नश्चापदान्तस्य झलि
8-3-24 नः च अपदान्तस्य झलि पदस्य पूर्वत्र असिद्धम् संहितायाम् अशि मः अनुस्वारः
Sampurna sutra
Up
अपदान्तस्य मः नः झलि अनुस्वारः
Neelesh Sanskrit Brief
Up
अपदान्तमकारस्य अपदान्तनकारस्य च झल्-वर्णे परे संहितायाम् अनुस्वारादेशः भवति ।
Neelesh English Brief
Up
In the context of संहिता, a मकार and a नकार which do not occur at the end of a पद are converted to अनुस्वार when followed by a झल् letter.
Kashika
Up
नकारस्य मकारस्य चापदान्तस्यानुस्वारादेशो भवति झलि परतः। पयांसि। यशांसि। सर्पींषि। धनूंषि। मकारस्य — आकं्रस्यते। आचिक्रंसते। अधिजिगांसते। अपदान्तस्येति किम्? राजन् भुङ्क्ष्व। झलीति किम् ? रम्यते। गम्यते॥
Siddhanta Kaumudi
Up
नस्य मस्य चापदान्तस्य झल्यनुस्वारः । यशांसि । आक्रंस्यते । झलि किम् ? मन्यते ॥
Laghu Siddhanta Kaumudi
Up
नस्य मस्य चापदान्तस्य झल्यनुस्वारः। यशांसि। आक्रंस्यते। झलि किम्? मन्यते॥
Neelesh Sanskrit Detailed
Up
अष्टाध्याय्याम् द्वाभ्याम् सूत्राभ्याम् आदेशरूपेण अनुस्वारस्य विधानं क्रियते । एतयोः इदम् द्वितीयम् सूत्रम् । यः मकारः/ नकारः पदस्य अन्ते न विद्यते, तस्य झल्-वर्णे परे संहितायाम् अनुस्वारादेशः भवति — इति अस्य सूत्रस्य आशयः ।
झल् = वर्गप्रथमाः, वर्गद्वितीयाः, वर्गतृतीयाः, वर्गचतुर्थाः, ऊष्माणः । वर्गपञ्चमाः तथा अन्तःस्थाः झल्-प्रत्याहारे न विद्यन्ते ।
उदाहरणानि एतादशानि —
1. अपदान्तमकारस्य झलि अनुस्वारादेशः —
i) नम्-धातोः अन्ते विद्यमानस्य मकारस्य लृट्लकारस्य प्रक्रियायाम् प्रकृतसूत्रेण अनुस्वारादेशः भवति । प्रक्रिया एतादृशी —
नम् + लृट् [<<लृट् शेषे च>> 3.3.13 इति लृट्-लकारः]
→ नम् + स्य + लृट् [<<स्यतासी लृलुटोः>> 3.1.33 इति 'स्य' विकरणप्रत्ययः]
→ नम् + स्य + तिप् [<<तिप्तस्झि...>> 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः]
→ नंस्यति [<<नश्चापदान्तस्य झलि>> 8.3.24 इति अपदान्तमकारस्य झल्-वर्णे परे अनुस्वारः]
ii) गम्-धातोः अन्ते विद्यमानस्य मकारस्य तुमुन्-प्रत्ययस्य तकारे परे प्रकृतसूत्रेण अनुस्वारादेशः भवति । प्रक्रिया एतादृशी —
गमॢँ (गतौ, भ्वादिः, <{1.1137}>)
→ गम् + तुमुन् [<<तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्>> 3.3.10 इति तुमुन्-प्रत्ययः]
→ गं + तुम् [<<नश्चापदान्तस्य झलि>> 8.3.24 इति अपदान्तमकारस्य झल्-वर्णे परे अनुस्वारः]
→ गन्तुम् [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति मकारस्य परसवर्णे नकारादेशः]
2. अपदान्तनकारस्य झलि अनुस्वारादेशः —
i) पयस्-शब्दस्य प्रथमाबहुवचनस्य प्रक्रियायाम् नुमागमे कृते तस्य झल्-वर्णे परे अनुस्वारादेशः भवति ।
पयस् + जस्
→ पयस् + शि [<<जश्शसोः शिः>> 7.1.20 इति शि-आदेशः]
→ पयन् स् + इ [<<नपुंसकस्य झलचः>> 6.1.72 इति नुमागमः]
→ पयान् स् + इ [<<सान्तमहतः संयोगस्य>> 6.4.10 इति नकारात् पूर्वस्वरस्य दीर्घः]
→ पयांसि [<<नश्चापदान्तस्य झलि>> 8.3.24 इति अपदान्त-नकारस्य झल्-वर्णे परे अनुस्वारः]
ii) कम्प्-धातोः औपदेशिकरूपम् 'कपिँ' इति इदित् अस्ति । प्रक्रियायाः प्रारम्भे अत्र नुमागमः भवति, ततश्च नुमागमस्य प्रकृतसूत्रेण अनुस्वारादेशः भवति —
कपिँ (चलने, भ्वादिः, <{1.435}>)
→ क नुम् प् [<<इदितो नुम् धातोः>> 7.1.58 इति नुमागमः]
→ क न् प् [मकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः । उकारः उच्चारणार्थः, सोऽपि लुप्यते ।]
→ कन्प् + अनीयर् [<<तव्यत्तव्यानीयरः>> 3.1.96 इति अनीयर्-प्रत्ययः]
→ कंप् + अनीय [<<नश्चापदान्तस्य झलि>> 8.3.24 इति अनुस्वारः]
→ कम्पनीय [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति परसवर्णः मकारः]
iii) प्रथमपुरुषबहुवचनस्य 'झि' प्रत्ययस्य 'अन्ति' इति आदेशे कृते प्रक्रियायाम् अस्य नकारस्य प्रकृतसूत्रैण अनुस्वारादेशः भवति । यथा —
चरँ (गतौ भक्षणे च, भ्वादिः, <{1.640}>)
→ चर् + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्लकारः]
→ चर् + झि [प्रथमपुरुषबहुवचनस्य विवक्षायाम् <<तिप्तस्झि..>> 3.4.78 इत्यनेन झि-प्रत्ययः]
→ चर् + शप् + झि [<<कर्तरि शप्>> 3.1.68 इति शप्-विकरणप्रत्ययः]
→ चर् + अ + अन्ति [<<झोऽन्तः>> 7.1.3 इति प्रत्ययझकारस्य अन्त्-आदेशः]
→ चर् + अ + अंति [ <<नश्चापदान्तस्य झलि>> 8.3.24 इत्यनेन नकारस्य अनुस्वारादेशः]
→ चर् + अ + अन्ति [अनुस्वारस्य <<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इत्यनेन परसवर्णः नकारः । अस्मिन् नकारे कृते अत्र <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इति इत्यनेन णत्वम् नैव सम्भवति, यतः <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इत्यस्य कृते <<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति सूत्रमेव असिद्धम् अस्ति ।<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इत्यनेन 'चरंति' इत्येव (अनुस्वारसहितं रूपं) दृश्यते, तत्र च णत्वस्य प्रसङ्गः अपि नास्ति । अतः अन्तिमरूपे नकारः एव श्रूयते ।]
→ चरन्ति
दलकृत्यम्
1. अपदान्तस्य इति किमर्थम् ? पदान्तमकारस्य <<मोऽनुस्वारः>>
8.3.23 इत्यनेनैव अनुस्वारादेशः भवति । पदान्तनकारस्य तु अनुस्वारादेशः नैव इष्यते, अतः अस्मिन् सूत्रे
अपदान्तस्य इति शब्दः स्थापितः अस्ति । अतएव
बालान् पश्यति इत्यत्र नकारस्य अनुस्वारादेशः न भवति ।
2. झलि इति किमर्थम् ? अग्रे झल्-वर्णः नास्ति चेत् प्रकृतसूत्रेण अनुस्वारादेशः न भवति । यथा —
i) गम् धातोः यत्-प्रत्यये परे गम्य इति रूपम् सिद्ध्यति, तत्र मकारस्य अनुस्वारादेशः न भवति ।
ii) इविँ इति धातोः <<इदितो नुम् धातोः>> 7.1.58 इत्यनेन नुमागमे कृते, अस्य अपदान्तनकारस्य अनुस्वारादेशः न भवति, अतः इन्वति इत्येव रूपं सिद्ध्यति ।
Balamanorama
Up
Padamanjari
Up
आक्रंस्यत इति । क्रमेर्लृट्, ठाङ् उद्गमनेऽ इत्यात्मनेपदम् ॥