न ध्याख्यापॄमूर्छिमदाम्

8-2-57 न ध्याख्यापॄमूर्च्छिमदाम् पदस्य पूर्वत्र असिद्धम् निष्ठातः नः

Kashika

Up

index: 8.2.57 sutra: न ध्याख्यापॄमूर्छिमदाम्


ध्या ख्या पृ̄ मूर्च्छि मद इत्येतेषां निष्ठातकारस्य नकारादेशो न भवति। ध्यातः। ध्यातवान्। ख्यातः। ख्यातवान्। पूर्तः। पूर्तवान्। मूर्तः। मूर्तवान्। मत्तः। मत्तवान्। रदाभ्याम्, संयोगादेः इति च प्राप्तः प्रतिषिध्यते।

Siddhanta Kaumudi

Up

index: 8.2.57 sutra: न ध्याख्यापॄमूर्छिमदाम्


एभ्यो निष्ठातस्य नत्वं न । ध्यातः । ख्यातः । पूर्तः । राल्लोपः <{SK2655}> । मूर्तः । मत्तः ॥

Balamanorama

Up

index: 8.2.57 sutra: न ध्याख्यापॄमूर्छिमदाम्


न ध्याख्यापॄमूर्छिमदाम् - न ध्याख्या । पञ्चम्यर्थे षष्ठी । तदाह — एभ्य इति । ध्यात इति । ध्यैधातोः क्तः । 'आदेचः' इत्यात्वम् । अत्र 'संयोगादेरातः' इति प्राप्तं नत्वं न । ख्यात इति । ख्याञादेशपक्षे यण्वत्त्वात् 'संयोगादेरातः' इति प्राप्तं नत्वं न । ख्यादेशस्य शस्य यत्वे तु यस् णत्वप्रकरणगतस्याऽसिद्धत्वाद्यण्वत्त्वाऽभावात् 'संयोगादेरातः' इति नत्वस्य न प्रसक्तिः । स्वतः सिद्धख्याधातोस्तु आर्धधातुके प्रयोगो नाऽस्त्येवेति ख्याग्रहणं व्यर्थमेव । पूर्त इति । पृधातोः क्तः ।श्र्युकः किती॑ति नेट् ।उदोष्ठपूर्वस्ये॑ति उत्त्वं,रपरत्वम् । इहरदाभ्या॑मिति प्राप्तं नत्वं न । मुर्छाधातोः क्ते आह — राल्लोप इति । छस्य लोप इति भावः । मूर्त इति ।आदितश्चे॑ति नेट् । छलोपेरदाभ्या॑मिति प्राप्तं नत्वं न ।हलि चे॑ति दीर्घः । मत्त इति । 'मदी हर्षग्लेपनयोः' अस्मात् क्तः । 'श्वीदितः' इति नेट् । अत्ररदाभ्या॑मिति प्राप्तं नत्वं न ।

Padamanjari

Up

index: 8.2.57 sutra: न ध्याख्यापॄमूर्छिमदाम्


मूर्त इति । ठादितश्चऽ इतीट्प्रतिषेधः, राल्लोपःऽ इति च्छस्य लोपः । मत इति । ईदित्वादिट्प्रतिषेधः ॥