8-2-7 नलोपः प्रातिपदिकान्तस्य पदस्य पूर्वत्र असिद्धम्
प्रातिपदिकस्य पदस्य अन्त्यस्य नः लोपः ।
प्रातिपदिकसंज्ञकम् यत् पदम् तदन्तस्य नकारस्य लोपः स्यात् ।
The terminal न् letter of a प्रातिपदिक is omitted if the प्रातिपदिक also gets the पदसंंज्ञा.
पदस्येति वर्तते। प्रातिपदिकस्य पदस्य योऽन्त्यो नकारस्तस्य लोपो भवति। राजा। राजभ्याम्। राजभिः। राजता। राजतरः। राजतमः। प्रातिपदिकग्रहणं किम् ? अह॒न्नहि॑म् (ऋ० १.३२.२)। अन्तग्रहणं किम्? राजानौ। राजानः। प्रातिपदिकग्रहणमसमस्तमेव <<सुपां सुलुक्०>>७.१.३९ इति षष्ठ्या लुका निर्दिष्टम्॥ अह्नो नलोपप्रतिषेधो वक्तव्यः॥ अहः। अहोभ्याम्, अहोभिः। <<अहन्>>,<<रोऽसुपि>> (८.२.६८, ६९) इति रेफरुत्वयोरसिद्धत्वाद् नलोपः प्राप्नोति, सावकाशं तदुभयं संबुद्धौ — हेऽहः,हे दीर्घाहो निदाघेति? तत्र समाधिमाहुः। <<अहन्>>८.२.६८ इति रुविधौ यदुपादीयते प्रथमैकवचनान्तमकृतनलोपं तदावर्त्यते, तत्रैकयावृत्त्या तदेवंरूपं नलोपाभावार्थमन्वाख्यायते, द्वितीययापि तस्य रुर्विधीयते॥
नेति प्रातिपदिकेति च लुप्तषष्ठीके पदे । प्रातिपदिकसंज्ञकं यत्पदं तदन्तस्य नकारस्य लोपः स्यात् । नलोपस्याऽसिद्धत्वाद्दीर्घत्वमेत्वमैस्त्वं च न । यूषभ्याम् । यूषभिः । यूषभ्य इत्यादि ॥
प्रातिपदिकसंज्ञकं यत्पदं तदन्तस्य नस्य लोपः । सखा ॥
यदि कस्यचन प्रातिपदिकस्य पदसंज्ञा अपि भवति, तर्हि तदन्तस्य नकारस्य अनेन सूत्रेण लोपः क्रियते । यथा - 'राजन् + भ्याम्' इत्यत्र 'राजन्' एतत् प्रातिपदिकम् तु अस्त्येव, तथा च <<स्वादिष्वसर्वनामस्थाने>> 1.4.17 इत्यनेन तस्य पदसंज्ञा अपि विधीयते । अस्यामवस्थायाम् वर्तमानसूत्रेण राजन्-इत्यस्य नकारस्य लोपः भवति, अतः राजभ्याम् इति रूपम् सिद्ध्यति । ज्ञातव्यम् - यद्यपि <<पूर्वत्राऽसिद्धम्>> 8.2.1 इत्यनेन सपादसप्ताध्यायीं प्रति त्रिपादी असिद्धा अस्ति, तथापि <<नलोप सुप्स्वरसंज्ञातुग्विधिषु कृति>> 8.2.2 इत्यनेन नकारलोपः केवलं 'सुप्विधिः/स्वरविधिः/संज्ञाविधिः/कृत्-प्रत्यये परे तुग्विधिः' एतेषु विधिषु एव सपादसप्ताध्यायीं प्रति असिद्धः अस्ति एतत् स्मर्तव्यम् ।
<<नलोपः प्रातिपदिकान्तस्य>> - न लोपः । 'न' इति स्थानषष्ठन्तं पृथक्पदम् । आर्षः षष्टआ लुक् । नकारस्य लोपः स्यादित्यर्थः । अन्तस्येति नकारस्य विशेषणम् । अत एव च नस्य विशेषणसापेक्षत्वाल्लोपशब्देन समासो न भवति, असामर्थ्यात् । कस्यान्त इत्यपेक्षायां पदस्येत्यधिकृतमवयवष्ठन्तमन्वेति - पदस्य योऽयमन्तावयवस्तस्य नकारस्य लोप इति । कीदृशं पदमित्यपेक्षायां प्रातिपदिकेति लुप्तषष्ठन्तमन्वेति । प्रातिपदिकसंज्ञकं यत् पदं तस्य योऽयमन्तावयवो नकारस्तस्यः लोपः स्यादिति । अत एव प्रातिपदिकान्तस्येति न समस्तमेकं पदम् । तस्य पदशब्देनान्वितत्वेनाऽन्तशब्देनाऽसामर्थ्यात् । तदाह-नेति प्रातिपदिकेति च लुप्तेति । तदन्तस्येति । तस्य पदस्य अन्तावयवो यो नककारस्तस्येत्यर्थः । प्रातिपदिकग्रहणं किम् । अहन् । तिङन्तस्य न भवति । पदग्रहणं किम् । अहन् । तिङन्तस्य न भवति । पदग्रहणं किम् । राजानौ । ननु नलोपे सति यूषभ्यामित्यत्रसुपि चे॑दीर्घः स्यात् । यूषभिरित्यत्रअतो भिस ऐ॑सिति ऐसादेशः स्यात् । 'यूषभ्य' इत्यत्रबहुवचने झल्ये॑दित्येत्वं स्यादित्यत आह-नलोपस्यासिद्धत्वादिति । इत्यादीति । यूष्णे यूष्णः । यूष्णोः यूष्णामिति आदिशब्दार्थः । य#ऊषन्-ङि इति स्तिते अल्लोपोऽन इति नित्येऽल्लोपे प्राप्ते- ।
विशेष्यमन्तस्येत्यस्य नेत्येतदविभक्तिकम् । तथैव प्रातिपदिकेत्येतत् पदविशेषणम् ॥ प्रातिपदिकस्य, पदस्य - इति समानाधिकरणे षष्ठयौ । अहन्निति । हन्तेर्लङ्तिपो हल्ङ्यादिलोपः । अन्तग्रहणं किमिति ।'नलोपः प्रातिपदिकस्य' इत्येवास्तु,'पदस्य' इति वर्तते, तत्र नकारेण पदे विशेष्यमाणे तदन्तविधिना नकारान्तस्य पदस्य लोपो विधीयमानः ठलोऽन्त्यस्यऽ इत्यन्त्यस्यैव भविष्यतीति प्रश्नः । राजानाविति । असत्यन्तग्रहणे प्रातिपदिकस्य पदस्य योऽवयवो नकारः, तस्य यत्र तत्र स्थितस्य लोपो भवतीत्यर्थः स्यात्, ततश्चेहापि स्यादिति भावः । एवं च नराभ्यामित्यादावपि प्रसङ्गो दर्शयितव्यः । ननु च क्रियमाणमप्यन्तग्रहणं प्रातिपदिकग्रहणेन समस्तम्, ततश्च प्रातिपदिकान्तस्य पदावयवस्य नकारस्येत्येषोऽर्थो भवति, न पुनः पदान्तस्येति; ततश्चाहन्, नराभ्यामित्यादौ मा भूत्; राजानावित्यादौ तु स्यादेव ? अत आह - प्रातिपदिकग्रहणमिति । अहरिति ।'स्वमोर्नपुंसकात्' इति स्वमोर्लुक्,'न लुमताङ्गस्य' इति प्रत्ययलक्षणप्रतिषेधात्सुप्परत्वाभावात् रोऽसुपिऽ इति रुत्वम् । अहोभ्यामिति । ठहान्ऽ इति रुत्वम् । ननु चात्र रत्वरुत्वयोः कृतयोर्नकाराभावादेव नलोपो न भविष्यत्यत आह - रुत्वरेफयीरसिद्धत्वादिति । नन्वनवकाशत्वाद्रत्वरुत्वे एव भविष्यतः, उक्तं ह्यपवादस्य परस्यापि वचनप्रामाण्याद सिद्धत्वं न भवतीति ? अत आह - सावकाशं वै तदुभयमिति । सम्बुद्धौ हि'न ङिसंबुद्ध्योः' इति नलोपः प्रतिषिद्ध्यते । हे अहरिति ।'वा नपुंसकानाम्' इति पक्षे नलोपप्रतिषेधः, अत्र रत्वं सावकाशम् । हे दीर्घाहो निदाघेति । पुंल्लिङ्गेऽन्यपदार्थे बहुव्रीहिः, सम्बुद्धेर्हल्ङ्यादिलोपः । निदाघशब्दस्य परस्य प्रयोगो विशेषणार्थः,'हशि च' इत्युत्वम् । अथ अहः, अहोभ्यामित्यादौ नलोपेकृतेऽप्येकदेशविकृतस्यानन्यत्वात्स एवाहः शब्द इत्यवसिष्टस्य योऽन्त्याकारः सोऽवकाशा इति कस्मान्नोक्तम् ? एवं मन्यते - अहन्निति नकारापरित्यागेन निर्देशान्नकारान्तस्यैव स्थानित्वम्, अन्यथा हस्येत्येव ब्रूयादिति । अहन्निति प्रथमैकवचनान्तमिति । आदेशमात्रे विधित्सिते अह्न इति नकारान्तस्यैव षष्ठ।ल प्रथमैकवचनान्तमिति । आदेशमात्रे विधित्सिते अह्न इति नकारान्तस्यैव षष्ठ।ल निर्देशं कुर्यात्; प्रथमान्तस्य निर्देशे प्रयोजनम् - एतस्य रूपस्यान्वाख्यानमेवेति भावः ॥