8-2-80 अदसः असेः दात् उ दः मः पदस्य पूर्वत्र असिद्धम्
अदसोऽसकारान्तस्य वर्णस्य दात् परस्योवर्णादेशो भवति, दकारस्य च मकारः। अमुम्, अमू, अमून्। अमुना, अमूभ्याम्। <<भाव्यमानेनाप्युकारेण सवर्णानां ग्रहणमिष्यते>> इत्येकमात्रिकस्य मात्रिकः, द्विमात्रिकस्य द्विमात्रिक आदेशो भवति। असेरिति किम्? अद इच्छति अदस्यति॥ अदसोऽनोस्र इति वक्तव्यम्॥ ओकाररेफयोरपि प्रतिषेधो यथा स्यादिति। अदोऽत्र। अदः। तदर्थं केचित् सूत्रं वर्णयन्ति — अः सेर्यस्य सोऽयमसिः, यत्र सकारस्याकारः क्रियत इति। तेन त्यदाद्यत्वविधान एतद्, अन्यत्र न भवितव्यमेवेति। अद्र्यादेशे कथम्?
अदसोऽद्रेः पृथङ् मुत्वं केचिदिच्छन्ति लत्ववत्।
केचिद् अन्त्यसदेशस्य नेत्येकेऽसेर्हि दृश्यते॥ इति॥
यैरसेरिति सकारस्य प्रतिषेधः क्रियते, <<अनन्त्यविकारेऽन्त्यसदेशस्य०>>इति च परिभाषा नाश्रीयते, तेषामुभयोरपि मुत्वेन भवितव्यम् — अमुमुयङ्, अमुमुयञ्चौ, अमुमुयञ्च इति, यथा चलीक्ऌप्यत इति लत्वम्। ये तु परिभाषामाश्रयन्ति, तेषामन्त्यसदेशस्यैव भवितव्यम् — अदमुयङ्, अदमुयञ्चौ, अदमुयञ्च इति। येषां तु त्यदाद्यत्वविषय एव मुत्वेन भवितव्यमिति दर्शनम्, तेषामत्र न भवितव्यम् — अदद्र्यङ्, अदद्र्यञ्चौ, अदद्र्यञ्च इति। दादिति किम्? अलोऽन्त्यस्य मा भूत् — अमुया। अमुयोः॥
अदसोऽसान्तस्य दात्परस्य उदूतौ स्तो दस्य च मः । उ इति ह्रस्वदीर्घयोः समाहारद्वन्द्वः । आन्तरतम्याद्ध्रस्वव्यञ्जनयोर्ह्रस्वो दीर्घस्य दीर्घः । अमुमुयङ् । अमुमुयञ्चौ । अमुमुयञ्चः । अमुमुयञ्चम् । अमुमुयञ्चौ । अमुमुईचः । अमुमुईचा । अमुमुयग्भ्यामित्यादि । मुत्वस्याऽसिद्धत्वान्न यण् । [(परिभाषा - ) अन्त्यबाधेऽन्त्यसदेशस्य] इति परिभाषामाश्रित्य परस्यैव मुत्वं वदतां मते अदमुयङ् । अः सेः सकारस्य स्थाने यस्य सोऽसिरिति व्याख्यानात् त्यदाद्यत्वविषय एव मुत्वं नान्यत्रेति पक्षे अदद्यङ् । उक्तं च -अदसोऽद्रेः पृथङ् मुत्वं केचिदिच्छन्ति लत्ववत् । केचिदन्त्यसदेशस्य नेत्येकऽसेर्हि दृश्यते । इति ॥ विष्वद्गेवयोः किम् । अश्वाची । अञ्चतौ किम् । विष्वग्युक् । अप्रत्यये किम् । विष्वगञ्चनम् । अप्रत्ययग्रहणं ज्ञापयति अन्यत्र धातुग्रहणे तदादिविधिरिति । तेनाऽयस्कारः । अतः कृकमि <{SK160}> इति सः । उदङ् । उदञ्चौ । उदञ्चः । शसादावचि ॥
अदसोऽसान्तस्य दात्परस्य उदूतौ स्तो दस्य मश्च। आन्तरतम्याद्ध्रस्वस्य उः, दीर्घस्य ऊः। अमू। जसः शी। गुणः॥
<<अदसोऽसेर्दादु दो मः>> - तदाह — अदसोऽसान्तस्येति । असेः किम् । अदस्यति । दात् किम् । अमुया । अत्रअलोऽन्त्यस्ये॑ति यकारस्य न भवति । ननु उदूताविति कथम्, उ इत्यस्यैव श्रवणादित्यत आह — उ इतीति । उश्च ऊश्च तयोः समाहार इति विग्रहे द्वन्द्वे सति, सुब्लुकि, सवर्णदीर्घेस नपुंसक॑मिति नपुंसकत्वेह्रस्वो नपुंसके प्रातिपदिकस्ये॑ति ह्रस्वत्वे, समाहास्यैकत्वादेकवचननस्य सोःस्वमोर्नपुंसका॑दिति लुकि उ इति रूपमित्यर्थः । आन्तरतम्यादिति । अर्धमात्रस्य व्यञ्जनस्य ईषत्सदृशो मात्रिको ह्रस्व उकारः । ह्रस्वस्य तु मात्रिकस्य मात्रिकत्वसादृश्यादुकारो ह्रस्वः, दीर्घस्य तु द्विमात्रत्वसादृश्याद्द्विमात्र ऊकार इत्यर्थः । अमुमुयङिति । अदद्रच् स् इति स्थितेउगिदचा॑मिति नुमि, हल्ङ्यादिलोपे, चकारस्य संयोगान्तलोपे, नुमो नकारस्यक्विन्प्रत्ययस्य कुः॑ इति कुत्वे, अदद्रङिति स्थिते, प्रथमदकारस्य मत्वे, तदुत्तरस्याऽकारस्य उत्वे, द्वितीयदकारस्य मत्वे, तदुत्तरस्य रेफस्य उत्वे च कृते, अमुमुयङिति रूपमिति भावः । प्रक्रियाक्रमस्तु सूत्रपौर्वापर्यज्ञानवतां सुगमः । अमुमुयञ्चाविति । प्राञ्चावितिवद्रूपम् । उत्वमत्वे पूर्ववत् । अमुमु इ अच् औ इति स्थिते यणिति विशेषः । अमुमुईचेति । अमुमु इ अच् अस् इति स्थितेअन्तरङ्गोऽपि यण् 'अचः' इति लोपविषये न प्रवर्तते॑ इत्युक्तरीत्या अकृते यणि 'अचः' इत्यकारलोपे 'चौ' इतीकारस्यदीर्घ इति भावः । अमुमुयग्भ्यामिति । 'चोः कुः' इति कुत्वमिति विशेषः । इकारे परे मकारादुकारस्य यणमाशङ्क्य आह — मुत्वस्यासिद्धत्वादिति । अमुमुईचे । अमुमुईचः २ । अमुमुईचौः २ । अमुमुयक्षु । मतान्तरमाह — अन्त्यबाधे इति । अलोऽन्त्यपरिभाषाया अप्रवृत्त्या अन्त्यस्य कार्याऽभावे सति अन्त्यसमीपवर्तिनः कार्यं भवतीत्यर्थः । प्रकृते च अदस इति नावयवषष्ठी, किन्तु स्थानषष्ठी । ततश्चअलोऽन्त्यस्ये॑त्युपतिष्ठते । असान्तस्य अदसोऽन्त्यस्य दात्परस्य उत्वं दस्य च म इति फलितम् । अदसश्चान्त्यवर्णः सकारो दात्परो न भवति, अद्रआदेशे कृते तु इकारोऽन्तः, सोऽपि दात्परो न भवति । ततश्च अलोऽन्त्यपरिभाषाया अप्रवृत्त्या अन्त्यस्य आदेशबाधे सति अन्त्यसमीपवर्तिन एव दात्परस्य उत्वं, दस्य च मः, नतु ततः प्राचीनयोरपि दकारतदुत्तरवर्णयोर्मुत्वमित्यर्थः । नन्वेवं सति 'णो नः' इति धात्वादेर्णकारस्य विहितं नत्वं नेता इत्यत्रैव स्यान्नमतीत्यत्र न स्यादिति चेत्, मैवम्-अलोऽन्त्यपरिभाषाया अप्रवृत्त्या अन्त्यसदेशानन्त्यसदेशयोर्युगपत्प्राप्तौ अन्त्यसदेशस्यैव भवतीति परिभाषार्थ इतिष्यङः संप्रसारण॑मिति सूत्रे बाष्ये स्पष्टं प्रपञ्चितत्वात् । यद्यपिष्यङः सम्प्रसारण॑मिति सूत्रे प्रकृतसूत्रे चअनन्त्यविकारे अन्त्यसदेशस्ये॑ति परिभाषा पठिता तथापि सैवाऽत्रार्थतः सङ्गृहीता । अन्त्यस्य विकारः-आदेशः अन्त्यविकारः । अन्त्यविकारस्याऽभावः अनन्त्यविकारः ।अर्थाभावेऽव्ययीभावेन सह नञ्तत्पुरुषो विकल्प्यते॑ इति वक्ष्यमाणत्वात्तत्पुरुषः । अव्ययीभावपक्षे तुतृतीयासप्तम्योर्बहुल॑मित्यम्भावाऽभावः । अलो ।ञन्त्यपरिभाषाया अप्रवृत्त्या अन्त्यस्य आदेशाऽभावे सतीति यावत् । अदमुयङिति । अत्र पूर्वस्य दकारस्य तदुत्तराऽकारस्य च न मुत्वमिति विशेषः । मतान्तरमाह — अः सेः सकारस्येति । सेरित्यस्य विवरणं — सकारस्येति ।असे॑रिति नायं नञ्तत्पुरुषः, किंतु अः सेर्यस्य स-असिः, त्सय असेरिति विग्रहः । सेरिति स्थानषष्ठी, इकार उच्चारणार्थः,सकारस्थानकाऽकारवत इत्यर्थः । अदस्शब्दस्य त्यदाद्यत्वे कृते सकारस्थानकाऽकारवत्त्वम् । अतस्त्यदाद्यत्ववत एवादस्शब्दस्य मुत्वं नान्यस्येति फलितम् । अतोऽद्रआदेशे सति सकारस्थानकाऽकारवत्त्वाऽभावान्न मुत्वमित्यर्थः ।तदिदं पक्षत्रयमपि भाष्यसंमतमित्याह — उक्तं चेति । अदसष्टेरद्रेर्विधौ सति अदद्रचित्यत्र प्रथमद्वितीययोर्दकारयोः पृथङ्मत्वे, तदुत्तरयोः अवर्णरेफयोरुत्वं च युगपदेव । लत्ववत् । चलीकॢप्यते इत्यत्र चरीकृप्यते इति स्थिते रेफऋकारयोर्यथा 'कृपो रो लः' इति लत्वं, तथा केचिदिच्छन्ति । हि-यतोऽसेः सकारस्थानकाकारवत एव मुत्वं दृश्यते=अः सेः यस्येति बहुव्रीहिणा प्रतीयत इति योजना । विष्वग्देवयोः किमिति । विष्वग्देवयोश्चेति किमर्थमित्यर्थः । अआआचीति । अत्र विष्वग्देवयोः सर्वनाम्नश्चाऽभावान्नाद्रआदेश इति भावः । विष्वग्देवयोश्चेति किमर्थमित्यर्थः । अआआचीति । अत्र विष्वग्देवयोः सर्वनाम्नश्चाऽभावान्नाद्यादेश इति भावः । विष्वगञ्चनमिति । अत्र 'अन' इति ल्युडादेशस्य श्रूयमाणतया अञ्चेरप्रत्ययान्तत्वं नेति भावः । ननु उत्तरपदाधिकारादञ्चुरूपे उत्तरपदे इत्यर्थाद्विष्वगञ्चनमित्यत्र आद्रआदेशस्याऽप्रसक्तेः किमप्रत्ययग्रहणेनेत्यत आह — अप्रत्ययग्रहणमिति । तेनेति । अन्यथाअतः कृकमी॑त्यत्र 'नित्यं समासे' इत्यतोऽनुवृत्तसमासग्रहणेन उत्तरपदाक्षेपात्कृधातुरूपे उत्तरपदे इत्यर्थलाभादयस्कृदित्यत्रैव सत्वं स्यात्, अयस्कार इत्यत्र न स्यादित्यर्थः । उदङिति । उत् अञ्चतीति विग्रहे क्विन्नादिरिति भावः ।
ठसेःऽ इति सकारे इकार उच्चारणार्थः । अमूभ्यामिति । अत्र त्यदाद्यत्वे कृते'सुपि च' इति दीर्घत्वम्, तत आन्तरतम्यादाकारस्य ऊकारः । ननु च सूत्रे ह्रस्वो निर्द्दिष्टः, भाव्यमानत्वाच्च सवर्णग्रहणमपि नास्ति, तत्कथमूकारो लभ्यते ? अत आह - भाव्यमानेनापीति । एतच्च'दिव उत्' इति तपरकरणेन ज्ञापितम् । केचिदत्राप्युकारं दपरं पठन्ति - ठुद्दोमःऽ इति, तेषामयमौत्पतिको दकारो मुखसुखार्थः, न पुनरस्तकारस्य जश्त्वम्, तथा हि सति सवर्णग्रहणं न स्यात् । अदपरपाठस्तु भद्रः । अदस्यतीति । ननु च'पदस्य' पति वर्तते, न चेदं पदम्;'नः क्ये' इति नियमात् ? एवं तर्ह्येतदेव ज्ञापयति -पदस्याप्यदस एतन्मुत्वं भवतीति - अमुम्, अमुयेति, अन्यथा यत्र स्वादौ पदं तत्रैव स्याद् - अमुष्यै, अमूभ्यामिति । अनोस्र इति । ओकारसकाररेफा न विद्यन्ते यस्य तस्येत्यर्थः । अदः कुलमिति । विसर्जनीयस्यासिद्धत्वाद्रेफान्तमेतत् । तदर्थमिति । ओकाररेफयोरपि प्रतिषेधार्थम् । अः सेर्यस्येति । कोऽर्थः ? इत्यत्राह - यत्रेति । तेन किं सिद्धं भवति ? इत्याह - तेनेति । कथमद्र।लदेश इति । असमिन्विषये वक्तव्यमस्तीति प्रश्नः, तदाह - अदसोऽद्रेरिति । श्लोकस्य पूर्वार्धं व्याचष्टे - यैरति । तृतीयं पादं व्याचष्टे - ये त्विति । चतुर्थ पादं व्याचष्टे -येषां त्विति । अमुमुयङिति । अदोऽञ्चतीति ठृत्विग्ऽ इत्यादिना क्विन्,'विष्वग्देवयोश्च' इत्यदसष्टेरद्र।लदेशः अदद्र।ल्जिति स्थिते अदः -शब्दस्याद्र।लदेशसम्बन्धिनो दकाररेफयोश्च मुत्वम्, सौ ठुगिदचाम्ऽ इति नुम्, हल्ङ्यादिसंयोगान्तलोपौ,'क्विन्प्रत्ययस्य कुः' इति कुत्वम् - नकारस्य ङ्कारः । अमुया, अमुयोरिति । अत्र यकारस्योत्वप्रसङ्गः ॥