8-4-39 क्षुभ्नादिषु च पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे न
नेति वर्तते। क्षुभ्ना इत्येवमादिषु शब्देषु नकारस्य णकारादेशो न भवति। क्षुभ्नाति। अजादेशस्य स्थानिवद्भावादिहापि प्रतिषेधो भवति — क्षुभ्नीतः, क्षुभ्नन्ति। नृनमनः। <<पूर्वपदात् संज्ञायाम्०>>८.४.३ इति प्राप्तिः। <<छन्दस्यृदवग्रहात्>> ८.४.२६ इति च प्राप्नोति। नन्दिन्, नन्दन, नगर एतान्युत्तरपदानि संज्ञायां प्रयोजयन्ति। हरिनन्दी। हरिनन्दनः। गिरिनगरम्। नृतिर्यङि प्रयोजयति। नरीनृत्यते। तृप्नु — तृप्नोति। नर्तन, गहन, नन्दन, निवेश, निवास, अग्नि, अनूप एतान्युत्तरपदानि प्रयोजयन्ति। परिनर्तनम् परिगहनमिति संज्ञायां <<पूर्वपदात् संज्ञायाम्०>> ८.४.३ इति प्राप्नोति। परिनन्दनमित्यत्र <<उपसर्गादसमासेऽपि०>> ८.४.१४ इति प्राप्नोति। शरनिवेशः, शरनिवासः शराग्निः, दर्भानूप इत्येताः संज्ञाः। आचार्यादणत्वं च (ग०सू० १८५)। आचार्यभोगीनः। आचार्यानी। इरिकादिभ्यो वनोत्तरपदेभ्यः संज्ञायाम् (ग० सू० १८३)। इरिका, तिमिर, समीर, कुबेर, हरि, कर्मार इत्युत्तरपदवनशब्दस्थस्य संज्ञायाम्। क्षुभ्नादिराकृतिगणः। अविहितलक्षणो णत्वप्रतिषेधः क्षुभ्नादिषु द्रष्टव्यः॥
एषु णत्वं न स्यात् । दीर्घाह्नी प्रावृट् । एवं चैतदर्थमह्न इत्यदन्तानुकरणक्लेशो न कर्तव्यः । प्रातिपदिकान्त - <{SK1055}> इति णत्ववारणाय क्षुभ्नादिषु पाठस्यावश्यकत्वात् । अदन्तादिति तपकरणान्नेह । परगतमहः पराह्नः ॥
णत्वं न । नरीनृत्यते । जरीगृह्यते ॥ इति यङन्तप्रक्रिया ॥
<<क्षुभ्नाऽऽदिषु च>> - क्षुभ्नादिषु च ।रषाभ्या॑मित्यतो 'ण' इति,न भाभूपूकमी॑त्यतोने॑ति चानुवर्तते । तदाह — एष्विति । दीर्घाह्नी प्रावृडिति । वर्षर्तौ प्रावृट्शब्दः स्त्रीलिङ्गः ।स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षाः॑ इत्यमरः । दीर्घाण्यहानि यस्मिन्निति बहुव्रीहिः ।अन उपधालोपिनोऽन्यतरस्या॑मिति ङीप् । 'अल्लोपोऽनः' इत्युपधालोपः ।अह्नोऽदन्ता॑दिति णत्वं तु क्षुभ्नादित्वान्नेति भावः । ननु क्षुभ्नादिषुदीर्घाह्नी॑त्यस्य पाठो व्यर्थः, 'अह्नोऽदन्तात्' इत्यत्र हिअर्ह्ने॑त्यदन्तात् षष्ठर्थे प्रथमा । अदन्तपूर्वपदस्थान्निमित्तात्परस्याऽह्नशब्दस्य नस्य णत्वं स्यादिति तदर्थः । दीर्घाह्नीत्यत्र च ह्नादेशस्याप्रसक्त्याऽदन्तत्वाऽभावादेव णत्वस्याऽप्राप्तौ किं तन्नुवृत्त्यर्थेन क्षुभ्नादिपाठेनेत्यत आह — एवंचेति । एवं सति=दीर्घाह्नीशब्दस्य क्षुभ्नादिपाठे सति, एतदर्थम् — ॒अह्नोऽदन्ता॑दिति णत्वनिवृत्त्यर्थम्, अह्नेत्यस्य अदन्तत्वानुसरणं, षष्ठर्थे व्यत्ययेन प्रथमानुसरणं क्लेशावहं न कर्तव्यमित्यर्थः । क्षुभ्नादिपाठादेव णत्वनिवृत्तिसिद्धेरिति भावः । ननु दीर्घाह्नीत्यस्य णत्वाऽभावय किं क्षुभ्नादिपाठो ।भ्युपगम्यतामुतअह्ने॑त्यस्याऽदन्तत्वमित्यत्र विनिगमनाविरह इत्यत आह — प्रातिपदिकान्तेति । अथअह्नोऽदन्ता॑दित्यत्र पूर्वपदविशेषणेऽदन्तादिति तपरत्वस्य प्रयोजनमाह — अदन्तादिति । पराह्न इति ।प्रादयो गताद्यर्थे॑ इति समासः, टच्, अव्ययात्परत्वादह्नादेशः परेति पूर्वपदस्याऽदन्तत्वाभावान्न णत्वमिति भावः ।
क्षुभ्ना - इति स्वरूपग्रहणम्, न धातुग्रहणम्, तेन क्षोभणमित्यादौ णत्वं भवत्येव । क्षुभ्नीतः, क्षुभ्नन्तीति । अत्र त्वाल्लोपयोः स्थानिवद्भावादेकदेश विकृतस्यानन्यत्वाद्वा णत्वं न भवति । नृन्नमयतीति नृनमः । हरिनन्दीति ताच्छीलिको णिनिः । हरिनन्दनः, गिरिनगरमिति षष्ठीसमासौ । नरीनृत्यत इति । रीगृदुपधस्य चऽ । तृप्नोतीति । च्छन्दसि व्यत्ययेन श्नुः । परिनर्तनम्, परिगहनमिति । प्रादिसमासौ । परिनन्दनमिति । गतिसमासः । शरनिवेशादयो दर्भानूपान्ताः षष्ठीसमासाः । आचार्यभोगीनः, आचार्यानीति । अत्रैवास्यप्रतिषेधः; आचार्येण, आचार्याणमित्यादौ तु भवत्येव । क्षुभ्नादिराकृतिगण इति । चकारोऽनुक्तसमुच्चयार्थ एवमेवार्थं सूचयति ॥