8-2-7 नलोपः प्रातिपदिकान्तस्य पदस्य पूर्वत्र असिद्धम्
index: 8.2.7 sutra: नलोपः प्रातिपदिकान्तस्य
प्रातिपदिकस्य पदस्य अन्त्यस्य नः लोपः ।
index: 8.2.7 sutra: नलोपः प्रातिपदिकान्तस्य
प्रातिपदिकसंज्ञकम् यत् पदम् तदन्तस्य नकारस्य लोपः स्यात् ।
index: 8.2.7 sutra: नलोपः प्रातिपदिकान्तस्य
The terminal न् letter of a प्रातिपदिक is omitted if the प्रातिपदिक also gets the पदसंंज्ञा.
index: 8.2.7 sutra: नलोपः प्रातिपदिकान्तस्य
पदस्य इति वर्तते। प्रातिपदिकस्य पदस्य योऽन्त्यो नकारः तस्य लोपो भवति। राजा। राजभ्याम्। राजभिः। राजता। राजतरः। राजतमः। प्रातिपदिकग्रहणं किम्? अहन्नहिम्। अन्तग्रहणं किम्? राजानौ। राजानः। प्रातिपदिकग्रहणमसमस्तमेव सुपां सुलुकिति षष्ठ्या लुका निर्दिष्टम्। अह्नो नलोपप्रतिषेधो वक्तव्यः। अहः। अहोभ्याम्। अहोभिः। रोऽसुपि 8.2.69, अहन् 7.2.68 इति रेफरुत्वयोरसिद्धत्वात् नलोपः प्राप्नोति, सावकाशं तदुभयं सम्बुद्धौ, हेऽहः, हे दीर्घातो निदाघेति? तत्र समाधिमाहुः। अहनिति रुविधौ यदुपादीयते प्रथमैकवचनान्तमकृतनलोपं तदावर्त्यते, तत्र एकया आवृत्त्या तदेवं रूपं नलोपाभावार्थमन्वाख्यायते, द्वितीययापि तस्य रुः विधीयते।
index: 8.2.7 sutra: नलोपः प्रातिपदिकान्तस्य
नेति प्रातिपदिकेति च लुप्तषष्ठीके पदे । प्रातिपदिकसंज्ञकं यत्पदं तदन्तस्य नकारस्य लोपः स्यात् । नलोपस्याऽसिद्धत्वाद्दीर्घत्वमेत्वमैस्त्वं च न । यूषभ्याम् । यूषभिः । यूषभ्य इत्यादि ॥
index: 8.2.7 sutra: नलोपः प्रातिपदिकान्तस्य
प्रातिपदिकसंज्ञकं यत्पदं तदन्तस्य नस्य लोपः । सखा ॥
index: 8.2.7 sutra: नलोपः प्रातिपदिकान्तस्य
यदि कस्यचन प्रातिपदिकस्य पदसंज्ञा अपि भवति, तर्हि तदन्तस्य नकारस्य अनेन सूत्रेण लोपः क्रियते ।
यथा - 'राजन् + भ्याम्' इत्यत्र 'राजन्' एतत् प्रातिपदिकम् तु अस्त्येव, तथा च स्वादिष्वसर्वनामस्थाने 1.4.17 इत्यनेन तस्य पदसंज्ञा अपि विधीयते । अस्यामवस्थायाम् वर्तमानसूत्रेण राजन्-इत्यस्य नकारस्य लोपः भवति, अतः राजभ्याम् इति रूपम् सिद्ध्यति ।
ज्ञातव्यम् - यद्यपि पूर्वत्राऽसिद्धम् 8.2.1 इत्यनेन सपादसप्ताध्यायीं प्रति त्रिपादी असिद्धा अस्ति, तथापि नलोप सुप्स्वरसंज्ञातुग्विधिषु कृति 8.2.2 इत्यनेन नकारलोपः केवलं 'सुप्विधिः/स्वरविधिः/संज्ञाविधिः/कृत्-प्रत्यये परे तुग्विधिः' एतेषु विधिषु एव सपादसप्ताध्यायीं प्रति असिद्धः अस्ति एतत् स्मर्तव्यम् ।
index: 8.2.7 sutra: नलोपः प्रातिपदिकान्तस्य
नलोपः प्रातिपदिकान्तस्य - न लोपः । 'न' इति स्थानषष्ठन्तं पृथक्पदम् । आर्षः षष्टआ लुक् । नकारस्य लोपः स्यादित्यर्थः । अन्तस्येति नकारस्य विशेषणम् । अत एव च नस्य विशेषणसापेक्षत्वाल्लोपशब्देन समासो न भवति, असामर्थ्यात् । कस्यान्त इत्यपेक्षायां पदस्येत्यधिकृतमवयवष्ठन्तमन्वेति - पदस्य योऽयमन्तावयवस्तस्य नकारस्य लोप इति । कीदृशं पदमित्यपेक्षायां प्रातिपदिकेति लुप्तषष्ठन्तमन्वेति । प्रातिपदिकसंज्ञकं यत् पदं तस्य योऽयमन्तावयवो नकारस्तस्यः लोपः स्यादिति । अत एव प्रातिपदिकान्तस्येति न समस्तमेकं पदम् । तस्य पदशब्देनान्वितत्वेनाऽन्तशब्देनाऽसामर्थ्यात् । तदाह-नेति प्रातिपदिकेति च लुप्तेति । तदन्तस्येति । तस्य पदस्य अन्तावयवो यो नककारस्तस्येत्यर्थः । प्रातिपदिकग्रहणं किम् । अहन् । तिङन्तस्य न भवति । पदग्रहणं किम् । अहन् । तिङन्तस्य न भवति । पदग्रहणं किम् । राजानौ । ननु नलोपे सति यूषभ्यामित्यत्रसुपि चे॑दीर्घः स्यात् । यूषभिरित्यत्रअतो भिस ऐ॑सिति ऐसादेशः स्यात् । 'यूषभ्य' इत्यत्रबहुवचने झल्ये॑दित्येत्वं स्यादित्यत आह-नलोपस्यासिद्धत्वादिति । इत्यादीति । यूष्णे यूष्णः । यूष्णोः यूष्णामिति आदिशब्दार्थः । य#ऊषन्-ङि इति स्तिते अल्लोपोऽन इति नित्येऽल्लोपे प्राप्ते- ।
index: 8.2.7 sutra: नलोपः प्रातिपदिकान्तस्य
विशेष्यमन्तस्येत्यस्य नेत्येतदविभक्तिकम् । तथैव प्रातिपदिकेत्येतत् पदविशेषणम् ॥ प्रातिपदिकस्य, पदस्य - इति समानाधिकरणे षष्ठयौ । अहन्निति । हन्तेर्लङ्तिपो हल्ङ्यादिलोपः । अन्तग्रहणं किमिति ।'नलोपः प्रातिपदिकस्य' इत्येवास्तु,'पदस्य' इति वर्तते, तत्र नकारेण पदे विशेष्यमाणे तदन्तविधिना नकारान्तस्य पदस्य लोपो विधीयमानः ठलोऽन्त्यस्यऽ इत्यन्त्यस्यैव भविष्यतीति प्रश्नः । राजानाविति । असत्यन्तग्रहणे प्रातिपदिकस्य पदस्य योऽवयवो नकारः, तस्य यत्र तत्र स्थितस्य लोपो भवतीत्यर्थः स्यात्, ततश्चेहापि स्यादिति भावः । एवं च नराभ्यामित्यादावपि प्रसङ्गो दर्शयितव्यः । ननु च क्रियमाणमप्यन्तग्रहणं प्रातिपदिकग्रहणेन समस्तम्, ततश्च प्रातिपदिकान्तस्य पदावयवस्य नकारस्येत्येषोऽर्थो भवति, न पुनः पदान्तस्येति; ततश्चाहन्, नराभ्यामित्यादौ मा भूत्; राजानावित्यादौ तु स्यादेव ? अत आह - प्रातिपदिकग्रहणमिति । अहरिति ।'स्वमोर्नपुंसकात्' इति स्वमोर्लुक्,'न लुमताङ्गस्य' इति प्रत्ययलक्षणप्रतिषेधात्सुप्परत्वाभावात् रोऽसुपिऽ इति रुत्वम् । अहोभ्यामिति । ठहान्ऽ इति रुत्वम् । ननु चात्र रत्वरुत्वयोः कृतयोर्नकाराभावादेव नलोपो न भविष्यत्यत आह - रुत्वरेफयीरसिद्धत्वादिति । नन्वनवकाशत्वाद्रत्वरुत्वे एव भविष्यतः, उक्तं ह्यपवादस्य परस्यापि वचनप्रामाण्याद सिद्धत्वं न भवतीति ? अत आह - सावकाशं वै तदुभयमिति । सम्बुद्धौ हि'न ङिसंबुद्ध्योः' इति नलोपः प्रतिषिद्ध्यते । हे अहरिति ।'वा नपुंसकानाम्' इति पक्षे नलोपप्रतिषेधः, अत्र रत्वं सावकाशम् । हे दीर्घाहो निदाघेति । पुंल्लिङ्गेऽन्यपदार्थे बहुव्रीहिः, सम्बुद्धेर्हल्ङ्यादिलोपः । निदाघशब्दस्य परस्य प्रयोगो विशेषणार्थः,'हशि च' इत्युत्वम् । अथ अहः, अहोभ्यामित्यादौ नलोपेकृतेऽप्येकदेशविकृतस्यानन्यत्वात्स एवाहः शब्द इत्यवसिष्टस्य योऽन्त्याकारः सोऽवकाशा इति कस्मान्नोक्तम् ? एवं मन्यते - अहन्निति नकारापरित्यागेन निर्देशान्नकारान्तस्यैव स्थानित्वम्, अन्यथा हस्येत्येव ब्रूयादिति । अहन्निति प्रथमैकवचनान्तमिति । आदेशमात्रे विधित्सिते अह्न इति नकारान्तस्यैव षष्ठ।ल प्रथमैकवचनान्तमिति । आदेशमात्रे विधित्सिते अह्न इति नकारान्तस्यैव षष्ठ।ल निर्देशं कुर्यात्; प्रथमान्तस्य निर्देशे प्रयोजनम् - एतस्य रूपस्यान्वाख्यानमेवेति भावः ॥