1-3-3 हल् अन्त्यम् धातवः इत्
index: 1.3.3 sutra: हलन्त्यम्
उपदेशे अन्त्यम् हल् इत्
index: 1.3.3 sutra: हलन्त्यम्
उपदेशस्य अन्तिमव्यञ्जनम् इत्संज्ञकं भवति ।
index: 1.3.3 sutra: हलन्त्यम्
The ending हल् letter of an उपदेश is called 'इत्'.
index: 1.3.3 sutra: हलन्त्यम्
उपदेशे इति वर्त्तते। अन्ते भवमन्त्यम्। धात्वादेः समुदायस्य यदन्त्यम् हल्, तदित्संज्ञं भवति। अ इ उ ण् - णकारः। ऋ ऌ क् - ककारः। ए ओ ङ् - ङकारः। ऐ औ च् - चकारः। उपदेशे इत्येव। अग्निचित्। सोमसुत्। हस्य ल् हलिति द्वितीयमत्र हल्ग्रहणं तन्त्रेण उपात्तं द्रष्टव्यम्। तेन प्रत्याहारपाठे हल् इत्यत्र लकारस्य इत्संज्ञा क्रियते। तथा च सति हलन्त्यम् 1.3.3 इत्यत्र प्रत्याहारे न इतरेतराश्रयदोषो भवति।
index: 1.3.3 sutra: हलन्त्यम्
हल् (माहेश्वरसूत्रम् 14) इति सूत्रेऽन्त्यमित्स्यात् ।
index: 1.3.3 sutra: हलन्त्यम्
उपदेशेऽन्त्यं हलित्स्यात्। उपदेश आद्योच्चारणम्। सूत्रेष्वदृष्टं पदं सूत्रान्तरादनुवर्तनीयं सर्वत्र॥
index: 1.3.3 sutra: हलन्त्यम्
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'इत्' इति संज्ञा । इयम् संज्ञा उपदेशेऽजनुनासिक इत् 1.3.2 इत्यस्मात् लशक्वतद्धिते 1.3.8 इत्येतेषु सूत्रेुषु पाठिता अस्ति । एतेषाम् सूत्राणाम् सङ्कलनम् 'इत्संज्ञाप्रकरणम्' नाम्ना ज्ञायते । अस्य प्रकरणस्य इदम् द्वितीयम् सूत्रम् । उपदेशस्य अन्ते विद्यमानस्य व्यञ्जनस्य अनेन सूत्रेण इत्संज्ञा भवति इति अस्य सूत्रस्य आशयः ।
'उपदेश:' इति शब्देन आद्यमहर्षीणाम् (महेश्वर-पाणिनि-कात्यायन-पतञ्जलि-इत्येतेषाम्) उच्चारणस्य निर्देशः भवति । महेश्वरेण रचितानि सूत्राणि, पाणिनिना रचिताः शब्दपाठ-धातुपाठ-लिङ्गानुशासनादयः ग्रन्थाः, वार्त्तिककारेण कृतानि वार्त्तिकानि - एतानि सर्वाणि व्याकरणशास्त्रस्य आद्योच्चारणरूपेण स्वीक्रियन्ते । अतएव सर्वाणि माहेश्वरसूत्राणि, अष्टाध्याय्यां विद्यमानाः प्रत्ययाः, आदेशाः, आगमाः, धातुपाठे पाठिताः धातवः - एते सर्व अपि उपदेशाः सन्ति । उपदेश शब्दस्य व्याख्या एकया कारिकया अपि दीयते -
धातुसूत्रगणोणादिनामलिङ्गानुशासनम् ।
आगमाः प्रत्ययादेशाः उपदेशा प्रकीर्तिताः ।
धातुपाठ, सूत्रपाठः, गणपाठः, उणादिपाठः, लिङ्गानुशासनम् - एतेषु पञ्चसु ग्रन्थेषु पाठिताः शब्दाः, तथा च आदेशाः, आगमाः, प्रत्ययाः - एते सर्वे (तेषाम् मूलस्वरूपे) 'उपदेशः' नाम्ना ज्ञायन्ते — इति अस्याः कारिकायाः अर्थः । कानिचन उदाहरणानि एतानि —
1) सर्वाणि माहेश्वरसूत्राणि उपदेशसंज्ञकानि सन्ति । यथा, अइउण्, ऋऌक् - आदयः ।
2) धातवः यस्मिन् स्वरूपे धातुपाठे निर्दिष्टाः वर्तन्ते, तस्मिन् स्वरूपे उपदेशसंज्ञकाः सन्ति । यथा, कृ-धातोः धातुपाठे 'डुकृञ्' इति निर्देशः कृतः अस्ति, अतः 'डुकृञ्' इति कृ-धातोः उपदेशः । एवमेव, वन्द्-धातोः 'वदिँ' इति उपदेशः । नी-धातोः 'णीञ्' इति उपदेशः । गम्-धातोः 'गमॢँ' इति उपदेशः । केषाञ्चन धातूनाम् उपदेशः धातोः दृश्यरूपसदृशः एव अस्ति । यथा, 'भू' धातो' 'भू' इत्येव उपदेशः ।
3) सर्वे प्रत्ययाः प्रत्ययाधिकारे यस्मिन् स्वरूपे पाठ्यन्ते, तस्मिन् स्वरूपे उपदेशसंंज्ञकाः सन्ति । यथा, 'क्त्वा' इति 'त्वा'प्रत्ययस्य उपदेशः । 'तुमुन्' इति 'तुम्' प्रत्ययस्य उपदेशः ।
4) सर्वे आदेशाः, आगमा च यथा सूत्रपाठे पाठिताः, तस्याम् अवस्थायाम् उपदेशाः सन्ति । यथा - लङ्लकारे विहितस्य अकारस्य 'अट्' इति उपदेशः ।
एतादृशेषु सर्वेषु उपदेशेषु यः स्वरः अनुनासिकः, सः प्रकृतसूत्रेण इत्संज्ञकः भवति । वस्तुतस्तु 'उपदेशेषु कः स्वरः अनुनासिकः अस्ति' एतत् व्याख्यानेभ्यः एव ज्ञायते । अतएव सिद्धान्तकौमुद्याम् 'प्रतिज्ञानुनासिक्याः पाणिनीयाः' इति उक्तम् अस्ति । पाणिनीयाः (पाणिनिमहर्षेः अनुयायिनः / छात्राः) 'प्रतिज्ञानुनासिक्याः' सन्ति, इत्युक्ते ते अनुनासिकस्वरम् प्रतिज्ञया (गुरुपरम्परया) एव जानन्ति - इति अस्याः पङ्क्तेः आशयः ।
उपदेशस्य अन्तिमव्यञ्जनस्य हलन्त्यम् 1.3.2 इत्यनेन इत्संज्ञा भवति । कानिचन उदाहरणानि एतानि -
'तुमुन्' प्रत्यये विद्यमानः अन्तिमः नकारः इत्संज्ञकः भवति ।
'डुपचष्' अस्मिन् धातौ विद्यमानः षकारः इत्संज्ञकः भवति ।
'भू' इत्यस्य अन्ते व्यञ्जनम् नैव विद्यते । अतः अस्य धातोः विषये हलन्त्यम् 1.3.3 सूत्रस्य प्रसक्तिः नास्ति ।
इत्संज्ञकम् वर्णम् आश्रित्य उपदेशस्य विशिष्टरूपेण निर्देशः भवितुम् अर्हति । यथा —
यस्मिन् उपदेशे लकारः इत्संज्ञकः अस्ति, सः लित् उपदेशः नाम्ना ज्ञायते । यथा, त्रल्, तसिल् एतौ लितौ प्रत्ययौ स्तः । 'लित्' इति शब्दस्य प्रयोगः लिति 6.1.193 इति सूत्रे कृतः दृश्यते ।
यस्मिन् उपदेशे मकारः इत्संज्ञकः अस्ति, सः मित् उपदेशः नाम्ना ज्ञायते । यथा श्नम्, नुम्, मुम् एते मितः उपदेशाः सन्ति । मिदचोऽन्त्यात्परः 1.1.47 अस्मिन् सूत्रे 'मित्'विशिष्टम् कार्यम् निर्दिष्टं दृश्यते ।
यस्मिन् उपदेशे ककारः इत्संज्ञकः अस्ति, सः कत् उपदेशः नाम्ना ज्ञायते । यथा, ठक्, क्त्वा, क्त्ववतुँ - एते कितः प्रत्ययाः । किति च 7.2.118, अदो जग्धिर्ल्यप्ति किति 2.4.36, वचिस्वपियजादीनां किति 6.1.15 एतादृशेषु सूत्रेषु 'कित्'प्रत्ययविशिष्टम् कार्यम् निर्दिष्टं दृश्यते ।
अनेनैव प्रकारेण खित्, गित्, घित्, चित्,ञित्,टित्,णित्, तित्, नित्, पित्, रित्, लित्, सित् इतेषाम् शब्दानाम् अपि निर्देशः भिन्नेषु सूत्रेषु कृतः दृश्यते ।
उपदेशे विद्यमानस्यैव अन्तिम-हल्-वर्णस्य अनेन सूत्रेण इत्संज्ञा भवति, अन्येषु शब्देषु विद्यमानस्य अनुनासिकस्वरस्य न - इति स्मर्तव्यम् । यथा, 'गम्' इत्यत्र मकारः यद्यपि अन्ते विद्यते, तथापि 'गम्' इति उपदेशः न (गमॢँ इति उपदेशः अस्ति) । अतः अत्र विद्यमानस्य मकारस्य इत्संज्ञा न भवति ।
उपदेशेषु विद्यमानानाम् इत्संज्ञकवर्णानाम् प्रक्रियायाः प्रारम्भे एव तस्य लोपः 1.3.9 इत्यनेन नित्यम् लोपः भवति । इत्संज्ञकवर्णानां लोपे कृते यः अंशः अवशिष्यते, सः उपदेशस्य 'दृश्यरूपम्' इति नाम्ना ज्ञायते । यथा, 'तिप्' इति उपदेशे विद्यमानस्य इत्संज्ञक-पकारस्य लोपे कृते 'ति' इति यद् अवशिष्यते, तत् तिप्-प्रत्ययस्य दृश्यरूपम् ।
अष्टाध्याय्याम् उपदेशेषु इत्संज्ञकवर्णानां संयोजनस्य अनेकानि प्रयोजनानि सन्ति । बहूनि कार्याणि इत्संज्ञकवर्णान् आश्रित्य एव प्रवर्तन्ते । The इत्-letters are like markers that decide whether a certain action will or will not happen in the prakriya. यथा, यस्मिन् तद्धितप्रत्यये ञकारः इत्संज्ञकः अस्ति, तस्मिन् प्रत्यये परे अङ्गस्य आदिवर्णस्य वृद्धिः भवति । यथा, 'दशरथस्य अपत्यम्' इत्यत्र दशरथशब्दात् इञ्-प्रत्यये कृते प्रक्रिया एतादृशी भवति -
दशरथस्य अपत्यम्
= दशरथ + इञ् ['दशरथस्य' इति षष्ठीसमर्थात् तस्यापत्यम् 4.1.92 इत्यस्मिन् अर्थे अत इञ् 4.1.95 इति सूत्रेण इञ्-प्रत्ययः । ततः तद्धितान्तस्य कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा भवति, ततश्च सुपो धातुप्रातिपदिकयोः 2.4.71 इति दशरथशब्दात् विहितस्य षष्ठ्यैकवचनप्रत्ययस्य लोपः अपि विधीयते ।]
→ दशरथ + इञ् [ञकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा । ततः तस्य लोपः 1.3.9 इति ञकारस्य लोपः । ]
→ दाशरथ + इ [ञित्-प्रत्ययः यस्मात् शब्दात् विधीयते, तस्य आदिस्वरस्य तद्धितेष्वचामादेः 7.2.117 इति वृद्धिः भवति । अतः अत्र दशरथशब्दस्य दकारोत्तस्य अकारस्य वृद्धिः आकारः विधीयते ।]
→ दाशरथ् + इ [यस्येति च 6.4.148 इति अन्तिम-अकारस्य लोपः]
→ दाशरथि
अनेन प्रकारेण सर्वेषाम् अपि इत्संज्ञकवर्णानां भिन्नानि प्रयोजनानि सन्ति ।
यदि उपदेशे 'इँर्' इति कश्चन शब्दसमुदायः विद्यते, तर्हि तत्र उपदेशेऽजनुनासिक इत् 1.3.2 इति सूत्रेण इँकारस्य, तथा च हलन्त्यम् 1.3.3 इति सूत्रेण रेफस्य पृथग् पृथग् इत्संज्ञायाम् प्राप्तायाम्, तद्बाधित्वा, 'इँर्' इति समुदायस्य एकत्ररूपेण इत्संज्ञां कर्तुम् वार्त्तिककारः <!इँर इत्संज्ञा वाच्या!> इति वार्त्तिकं पाठयति । 'इँर्' इति समूहस्य एकत्ररूपेण इत्संज्ञा भवति इति अस्य अर्थः । यथा, 'भिदिँर्' अस्मिन् धातौ 'इँर्' इति समुदायः अन्ते विद्यते । अस्यां स्थितौ अत्र इकारस्य (रेफस्य वा) पृथग् रूपेण इत्संज्ञा न भवति, अपितु 'इँर्' इति समुदायस्यैव इत्संज्ञा भवति, तस्य च अग्रे तस्य लोपः 1.3.9 इत्यनेन लोपः क्रियते । इत्युक्ते, 'भिदिँर्' इति धातुः 'इदित्' उत 'रित्' नास्ति, अपितु 'इरित्' अस्ति । अतः अस्य विषये 'इदित्' विशिष्टम् उत 'रित्' विशिष्टम् कार्यम् न प्रवर्तते, अपितु 'इरित्' विशिष्टम् कार्यम् (यथा, इरितो वा 3.1.57 इति) भवितुम् अर्हति । एवमेव, 'छिदिँर्', 'ईँशुचिँर्', 'दृशिँर्' एते सर्वे अपि इरितः धातवः ज्ञेयाः ।
अष्टाध्याय्याः इत्संज्ञाप्रकरणस्य विषये अत्र विद्यमानः लेखः अपि अवश्यं द्रष्टव्यः ।
धातुपाठे left-side-menu मध्ये filters इत्यत्र 'अनुबन्धः' इति filter उपयुज्य आदित्/इदित्/ईदित्... इत्येतेषाम् पृथग् पृथग् आवल्यः द्रष्टुं शक्यन्ते ।
index: 1.3.3 sutra: हलन्त्यम्
हलन्त्यम् - ततः किमित्यत आह — हलन्त्यम् । आवृत्तयोर्द्वितीयं सूत्रमेतत् । हल् अन्त्यमितिच्छेदः । हल्शब्दो नपुंसकलिङ्गोऽप्यस्ति, अन्त्यमिति नपुंसकसामानाधिकरण्यात् ।उपदेशेऽजनुनासिक इ॒दिति पूर्वसूत्रादुपदेश इति॑ इदिति चानुवर्तते । तदाह — उपदेशेऽन्त्यमित्यादिना । धातुप्रातिपदिकनिपातप्रत्याहारसूत्रप्रत्ययादेशागमानामन्त्यमिति भाष्यम् । अथ कोऽयमुपदेशो नाम॑ तत्राह — उपदेश आद्योच्चारणमिति । उपशब्द आद्यर्थकः । दिशिरुच्चारणक्रियायाम् । भावे घञिति भावः । एतच्च 'आदेच उपदेशे' इत्यादासूत्रे भाष्ये स्पष्टम् । धातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम् । आगमप्रत्ययादेशा उपदेशाः प्रकीर्तिताः॥ — इति प्राचीनकारिका तु प्रौढमनोरमायां बहुधा दूषिता । उपदेशे किम्-॒इदमस्थमुः॑ इति थमुप्रत्यये उकारस्योच्चारणार्थस्य निवृत्तौ मकारस्य प्रत्ययान्तत्वेऽपि इत्संज्ञा मा भूत् । तदेवं हलन्त्यमिति आवृत्तद्वितीयसूत्रेण चतुर्दशसूत्र्यामन्त्यणकारादिवर्णानामित्संज्ञा सिद्धेति स्थितम् । ततः किमित्यत आह-ततोऽण् अजित्यादिसंज्ञासिद्धाविति । ततः णकारादिनामित्संज्ञासिद्ध्यनन्तरमादिरन्त्येनेत्यणादिसंज्ञा सिद्धेत्यर्थः ।
index: 1.3.3 sutra: हलन्त्यम्
अन्तशब्दोऽत्र समाप्तौ वर्तते;नावयवे;नावयवे असम्भवात्। न समीपे;अतिप्रसङ्गात् । येन समाप्यते समुदायस्तदन्ते भवमन्त्य्, दिगादित्वाद्यत्। हलन्त्ये सर्वप्रसङ्गः, सर्वस्य हलः सांज्ञा प्राप्नोति। सर्वो हि हल् तं तमवधिं प्रत्यन्तो भवति, अन्त्यग्रहणं त्वादिनिवृत्यर्थं स्याद्, अत आह-धात्वादेरिति। आदिशब्दन सूत्रप्रातिपदिकप्रत्ययनिपातागमादेशानां ग्रहणम्। शीङ्, लण्,नदट्, सन्, आङ्, त्रपुजतुनोः षुक्, चक्षिडः ख्याञ् इति योऽयं धात्वादिरूपः समुदायस्तदर्थः स उपदेशः, न तु नान्तरीयकावान्तरसमुदायार्थ इत्यन्त्यस्य समुदायापेक्षायां प्राधान्याद्धात्वादेरेव ग्रहणमिति भावः। अग्निचिदिति। अत्रेत्संज्ञायां लोपः स्यात्। न च तुको वैयर्थ्यम्;आगत्येत्यादौ चरितार्थत्वात्। न च क्विपः पित्वस्य वैयर्थ्यम्, आग्निचितावित्यादौ चरितार्थत्वात्। यद्यप्यत्रोभयत्रापि तावतोऽवधेस्तकारोऽन्त्यः, तथापि मुख्यसमुदायस्य नान्त्य इति नास्ति प्रसङ्गः। इह च दण्डिन्निति नकारस्येत्संज्ञायां सत्याम्'न ङिसंबुद्ध्योः' इति निषेधाल्लोपाभावेऽपि समुदायस्य नित्वादाद्यौदातत्वप्रसङ्गः, यथा-श्रोत्रियशब्दे वाक्यार्थे पदवचनमिति पक्षे । अथोपदेशानुवृतावपि सनुतरित्यस्य रेफस्य कस्मान्न भवति? स्वरादिष्वन्तोदातपाठसामर्थ्यात्। इह'शषसर्' 'हल्' इति यो लकारस्तस्येत्संज्ञायां सत्यां हलित्ययं प्रत्याहार उपपद्यते, सति च प्रत्याहारे लणित्यत्र लकारस्य हल्त्वातस्यैव'शषसर्हल्' ,इत्यत्रान्ते निर्दिष्टत्वादित्संज्ञा, तदाश्रयश्च प्रत्याहार इति इतरेतराश्रयत्वात् प्रत्याहारो नोपपन्नः। ततश्च सर्वेषामेव णकारादीनामित्संज्ञा न स्यादिति सर्व एव प्रत्याहारव्यवहारोऽनुपपन्नः, ठादिरन्त्येनऽइत्येतस्यापि वैयर्थ्यम्? स्यादेतथलित्यत्र हकारात् पर लृकारः, तस्य लृकारस्यैकादेशो लपरः, तस्य ठुपदेशेऽजनुनासिकःऽइति इत्संज्ञा, स एव'हलन्त्यम्' इत्यत्राप्येकादेशेन लपरेण निर्दिष्ट इति। एवमपीतरेतराश्रयमेव, लृकारस्येत्संज्ञेति तस्माद्वक्तव्योऽत्र परिहारस्तमाहहस्य ल् हलित्यादि। साधारणं भवेतन्त्रम्, यथा-तुल्यकक्ष्ययोर्भुञ्चानयो प्रदीपः। स चेह प्रयत्नविशेषः, यथा-श्वेतो धावतीत्यत्र साधारणेनैकेनैव प्रयत्नेन द्वयोर्वाक्ययोरुच्चारितयोः फलं सम्पद्यते, तथेहाप्येकेन तन्त्रेण प्रबलेन द्वितीयं हल्ग्रहणमुपातं परिगृहीतं वेदितव्यम् । तस्य द्वितीयस्यार्थमाह-हस्येति। समीपसमीपिसम्बन्धे षष्ठीसमास इत्यर्थः। ततःकिमित्याह-तेनेत्यादि। एतद् दर्शयति-हकारसमीपवर्तिनो लकारस्य न प्रत्याहारसमाश्ययोणएनेत्संज्ञा, किं तर्हि? साक्षादुपादानेनेति। प्रमाणम्? अगृह्यमाणविशेषत्वमेव। ननु गृह्यते विशेषः-ठ्कृत्रिमाकृत्रिमयोः कृत्रिमस्य ग्रहणम्ऽइति, कृत्रिमो हि प्रत्याहारः सत्यम्;स एवासति तन्त्रेऽनुपपन्न इति त्वयैवोक्तम्॥