8-2-2 नलोपः सुप्स्वरसञ्ज्ञातुग्विधिषु कृति पदस्य पूर्वत्र असिद्धम्
सुप्-स्वर-संज्ञा-तुग्विधिषु-कृति नलोपः पूर्वत्र असिद्धम्
नकारलोपः केवलं सुप्-विधौ, स्वरविधौ, संज्ञाविधौ, तथा कृति-तुक्-विधौ एव असिद्धः अस्ति, न अन्यत्र ।
The नकारलोप given by 'न लोपः प्रातिपदिकान्तस्य' is असिद्ध only with reference to (1) सुप्-विधि, (2) स्वरविधि, (3) संज्ञाविधि, and (4) तुगागम caused by a कृत्-प्रत्यय.
नलोपः पूर्वत्रासिद्धो भवति सुब्विधौ, स्वरविधौ, संज्ञाविधौ, तुग्विधौ च कृति। विधिशब्दोऽयं प्रत्येकमभिसंबध्यमानः स्वरसंज्ञातुकां विधेयत्वात् तैः कर्मषष्ठीयुक्तैर्भावसाधनोऽभिसंबध्यते। सुपा तु सम्बन्धसामान्यवचनषष्ठ्यन्तेन कर्मसाधनः। तेन सुपः स्थाने यो विधिः, सुपि च परभूते, सर्वोऽसौ सुब्विधिरिति सर्वत्रासिद्धत्वं भवति।
सुब्विधौ तावत् — राजभिः, तक्षभिः इत्यत्र नलोपस्यासिद्धत्वाद् <<अतो भिस ऐस्>> ७.१.९ इति न भवति। राजभ्याम्, तक्षभ्याम्, राजसु, तक्षस्विति <<सुपि च>> ७.३.१०२ इति, <<बहुवचने झल्येत्>> ७.३.१०३ इति दीर्घत्वमेत्वं च न भवति। स्वरविधौ — राजवतीत्यत्र नलोपस्यासिद्धत्वाद् <<अन्तोऽवत्याः>> ६.१.२२० इति न भवति। पञ्चार्मम्, दशार्ममित्यत्र नलोपस्यासिद्धत्वाद् <<अर्मे चावर्णं द्व्यच् त्र्यच्>> ६.२.९० इति पूर्वपदस्याद्युदात्तत्वं न भवति। पञ्चदण्डी इत्यत्र नलोपस्यासिद्धत्वादिगन्ते द्विगौ ६.२.२९ इति पूर्वपदप्रकृतिस्वरो न भवति। संज्ञाविधौ — पञ्च ब्राह्मण्यः, दश ब्राह्मण्य इति नलोपस्यासिद्धत्वाद् <<ष्णान्ता षट्>> १.१.२४ इति षट्संज्ञा भवति। ततश्च <<न षट्स्वस्रादिभ्यः>> ४.१.१० इति टापः प्रतिषेधो भवति। तदेतत् प्रयोजनं कथं भवति ? यदि प्रतिकार्यं संज्ञाप्रवृत्तिरित्येतद् दर्शनम्। या हि जश्शसोर्लुगर्था षट्संज्ञा प्रवृत्ता तया स्त्रीप्रत्ययप्रतिषेधो न क्रियत इति सा पुनः प्रवर्तयितव्येति। तुग्विधौ — वृत्रहभ्याम्, वृत्रहभिरिति नलोपस्यासिद्धत्वाद् <<ह्रस्वस्य पिति कृति तुक्>> ६.१.७१ इति तुग् न भवति। अत्र केचित् <<संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य>> इति तुकं प्रति नलोपस्यानिमित्तत्वाद् बहिरङ्गलक्षणेन वासिद्धत्वात् तुग्विधिग्रहणमनर्थकमिति प्रतिपन्नाः। तत् तु क्रियते परिभाषाद्वयस्यानित्यत्वं ज्ञापयितुम्। कृतीति किम्? वृत्रहच्छत्रम्, वृत्रहच्छाया <<छे च>> ६.१.७३ इति तुग् भवति।
अत्र सिद्धे सत्यारम्भो नियमार्थः — एतेष्वेव नलोपोऽसिद्धो भवति, नान्यत्र। तेन राजीयति, राजायते, राजाश्व इतीत्वम्, दीर्घत्वम्, एकादेशश्च सिद्धो भवति॥
सुब्विधौ स्वरविधौ संज्ञाविधौ कृतितुग्विधौ च नलोपोऽसिद्धो नान्यत्र राजश्व इत्यादौ । इत्यसिद्धत्वादात्वमेत्वमैस्त्वं च न । राजभ्याम् । राजभिः । राज्ञे । राजभ्यः । राज्ञः । राज्ञोः । राज्ञाम् । राज्ञि । राजनि ॥ प्रतिदीव्यतीति प्रतिदिवा । प्रतिदिवानौ । प्रतिदिवानः । अस्य भविषयेऽल्लोपे कृते ॥
सुब्विधौ स्वरविधौ संज्ञाविधौ कृति तुग्विधौ च नलोपोऽसिद्धो नान्यत्र - राजाश्व इत्यादौ। इत्यसिद्धत्वादात्वमेत्त्वमैस्त्वं च न। राजभ्याम्। राजभिः। राज्ञि, राजनि। राजसु॥ यज्वा। यज्वानौ। यज्वानः॥
<<पूर्वत्रासिद्धम्>> 8.2.1 अनेन सूत्रेण सपादसप्ताध्यायीं प्रति त्रिपाद्याः असिद्धत्वम् उच्यते । इदम् असिद्धत्वम् <<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इत्यस्य त्रिपादीसूत्रस्य विषये प्रकृतसूत्रेण नियम्यते । <<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इत्यनेन निर्दिष्टः नकारलोपः सम्पूर्णां सपादसप्ताध्यायीं प्रति असिद्धः नास्ति, अपितु सपादसप्ताध्याय्याः केवलम् सुप्-विधिं प्रति, स्वर-विधिं प्रति, संज्ञा-विधिं प्रति तथा च कृृन्निमितक-तुग्विधिं प्रति एव असिद्धः अस्ति । — इति अस्य सूत्रस्य आशयः । क्रमेण उदाहरणानि एतादृशानि —
1)
<<नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति>> - नच नलोपस्याऽसिद्धत्वादिह दीर्घ ऐस् एत्त्वं च नेति वाच्यं, नलोपविषयेपूर्वत्राऽसिद्ध॑मित्यस्य प्रवृत्तौ राजाआओ दण्डश्च इत्यादावपि नलोपस्याऽसिद्धत्वात्सवर्णदीर्घ यणाद्यनापत्तेरित्यत आह — नलोपः सुप् । नस्य लोपो नलोपः । विधिशब्दो भावसाधनः, विधानं विधिः । सुप्च स्वरश्च संज्ञा च तुक्च तेषां विधय इति सम्बन्धसामान्यषष्ठआ समासः ।कृती॑ति तु तुकैव सम्बध्यते, अन्यत्राऽसम्भवात्तदाह — सुब्विधावित्यादिना । सुपो विधिः सुब्विधिः । सम्बन्धसामान्यं विवक्षितम् । सुबाश्रयविधाविति यावत् । स्वरस्य विधिः । कर्मणः शेषत्वविवक्षया षष्ठी । स्वरे विधेये इति यावत् । एवं संज्ञाविधावित्यपि कर्मणः शेषत्वविवक्षया षष्ठी । संज्ञायां विधेयायामिति यावत् । कृति परतो यस्तुक् तस्य विधिः कृतितुग्विधिः । इहापि कर्मणः शेषत्वविवक्षया षष्ठी । कृति परे यस्तुक् । तस्मिन् विधेये इति यावत् ।पूर्वत्रासिद्ध॑मित्येव सिद्धेऽन्यनिवृत्तिफलकनियमार्थमेतदित्याह — नान्यत्रेति ।अन्यत्रे॑त्येतदुदाहृत्य दर्शयति-राजाआ इत्यादाविति । आदिना दण्डयआ इत्यादिसङ्ग्रहः । अत्र सवर्णदीर्घयणादिविधीनां सुब्विध्यटाद्यनन्तर्भावात्तेषु कर्तव्येषु नलोपस्याऽसिद्धत्वाऽभावे सति नकारलोपस्य सत्त्वात्सवर्णदीर्घादिकं निर्बाधमिति भावः । प्रकृते-राजाभ्यां राजभ्य इत्यत्र दीर्घादिन भवत्येवेत्याह — इत्यसिद्धत्वादिति । सुपि परतो दीर्घविधिः, भिसः ऐस्विधिः, भ्यसि एत्त्वविधिश्च सुबाश्रयविधय इति तेषु कर्तव्येषु परिसङ्ख्याविधिलभ्याऽसिद्धत्वनिषेधाऽभावे सतिपूर्वत्रासिद्ध॑मिति नलोपस्याऽसिद्धत्वान्नदीर्घादिकमित्यर्थः । वस्तुतस्त्वन्यनिवृत्तिफलकसिद्धविषयकविधित्वमेव नियमविधित्वम् । अत एवपञ्च पञ्चनखा भक्ष्याः॑ इत्यत्र पञ्चानां पञ्चनखप्राणिनां भक्षणनियमे तदितरेषां पञ्चनखानां भक्षणप्रतिषेधो गम्यते इति पस्पशाह्निकभाष्ये प्रपञ्चितम् । तदाह-इत्यसिद्धत्वादिति । ननु दण्डिष्वित्यत्र नलोपे कृत इणः परत्वात्सस्य षत्वमिति स्थितिः । तत्र षत्वविधेः सुबाश्रयविधित्वात्तत्र कर्तव्ये नलोपस्याऽसिद्धत्वात्कथं षत्वमिति चेत्, मैवं — न हि षत्वविधि सुब्विधिः । सुप्त्वं तद्व्याप्यधर्मं वा पुरस्कृत्य प्रवर्तमानो विधिर्हि सुब्विधिरिह विवक्षितः । नच षत्वविधिस्तथा । अतस्तत्र नलोपस्य सिद्धत्वमस्त्येवेति षत्वं निर्बाधम् । अस्तु वा षत्वविधिरपि सुब्बिधिस्तथापि तस्मिन् कर्तव्ये नलोपस्याऽसिद्धत्वं न भवत्येव । तदसिद्धत्वंहि किंपूर्वत्रासिद्ध॑मित्यनेनापाद्यते, उतनलोपः सुप्स्वरे॑त्यनेनैव । न तावदाद्यः, नलोपविधेः षत्वविध्यपेक्षया पूर्वत्वेन तस्य षत्वे कर्तव्येऽसिद्धत्वाऽसंभवात् । न द्वितीयः,नलोपः सुप्स्वरे॑त्यनेन हिराजभ्या॑मित्यादौ नलोपस्याऽसिद्धत्वमपूर्वं न विधीयते, किंतुपूर्वत्रासिद्ध॑मित्यनेन प्राप्तमेव नियमार्थं पुनर्विधीयते 'राजाआ' इत्यादौ सुप्स्वरसंज्ञातुग्बिधिभिन्नसवर्णदीर्घादिविधिसिद्धये । दण्डिष्वित्यत्र तु नलोपस्याऽसिद्धत्वंपूर्वत्रासिद्ध॑मित्यनेन प्राप्तं न भवतीति तस्यनलोपः सुप्स्वरे॑ति सूत्रविषयत्वं न सम्भवति । अन्यथा सुब्विधावित्यनेन दण्डिष्वित्यादौ षत्वे कर्तव्ये नलोपाऽसिद्धत्वमपूर्वं विधीयेत । राजभ्या॑मित्यादौ तु दीर्घादौ कर्तव्ये सिद्धमेव नियमार्थं विधीयत इति विधिवैरूप्यमापद्येत, तस्माद्दण्डिष्वित्यादौ षत्वे कर्तव्ये नलोपस्याऽसिद्धत्वाऽभावान्नलोपस्य सत्त्वादिणः परत्वाऽनपायात्षत्वं निर्बाधमिति शब्देन्दुशेखरे प्रपञ्चितम् । प्रकृतमनुसरामः । स्वरविधौ यथा-पञ्चार्मम् । अत्र नलोपस्याऽसिद्धत्वादकारान्तत्वाऽभावात्अर्मेचावर्णं द्व्यच्ञ्य॑जिति पूर्वपदाद्युदात्तत्वं न भवति । संज्ञाविधौ यथा-दण्डिदत्तौ दत्तदण्डिनौ । अत्रद्वन्द्वे धी॑ति पूर्वनिपातनियमो न भवति, घिसंज्ञाविधौ नलोपस्याऽसिद्धत्वेन इदन्तत्वविरहात् । कृतितुग्विधौ यथा-वृत्रहभ्याम् वृत्रहभिः । अत्रब्राहृभ्रूणवृत्रेषु क्वि॑बिति विहितं क्विपमाश्रित्यह्रस्वस्य पिति कृति तुगि॑ति न तुक्, नलोपस्याऽसिद्धत्वेन ह्रस्वस्य नकारव्यवहितत्वात् । कृतीति विशेषणाच्छे चे॑ति तुग्विधौ नलोपस्य नाऽसिद्धत्वम् । ततश्च वृत्रहच्छत्रम् । इह स्यादेवछे चे॑ति तुक् । भाष्ये तु वृत्रहभ्यामित्यादौ नलोपस्य सत्त्वेऽपि संनिपातपरिभाषयाह्रस्वस्य पिती॑ति तुक् न भविष्यतीति तुग्विधिग्रहणं प्रत्याख्यातम् । 'स्वादिषु' इति पदत्वद्वारा भ्याम्संनिपातमिमित्तको नलोपस्तद्विघातकं न प्रवर्तयतीत्याशयः ।ननुवृत्रहधन॑मित्यत्र तुग्व्यावृत्त्यर्थं तुग्विधिग्रहणमावश्यकं, तत्र नलोपस्यान्तर्वर्तिनीं विभक्तिमाश्रित्य प्रवृत्तं पदत्वमादाय प्रवृत्तस्य नलोपस्य संनिपातनिमित्तकत्वाऽभावादिति चेन्न, तुग्विधिग्रहणप्रत्याख्यानपरभाष्यप्रामाण्येनतादृशसंनिपाताऽनिमित्तकनलोपविषयाणांवृत्रहझन॑मित्यादीनामनिधानकल्पनादित्यास्तां तावत् । राज्ञि-राजनीति । 'विभाषा ङिश्योः' इत्यल्लोपविकल्प इति भावः । प्रतिदिवेति ।दिवु क्रीडादौ॑ । तस्मात्कनिन्युवृषितक्षी॑त्युणादिसूत्रेण कनिन्प्रत्ययः । कनावितौ । इकार उच्चारणार्थः । प्रतिदिवन्शब्दात्सुबुत्पत्तिः ।सर्वनामस्थाने चे॑ति दीर्घः । हल्ङ्यादिना सुलोपे 'प्रतिदिवा' इति रूपम् । सुटि राजवत् । अस्येति । प्रतिदवन्शब्दस्य शसादावचि अल्लोपोऽन इत्यल्लोपे सतीत्यर्थः ।
अत्र सूत्रे, उतरसूत्रे च कार्योपादानात् कार्ये कार्यस्यासिद्धत्वमुच्यते ।'कृति' इत्येततु सम्भवव्यभिचाराभ्यां तुग्विधिनैव सम्बध्यते । विधिशब्दो भावसाधनः, कर्मसाधनश्च; तत्र भावसाधनानां त्रयाणां कर्मसाधनस्य चैकस्यैकशेषः; भिन्नार्थानामपि सरूपाणामेकसेषवचनात् । विधिश्च विधिश्च विधिश्च विधयः, ततो बहुवचनान्तेन विधिशब्देन सुबादीनां द्वन्द्वस्य षष्ठीसमासः । सर्वत्र च शेषलक्षणा षष्ठी । तत्र सुब्विधौ शेष एव शेषः, इतरेषु तु कर्म शेषत्वेन विवक्षितम् । तदिदमुक्तम् - विधिशब्दोऽयमित्यादि । सम्बन्धसामान्यषष्ठ।ल्न्तेनेति । सम्बन्धसामान्यमुच्यते षष्ठ।ल, तदन्तेनेत्यर्थः । सामान्यशब्देन स्थानेयोगव्यवच्छेदः । कथं पुनः'षष्ठी स्थानेयोगा' इति परिभाषायां सत्यां सामान्यवचनता लभ्यते ? उच्यते; नात्र सुपः स्थाने किञ्चिद्विधीयते, किं तर्हि ? अनुवादोऽयम् - सुपो यो विधिस्तत्रेति । अनुवादे च परिभाषा न प्रवर्तते; ठुदीचामातः स्थानेऽ इति स्थानेग्रहणाल्लिङ्गात् । सम्बन्धसामान्यवचनषष्ठ।ल्न्तेनेति यदुक्तम्, तत्र प्रयोजनमाह - सुपां स्थान इत्यादि । सर्वोऽसौ सुब्विधिरिति । सर्वस्य सुप्सम्बन्धित्वात्सुबर्थमेव चेदं विधिग्रहणं कृतम् । स्वरादिषु तु नार्थः; तेन यथा'न मु ने' इत्यत्र नाभावे कर्तव्ये इत्यर्थी भवति, तथा स्वरादिषु कर्तव्येष्वित्यर्थो भविष्यति । द्वन्द्वात्परस्य तु प्रत्येकं सम्बन्धो दुर्निवार इति भावसाधनत्वमङ्गीकृतम् ।'सुब्विधिस्वरसंज्ञातुक्षु' इत्युच्यमाने तु न किञ्चिद्यत्नसाध्यम् । राजवतीति । मतुबन्ताद् ठुगितश्चऽ इति ङीप्, राजशब्दः कनिन्प्रत्ययान्तत्वादाद्यौदातः । पञ्चार्ममिति ।'दिक्संख्ये संज्ञायाम्' इति समासः, तत्र नलोपे कृते पूर्वपदमवर्णान्तं जातमिति स्वरः प्राप्तोऽसिद्धत्वान्न भवति, समासोदातत्वमेव भवति । पञ्चदण्डीति । समाहारद्विगुः । नलोपस्यासिद्धत्वात् ष्णान्ता षडिति षट्संज्ञा भवतीति । एतच्च यतत्रोक्तम् - ठस्तग्रहणमौपदेशिकप्रतिपत्यर्थम्ऽ इति, तदनाश्रित्योक्तं द्रष्टव्यम् । न षट्स्वस्त्रादिभ्य इति टापः प्रतिषेधो भवतीति । अत्र हि नान्तत्वादाप्प्राप्तः, सोऽपि निषिध्यते;'स्त्रियां यदुक्तं तन्न भवति' इति सामान्येन निषेधविधानात् । तदेतत्प्रयोजनं कथं भवतीति । पाक्षिकत्वं प्रयोजनस्य दर्शयितुं प्रश्नः । केषाञ्चिद्दर्शनम् - अनारभ्य कार्यविशेषमादौ तावत्संज्ञा क्रियते, ततो यस्यां दशायां यत्कार्यं प्राप्तं तत्क्रियते लोकवत्, तद्यथा - लोके दशम्यामुत्थितायां पुत्रस्य नाम दधातीति सकृत्कृतया संज्ञया सर्वाणि कार्याणि क्रियन्ते, न तु प्रतिकार्यं नाम कुर्वन्ति, तद्वदिति । अयं च'यथोद्देशं संज्ञापरिभाषम्' इति पक्षः । कार्यकालपक्षे तु तेनतेन विधिवाक्येनेकवाक्यतापन्नेन संज्ञासूत्रेण संज्ञा प्रणीयत इति प्रतिकार्यं संज्ञाप्रवृत्तिः । तत्राद्ये दर्शने जश्शसोर्लुगर्था या संज्ञा तयैव टाप्प्रतिषेधस्यापि सिद्धत्वान्नेदं प्रयोजनम्, द्वितीये तु पक्षे भवति प्रयोजनमित्याह - यदि प्रतिकार्यमिति । कथं तदा प्रयोजनम् ? इत्याह - या हीति । जश्शसोर्लुगर्थेति । उपलक्षणमेतत्, ङीप्प्रतिषेधार्थेत्यपि द्रष्टव्यम् । स्त्रीप्रत्ययस्येति । टाप इत्यर्थः । अथ प्रथमे पक्षे न कर्तव्यं संज्ञाग्रहणम्, इह हि - दण्डिगुप्तौ, गुप्तदण्डिनाविति नलोपे कृते दण्डिशब्दस्य घिसंज्ञा प्राप्नोति, ततश्च तस्यैव पूर्वनिपातः स्यात्; नलोपस्यासिद्धत्वाद्धि संज्ञाया अभावादनियमः पूर्वनिपातस्य भवति । अत्र के चदित्यादि । सुपः सन्निपातेन नलोपः, स यदि तुकं प्रवर्तयेत् तत्सन्निपातं विहन्यात् । कथं पुनः सन्निपातस्य विघातः, यावता पूर्वान्तस्तुक् स तुग्ग्रहणेन गृह्यते ? सत्यम्; ह्रस्वमात्रभक्तस्तुगित्याश्रित्येदमुक्तम् । बहिरङ्गलक्षणत्वेन वेति । बहिर्भूतविभक्त्यपेक्षो नलोपोऽन्तर्भूतक्विबपेक्षे तुक्यसिद्धो भवतीत्यर्थः । परिभाषाद्वय्साप्यनित्यत्वं ज्ञापयितुमिति । तत्र सन्निपातपरिभाषाया अनित्यत्वाद् वृक्षायेत्यादौ'सुपि च' इति दीर्घत्वं भवति । बहिरङ्गपरिभाषायास्त्वनित्यत्वाद् एषा, द्वे इत्यत्र विभक्त्याश्रयं त्यदाद्यत्वं बहिरङ्गमपि प्रातिपदिकाश्रये टापि न सिद्धं भवति । वृत्रहच्छत्रमिति । नात्र सन्निपातलक्षणो नलोपः, नापि नलोपस्य बहिरङ्गत्वम्; तुकोऽपि च्छकारापेक्षत्वात् । राजीयतीति ।'क्यचि च' इतीत्वम् । राजायत इति । ठकृत्सार्वधातुकयोःऽ इति दीर्घः । राजाश्व इति । ठकः सवर्ण दीर्घःऽ ॥