तैः समस्तैश्च व्यवायेऽपि णत्वं भवति॥

Siddhanta Kaumudi

Up

अट्कवर्गपवर्ग आङ् नुम् एतैर्व्यस्तैर्यथासंभवमिलितैश्च व्यवधानेऽपि रषाभ्यां परस्य नस्य णः स्यात्समानपदे । पदव्यवायेऽपी <{SK1057}>ति निषेधं बाधितुमाङ्ग्रहणम् । नुङ्ग्रहणमनुस्वारोपलक्षणार्थम् । तच्चाऽकर्तुं शक्यम् । अयोगवाहानामट्सूपदेशस्योक्तत्वात् । इति णत्वे प्राप्ते ॥

Laghu Siddhanta Kaumudi

Up

अट् कवर्गः पवर्गः आङ् नुम् एतैर्व्यस्तैर्यथासंभवं मिलितैश्च व्यवधानेऽपि रषाभ्यां परस्य नस्य णः समानपदे । इति प्राप्ते ॥

Neelesh Sanskrit Detailed

Up

<<रषाभ्यां नो णः समानपदे>> 8.4.1 अनेन सूत्रेण रेफषकाराभ्याम् परस्य अव्यवहितस्य नकारस्य णकारादेशः विधीयते । वर्तमानसूत्रेण अयं णकारादेशः अट्-वर्णस्य / कवर्गीयवर्णस्य / पवर्गीयवर्णस्य / आङ्-अस्य उपसर्गस्य / अनुस्वारस्य व्यवधाने अपि भवति । उदाहरणानि - 1) स्वरस्य व्यवधानम् - वारि + औट् → वारिणी । 2) हकारस्य स्वरस्य च व्यवधानम् - द्रोह + टा → द्रोहेण । 3) हकारस्य पवर्गस्य स्वरस्य च व्यवधानम् - ब्रह्म + जस् → ब्रह्माणि । 4) पवर्गस्य स्वरस्य च व्यवधानम् - पुष्प + शस् → पुष्पाणि । 5) कवर्गस्य स्वरस्य च व्यवधानम् - मूर्ख + टा → मूर्खेण । 6) आङ्-इत्यस्य व्यवधानम् - निर् + आ + नह् + क्त → निराणद्ध । 7) अनुस्वारस्य व्यवधानम् - तृंह् + अनीयर् → तृंहणीय । ज्ञातव्यम् - 1. अट्-प्रत्याहारे सर्वे स्वराः, तथा हकार-यकार-वकाराः समाविष्टाः सन्ति । 2. 'अट्-कु-पु-आङ्-नुम्' एतेषु एकस्य अनेकस्य वा व्यवधानमस्ति चेदपि णत्वं भवति । 3. 'आङ्' इति कश्चन उपसर्गः अस्ति । <<प्राग्रीश्वरान्निपाताः>> 1.4.56 इत्यनेन सर्वे उपसर्गाः निपाताः सन्ति । <<स्वरादिनिपातमव्ययम्>> 1.1.37 इत्यनेन सर्वे निपाताः अव्ययानि, इत्युक्ते पदानि सन्ति । अस्य कः अर्थः ? 'निर् + आङ् + नद्धम्' इति शब्दं स्वीकुर्मश्चेत् अत्र वस्तुतः पदत्रयमस्ति - निर्, आङ् तथा नद्धम् । अस्याम् स्थितौ <<पदव्यवायेऽपि>> 8.4.38 इत्यनेन प्रथमपदे उपस्थितः रेफः तृतीयपदस्थस्य नकारस्य णत्वं न कारयितुम् शक्नोति - द्वितीयपदस्य व्यवधानात् । परन्तु अत्र आङ्-ग्रहणेन अस्य अपवादः उक्तः अस्ति । यदि मध्यस्थं पदम् 'आङ्' इति अस्ति, तर्हि प्रथमपदस्थ-रेफषकारेण तृतीयपदस्थस्य नकारस्य णत्वं भवति - इत्यर्थः । अतः 'निर् + आ + नद्धम्' इत्यत्र णत्वं दृश्यते । 4. अस्मिन् सूत्रे निर्दिष्टः नुम्-शब्दः 'अनुस्वारः' इत्यर्थे युक्तः अस्ति, नुम्-इत्यर्थे न । अनुस्वारः अयोगवाहः अस्ति, अतः शिवसूत्रेषु तस्य ग्रहणमकारात् अनन्तरम् भवति । अतः अट्-प्रत्याहारे अनुस्वारस्य समावेशः अस्ति एव । अतः अस्मिन् सूत्रे नुम्-इत्यस्य ग्रहणम् व्यर्थमस्ति । 5. ऋवर्णात् परस्य नकारस्य अपि एतेषु व्यवधानेषु परेषु णकारादेशः भवति । यथा - कृप + टा → कृपेण । 6. अस्य सूत्रस्य अस्मिन् णत्वप्रकरणे (इत्युक्ते, <<क्षुभ्नादिषु च>> 8.4.39 इति यावत्) सर्वेषु सूत्रेषु अनुवृत्तिः दृश्यते । इत्युक्ते, अस्मिन् णत्वप्रकरणे यत्र यत्र णत्वं विधीयते, तत्र तत्र अट्-कु-पु-आङ्-नुम् एतेषां व्यवधाने अपि भवति इत्यर्थः ।

Balamanorama

Up

<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> - अत्र नकारस्य णत्वप्राप्तिमाशङ्कितुमाह — अट्कुप्वाङ् ।रषाभ्यां नो णः समानपदे॑ इति पूर्वसूत्रमनुवर्तते । तत्र 'न' इति षष्ठन्तम् । तेन च सूत्रेण रषाभ्यामव्यवहितपरस्य णत्वं विहितम् । रामेणेत्यादौ अडादिव्यवधानेऽपि प्राप्त्यर्थमिदमारब्धम् । अट्-प्रत्याहार, कुः-कवर्गः, पुः-पवर्गः । अट्च कुश्च पुश्च आङ् च नुम्च तैव्र्यवधानम्, तस्मिन् सत्यपि रषाभ्यां परस्य नस्य णत्वं न स्यात् । अतोऽडादिभिव्र्यस्तैर्यथासम्भवं मिलितैश्च व्यवायेऽपीति व्याख्येयम् । एवंचक्षुभ्नादिषु चे॑ति णत्वनिषेधसूत्रे 'क्षुभ्न' शब्दपाठोऽर्थवान् ।सरूपाणा॑मित्यादिनिर्देशाश्च उपपन्ना भवन्ति । तदाह — अटकवर्गेत्यादिना । विवरणावसरे अट् कवर्गेत्याद्यविभक्तिकनिर्देशाश्च न दूष्यन्ते, भाष्ये तथा बहुलमुपलम्भात् । समानपद इति । एकपद इत्यर्थः । अखण्डमेव पदमिह विवक्षितम् । तेन रामनामेत्यादौ नातिप्रसङ्गः । 'मातृभोगीण' इत्यादौ णत्वोपपत्तिस्तु तद्धिताधिकारे वक्ष्यते । अङा व्यवाये पर्याणद्धमित्युदाहरणम् । इह आङ्गहणाऽभावे तु उपसर्गादसमासेऽपीत्यत्र तदनुवृत्त्या णत्वं न स्यात् । नन्वड्व्यवाय इत्येवात्र णत्वं भविष्यति , किमाङ्ग्रहणेनेत्यत आह — नुङ्ग्रहणमिति । नुङ्ग्रहणेन अनस्वारो लक्ष्यते । प्रयोगानुसारादित्यर्थः । एवं च नुङ्ग्रहणं प्रत्याख्येयमित्याह — तच्चेति । ननु नुङ्ग्रहणाऽभावे तल्लक्षितानुस्वारस्य कथं लाभ इत्यत आह — अयोगवाहानमिति । न विद्यते योगो येषां वर्णसमाम्नाये ते अयोगाः । अनुपदिष्टाः, उपदिष्टैरगृहीताश्चेत्यर्थः । वाहयन्ति प्रयोगं निर्वाहयन्तीति वाहाः, अयोगाश्च ते वाहाश्च अयोगवाहाः=अनुस्वारविसर्गादयः । अट्सूपदेशस्य=पाठस्य हल्सन्धिनिरूपणावसरे उक्तत्वादित्यर्थः । स्पष्टं चैतद्धयवरट्सूत्रभाष्यवार्तिकयोः । उक्तं चात्रैव सूत्रे भाष्ये — ॒नार्थो नुङ्ग्रहणेन । अनुस्वारे कृते अड्व्यवाय इत्येवात्र णत्वं सिद्धम् इति । इति णत्वमिति । शसवयवस्य नकारस्य णकारे प्राप्ते इत्यर्थः ।

Padamanjari

Up

रषाभ्याम्ऽ इति पञ्चमीनिर्द्देशाद्व्यवाये न प्राप्नोतीत्ययमारम्भः । पर्याणद्धमिति ।'णह बन्धने' , पर्याङ्पूर्वः निष्ठा,'नहो धः' । ननु च ठड्व्यवायेऽ इत्येवात्र णत्वं सिद्धं तत्किमर्थमाङ्ग्रहणम् ? इत्यत आह - अड्व्यवाय इत्येव सिद्धमिति । क्वचितु आङ्ग्रहणं पदव्यवायेऽपीत्यस्य बाधनार्थमित्येतावत् पठ।ल्ते । बृंहणमिति ।'बृहि वृद्धौ' , ठिदितो नुम्ऽ,'नश्चापदान्तस्य झलि' इत्यनुस्वारः । यद्येवम्, अनुस्वारेणात्र व्यवायो न नुमा ? अत आह - नुम्ग्रहणमनुस्वारोपलक्षणार्थमिति । झल्परस्य नुमोऽनुस्वारविधानात्स्थानिना नुमानुस्वार उपलक्ष्यते । एवमपि योऽनुस्वारो नुम्स्थानिको न भवति तद्व्यवाये न प्राप्नोति'तृंह स्तृंह हिंसार्थौ' , तृंहणमिति ? अत आह - तेनेति । नात्र नुम्स्थानिकोऽनुस्वार उपलक्ष्यते, किं तर्हि ? अनुस्वारमात्रं तेनात्रापि भवतीत्यर्थः । यत्र तर्हि नुम एव श्रवणं नानुस्वारस्य तत्र णत्वं भवति वा, न वा ? अत आह - सत्यपि चेति । यथा'नक्षत्रं दृष्ट्वा वाचं विसृजेत्' इति कालविशेषोपलक्षणपरायां चोदनायां सत्यपि दिवा नक्षत्रदर्शने वाग् न विसृज्यते, उपलक्षितस्य कालस्याभावात्; असत्यपि नक्षत्रदर्शने रात्रौ विसृज्यते, तस्य कालस्य भावात्; तथेहापि द्रष्टव्यम् । प्रेन्वनमिति । ठिविः प्रीणनार्थःऽ, ठिदितो नुम्ऽ, अत्र ठिजादेः सनुमःऽ इति णत्वप्रसङ्गः । इह समुदाये वाक्यपरिसमाप्तिर्दृष्टा, यथा - गर्गाः शतं दण्ड।ल्न्तामिति, अर्थिनश्च राजानो हिरण्येन भवन्ति, न च प्रत्येकं दण्डयन्ति; प्रत्येकमपि दृष्टा, यथा - वृद्धिगुणसंज्ञे प्रत्येकं भवतः । तत्रेह यदि पूर्वः कल्प आश्रीयते, न क्वचित् स्यात्, न हि समस्तैरडादिभिर्व्यवायः क्वचिदपि सम्भवति । द्वितीये तु अर्हेणेत्यादौ न स्यात्; अटा कवर्गेण च व्यवायात् । अत आह - व्यवायोप लक्षणार्थत्वादिति । इह ये यदुपलक्षणायोपादीयन्ते तेषामेकेन द्वाभ्यां बहुभिरप्युपलक्षितः स गृह्यते, तद्यथा -'गर्गैः सह न भोक्तव्यम्' इत्युक्ते प्रत्येकं च सह न भुज्यते, समुदितैरपि, तथेहापि शक्नुवन्त्यडादयः समस्ता व्यस्ताश्च व्यवायमुपलक्षयितुमिति सर्वत्र भवति । अडादिव्यवाये णत्वेऽन्यव्यवाये प्रतिषेधः - आदर्शेन, स्पर्शेन । यद्यप्यत्रान्येनापि व्यवायः, यस्त्वटा व्यवायस्तदाश्रयं णत्वं प्राप्नोति, यत्र त्वनिर्दिष्टैरेव व्यवायस्तत्रैव न स्यात् - कृत्स्नम्, मृध्नोतीति ? नैष दोषः; रषाभ्याम्ऽ इत्यत्र'तस्मात्' इति परिभाषोपस्थानाद्व्यवाये णत्वासङ्गात् सूत्रमिदमारभ्यमाणमडादिव्यवाय एव णत्वमनुजानाति, नान्यव्यवाये; तस्य निर्दिष्टग्रहणेन निवर्तितत्वात्, यदि च निदिष्टव्यतिरिक्तैरपि व्यवाये णत्वं स्यात्, नुम्ग्रहणमनर्थकं स्यात्; केवलेन नुमा व्यवायासम्भवात् ॥