8-2-30 चोः कुः पदस्य पूर्वत्र असिद्धम् झलि अन्ते
चोः कुः झलि पदस्य अन्ते
चवर्गीयवर्णस्य पदान्ते उत झल्-वर्णे परे कवर्गादेशः भवति ।
A चवर्गीय letter which occurs at the end of a पद or before झल् letter is converted to the corresponding कवर्गीय letter.
चवर्गस्य कवर्गादेशो भवति झलि परतः पदान्ते च। पक्ता। पक्तुम्। पक्तव्यम्। ओदनपक्। वक्ता। वक्तुम्। वक्तव्यम्। वाक्। क्रुञ्चेत्यत्र सङीति वचनाद् ञकारस्य चकारे झलि कुत्वं न भवति। युजिक्रु ञ्चां च ३.२.५९ इति निपातनाद् वा। नकारोपधो वा धातुरयं रेफरहितश्च <<कुञ्च कौटिल्याल्पीभावयोः>> इति पठ्यते। नकारलोपे हि निकुचितिः (महाभाष्य १.२००) इति दृश्यते। युजिक्रुञ्चां च ३.२.५९ इति तस्यैव रेफोऽधिकः,नकारस्य लोपाभावश्चेति निपात्यते। तत्रानुस्वारस्य परसवर्णस्य चासिद्धत्वाद् ञकार एव नास्तीति कुत्वं न भविष्यति॥
चवर्गस्य कवर्गः स्याज्झलि पदान्ते च । इति कुत्वम् । क्विन्प्रत्ययस्य <{SK377}> इति कुत्वस्याऽसिद्धत्वात् । सुयुक् । सुयुग् । सुयुजौ । सुयुजः । युजेरिति धातुपाठपठितेकारविशिष्टस्यानुकरणं न त्विका निर्देशः । तेनेह न । युज्यते समाधत्ते इति युक् । युज समाधौ दैवाहिक आत्मनेपदी । संयोगान्तलोपः । खन् । खञ्जौ । खञ्जः । इत्यादि । व्रश्च <{SK294}> इति षत्वम् । जश्त्वचर्त्वे । राट् । राड् । राजौ । राजः । राट्सु । राट्त्सु । एवं विभ्राट् । देवेट् । देवेजौ । देवेजः ॥ विश्वसृट् । विश्वसृड् । विश्वसृजौ । विश्वसृजः । इह सृजियज्योः कुत्वं नेति क्लीबे वक्ष्यते । परिमृट् । षत्वविधौ राजिसाहचर्यात् टुभ्राजृ दीप्ताविति फणादिरेव गृह्यते । यस्तु एजृभ्रेजृभ्राजृदीप्ताविति तस्य कुत्वमेव । विभ्राक् । विभ्राग् । विभ्राग्भ्यामित्यादि । परौ व्रजेः षः पदान्ते <{उ217}> । परावुपपदे व्रजेः क्विप्स्याद्दीर्घश्च पदान्तविषये षत्वं च । परित्यज्य सर्वं व्रजतीति परिव्राट् । परिव्राजौ । परिव्राजः ॥
चवर्गस्य कवर्गः स्याज्झलि पदान्ते च। सुयुक्, सुयुग्। सुयुजौ। सुयुग्भ्याम्॥ खन्। खञ्जौ। खन्भ्याम्॥
<<चोः कुः>> - युक्षु । 'असमासे' इत्यस्य व्यावर्त्त्यं सुयुज्शब्दं कथयिष्यंस्तत्र विशेषमाह — चोः कुः ।झलो झली॑त्यतोझली॑त्यनुवर्तते ।पदस्ये त्यधिकृतम् । 'स्कोः संयोगाद्योः' इत्यतोऽन्ते इत्यनुवर्तते, तदाह-चवर्गस्येति । ननु 'चोः' इत्यत्र उकारस्य उपदेशाऽभावादित्त्वाऽभावेन उदित्त्वाऽभावात्कथमिह सवर्णग्रहणमिति चेन्न, चोरित्युकारान्तग्रहणसामर्थ्यादेव तत्र उकारस्य इत्त्वाभ्यनुज्ञानात् । अन्यथा 'चः कुः' इत्येव ब्राऊयादिति । कुत्वमिति । सुयुज्शब्दे जकारस्य कुत्वं गकारः, घोषसंवारनादाल्पप्राणसाम्याद्यथासंख्यसूत्राच्चेति भावः । नन्विहक्विन्प्रत्ययस्ये॑त्येव कुत्वं कुतो न स्यात् । यद्यपि सुपूर्वाद्युजेःसत्सूदिषे॑त्यादिना क्विपि उपपदसमासे सुयुज्शब्दो न क्विन्नन्तोऽयम् । निरुपपदाद्युजेः क्विन्निति अनुपदेमेवोक्तत्वात् । तथापि क्विन् प्रत्ययो यस्मादिति बहुव्रीह्राश्रयणात्संप्रति क्विबन्तत्वेऽपि अनेनैव कुत्वमित्यत आह — क्विन्प्रत्ययस्येति कुत्वस्यासिद्धत्वादिति । तथा चात्रचोः कु॑रित्येव न्याय्यमिति भावः । सुयुक्सुयुगिति । 'वाऽवसाने' इति चर्त्वविकल्पः । ननु युगित्यपि रूपमिष्टं कथं सिध्येत्, क्विनि नुम#इ युङित्येवापत्तेः । नचऋत्वि॑गित्यादिसूत्रे 'युजेरसमासे' इति सूत्रे च युजीति इकारावेशिष्टस्यैव निर्देशात् 'युज समाधौ' इति दैवादिकस्य अकारान्तस्याऽग्रहणात्ततःक्विप् चे॑ति क्विपि नुमबावे कुत्वे युगिति सिध्यतीति वाच्यम्,इक्श्तिपौ धातुनिर्देशे॑ इति इक्प्रत्ययान्तत्वस्य उभयत्रापि संभवेन उभाभ्यां क्विनि नुमि युङित्येवापत्तेरित्यत आह — युजेरिति । 'युजेरसमासे' इति सूत्रे युजीति ऋत्विगादिसूत्रे युजीति च धातुपाठे 'युजिर्योगे' इतीकारविशिष्टो यः पठितस्तस्यैव रेफशिरस्कतया ग्रहणं, नत्विका निर्देशः, व्याख्यानादित्यर्थः । ततः किमित्यत आह — तेनेति । 'खजि गतिवैक्लव्ये' क्विप्, इदित्त्वान्नुम् ।नश्चापदान्तस्ये॑त्यनुस्वारः, परसवर्णो ञकारः । खञ्ज्शब्दः तस्य विशेषमाहसंयोगान्तेति । हल्ङ्यादिना सुलोपे जकारस्य संयोगान्तलोपः । ततो निमित्तापायादनुस्वारपरसवर्णयोर्निवृत्तिः । खन्निति रूपमित्यर्थः ।अनिदिता॑मिति नलोपस्तु न, इदित्त्वात् । 'राजृ दीप्तौ' इत्यस्मात्क्विपि राज्शब्दः । तस्य विशेषमाह — व्रश्चेति । हल्ङ्यादिना सुलोपेव्रश्चे॑ति षत्वम् । जश्त्वेन डकारः । 'वाऽवसाने' इति चर्त्वविकल्पः । भ्यामादौ 'स्वादिषु' इति पदत्वात् षत्वं जश्त्वं च । राड्भ्यामित्यादि ।ङः सि धु॑डिति विकल्पं मत्वाह — राट्त्सु, राट्स्विति । एवं विभ्राडिति । राज्शब्दवत्षत्वादीत्यर्थः ।टु भ्राजृ दीप्तौ॑क्विप् । विशिष्ट भ्राजते इति विभ्राट् । देवान् यजतीति देवेट् । देवान् यजतीति विग्रहे क्विपि यजादित्वा॑द्वचिस्व॑पीति संप्रसारणम् ।अद्गुणः॑ । विआसृडिति ।सृज विसर्गे॑क्विपिव्रश्चे॑ति षत्वादि । ननु क्विबन्तेऽपि देवेज्शब्दे विआसृज्शब्देच क्विन् प्रत्ययो यस्मादिति बहुव्रीह्राश्रयणादृत्विक्शब्दवत्कुत्वं कुतो न स्यादित्यत आह — इहेति ।सृजिदृशो॑रिति सूत्रे काम्यच्सूत्रे च विआसृज्भ्यामिति उपयट्काम्यतीति च भाष्यप्रयोगात्क्विन्प्रत्ययस्ये॑ति कुत्वं नेत्यर्थः । परिमृडिति । 'मृजू शुद्धौ' क्विप् ।क्ङिति चे॑ति निषेधात्मृजेर्वृद्धि॑रिति न भवति ।व्रश्चे॑ति षत्वम् । परिमार्ष्टीति परिमृट् । अथ विभ्रागिति औणादिकसूत्रमेतत् ।क्विब्वचिप्रच्छी॑त्यादिपूर्वसूत्रात्क्विबिति दीर्घ इति चानुवर्तते । 'पदान्त' इति 'ष' इत्येनेनैव संबध्यते, नतु क्विब्दीर्घाभ्यामपि, व्याख्यानात् । तदाह — परावुपपदे इत्यादिना । षत्वं चेति । 'चोः कुः' इत्यस्यापवाद इति भावः । विआस्मिन् राजते इत्यर्थेसत्सूद्विषे॑त्यादिना क्विपि उपपदसमासे विआराज्शब्दाः ।
नकारोपधो वेति । पूर्वमौत्पतिकं ञकारोपधत्वमाश्रित्येक्तम्, इदानीं तु नकारस्यानुस्वारपरसवर्णाभ्यामागतो ञकार इत्युच्यते । नकारलोपे हीति । तथा सन्निपातपरिभाषायाः प्रयोजनेषु पठितम् - उदुपधत्वस्य निकुचित इति । कुचितशब्दे कित्वसन्निपातकृतमुदुपधत्वम् ठुदुपधाद्भावादिकर्मणोरन्यतरस्याम्ऽ कित्वस्य निमितं न भवतीत्यर्थः । नन्वस्तु नोपधः, तथाप्यनुस्वारपरसवर्णयोः कृतयोः नकारस्य कुत्वप्रसङ्गः ? अत आह - तत्रेति । चुत्वस्य त्वत्र प्रसङ्गो नास्ति; अनुस्वारं प्रति तस्यासिद्धत्वात् ॥