8-2-42 रदाभ्यां निष्ठातः नः पूर्वस्य च दः पदस्य पूर्वत्र असिद्धम्
रेफदकाराभ्यामुत्तरस्य निष्ठातकारस्य नकार आदेशो भवति, पूर्वस्य च दकारस्य रेफात् तावत् — आस्तीर्णम्। विस्तीर्णम्। विशीर्णम्। निगीर्णम्। अवगूर्णम्। दकारात् — भिन्नः। भिन्नवान्। छिन्नः। छिन्नवान्। रदाभ्यामिति किम्? कृतः। कृतवान्। र इत्यत्र रश्रुतिसामान्यं नोपादीयते। किं तर्हि? व्यञ्जनमात्रम्। रेफसामान्यनिर्देशेऽपि सति रेफात् परा याज्भक्तिः, तद्व्यवधानाद् नत्वं न भवति। निष्ठेति किम्? कर्ता। हर्ता। त इति किम्? चरितम्। मुदितम्। पूर्वस्येति किम्? परस्य मा भूत् — भिन्नवद्भ्याम्, भिन्नवद्भिः। इह कृतस्यापत्यं कार्तिरिति वृद्धेर्बहिरङ्गलक्षणाया असिद्धत्वाद् नत्वे कर्तव्ये रेफस्यासिद्धत्वम्॥
रेफदकाराभ्यां परस्य निष्ठातस्य नः स्यात् । निष्ठापेक्षया पूर्वस्य धातोर्दकारस्य च । शॄ । ऋत इत् <{SK2390}> । रपरः । णत्वम् । शीर्णः । बहिरङ्गत्वेन वृद्धेरसिद्धत्वान्नेह । कृतस्यापत्यं कार्तिः । भिन्नः । छिन्नः ॥
रदाभ्यां परस्य निष्ठातस्य नः स्यात् निष्ठापेक्षया पूर्वस्य धातोर्दस्य च॥ शॄ हिंसायाम्॥ ॠत इत्। रपरः। णत्वम्। शीर्णः। भिन्नः। छिन्नः॥
<<रदाभ्यां निष्ठातो नः पूर्वस्य च दः>> - रदाभ्यां । रदाभ्यामित्यकारावुच्चारणाऽर्थौ । तदाह — रेफदकाराभ्यामिति । निष्ठायाः - त्- निष्ठात्, तस्य निष्ठात इति विग्रहः । तदाह — निष्ठातस्येति । निष्ठातकारस्येत्यर्थः । नः स्यादिति । नकारः स्यादित्यर्थः । सूत्रे 'न' इति प्रथमान्तम् । अकार उच्चारणार्थः । दकारसय्चेतिनकार॑इत्यनुषज्यते । सूत्रे 'द' इति षष्ठन्तमिति भावः । चरितमुदितमित्यत्र तु नत्वं न, निष्ठातकारस्य इटा व्यवहितत्वेन रदाभ्यां परत्वाऽभावात् । रेफात्परस्योदाहरति — श इति । शृ धातोः क्तप्रत्ययसूचनमिदम् ।ननु कृतस्यापत्यं कार्तिः । अत इञ् , आदिवृद्धिः, रपरत्वम् । अत्रनिष्ठातकारस्य रेफात् परस्य नत्वं स्यादित्यत आह — बहिरङ्गत्वेनेति । दात्परस्योदाहरति — छिन्नः भिन्न इति । अत्र निष्टातकारस्य, धात्वन्तदकारस्यच नत्वमिति भावः ।
'निष्ठातः' इति समासनिर्देशः । तत्र प्रधानभूततकारः रदाभ्याम्ऽ इत्यनेन विशेष्यते, न गुणभूता निष्ठेत्याह -रेफदकाराभ्यामुतरस्येति । तेन चरितम्, मुदितमित्यत्र निष्ठाया अव्यवधानेऽपि तस्येटा व्यवहितत्वान्नत्वं न भवति । अवगूर्णमिति ।'गुरी उद्यमने' ,'श्वीदितो निष्ठायाम्' इतीटप्रतिषेधः, पूर्वेषु र्ठ्श्युकः कितिऽ इति । भिन्नः, भिन्नवानिति । आदेशे'न' इत्यकार उच्चारणार्थः, तेन दकारस्य स्थाने शुद्धो नकारो भवति । कृतः कृतवानिति । ननु यथा'कृपो रो लः' इत्यृकारस्यापि रेफस्य लकारो भवति, तथेहापि ऋकारस्य रेफमाश्रित्य नत्वं प्राप्नोति ? अत आह - र इत्यत्रेति । युक्तं तत्र सामान्योपादानात्, इह तु न सामान्यमुपादीयते, किं तर्हि ? व्यञ्जनम् । किमात्मकम् ? अर्द्धमात्रात्मकम्, ऋकारस्तु मात्राचतुर्भागात्मकः । अस्तु वा सामान्यनिर्देशः, तथापि न दोष इत्याह - सामान्यनिर्देशे चेति । ऋकारे ह्यभितोऽज्भक्तिः, मध्ये रेफभक्तिः, ततश्च परयाऽज्यभक्त्या व्यवधानान्नास्ति नत्वप्रसङ्गः । चरितम्, मुदितमिति ।'त' इत्यनुच्यमाने इटो निष्ठाभक्तत्वातस्य नत्वप्रसङ्गः । परस्य मा भूदिति । परस्यैव मा भूदित्यर्थः । असति पूर्वग्रहणे पाठक्रमे निष्ठा प्रत्यासन्नेति तद्दकारस्येव नत्वेन भाव्यम् । तेनैतदपि न चोदनीयम् - बहिरङ्गत्वाल्लाक्षणिकत्वाच्च न भविष्यतीति । किञ्च - पदस्येत्यधिकारात् पदावस्थायां नत्वविधानाद्बहिरङ्गत्वमपि नास्ति । केवलस्य वर्णस्यानुपदेशात् प्रतिपदोक्तत्वमपि नास्ति । अथापि प्रत्यासतिर्नापेक्ष्यते, तथापि पञ्चमीनिर्देशात् परस्यैव प्रसङ्गः । कार्तिरित्यत्र बहिर्भूततद्धितापेक्षत्वाद्बहिरङ्गा वृद्धिः । वृद्धेश्च यन्निमितं तदेव रेफस्यापि; ठुरण् रपरःऽ इत्यस्य वृद्धिविधिनैकवाक्यत्वात् ॥