वृद्धिरेचि
6-1-88 वृद्धिः एचि संहितायाम् अचि एकः पूर्वपरयोः आद्
Sampurna sutra
Up
index: 6.1.88
sutra: वृद्धिरेचि
आत् एचि पूर्वपरयोः एकः वृद्धि
Neelesh Sanskrit Brief
Up
index: 6.1.88
sutra: वृद्धिरेचि
अवर्णात् एच्-वर्णे परे संहितायाम् पूर्वपरयोः एकः वृद्धि-एकादेशः भवति ।
Neelesh English Brief
Up
index: 6.1.88
sutra: वृद्धिरेचि
When an अवर्ण is followed by an एच् letter in the context of संहिता, both of them are replaced by a single वृद्धि letter.
Kashika
Up
index: 6.1.88
sutra: वृद्धिरेचि
आतिति वर्तते। अवर्णात् परो य एच्, एचि च पूर्वो यः अवर्णः, तयोः पूर्वपरयोः अवर्णैचोः स्थाने वृद्धिरेकादेशो भवति। आद्गुणस्य अपवादः। ब्रहमैडका। खट्वैडका। ब्रह्मैतिकायनः। खट्वैतिकायनः। ब्रह्मौदनः। खट्वौदनः। ब्रह्मौपगवः। खट्वौपगवः।
Siddhanta Kaumudi
Up
index: 6.1.88
sutra: वृद्धिरेचि
आदेचि परे वृद्धिरेकादेशः स्यात् । गुणापवादः । कृष्णैकत्वम् । गङ्गौघः । देवैश्वर्यम् । कृष्णौत्कण्ठ्यम् ॥
Laghu Siddhanta Kaumudi
Up
index: 6.1.88
sutra: वृद्धिरेचि
आदेचि परे वृद्धिरेकादेशः स्यात्। गुणापवादः। कृष्णैकत्वम्। गङ्गौघः। देवैश्वर्यम्। कृष्णौत्कण्ठ्यम्॥
Neelesh Sanskrit Detailed
Up
index: 6.1.88
sutra: वृद्धिरेचि
अवर्णात् अच्-वर्णे परे आद्गुणः 6.1.87 इति सूत्रेण पूर्वपरयोः गुणैकादेशे प्राप्ते; तद्बाधित्वा अवर्णात् (अकारात् / आकारात्) संहितायाम् एकारः/ऐकारः/ओकारः/औकारः विद्यते चेत् उभयोः वृद्ध्यैकादेशः भवति । 'वृद्धि' इति संज्ञया निर्दिष्टः वर्णः आदेशरूपेण अत्र विधीयते इत्यर्थः ।
अष्टाध्याय्यां वृद्धिरादैच् 1.1.1 इत्यनेन आकार-ऐकार-औकाराणाम् वृद्धिसंज्ञा भवति । एतेषु कः वर्णः आदेशरूपेण विधीयेत — इति प्रश्ने जाते, स्थानेऽन्तरतमः 1.1.50 इत्यस्याः परिभाषायाः आश्रयः स्वीक्रियते । अनया परिभाषया एतत् ज्ञाप्यते, यत् स्थानेन यः वर्णः सदृशतमः, तस्य आदेशरूपेण विधानम् भवति ।
वर्णानाम् उच्चारणस्थानानि एतादृशानि — अवर्णस्य कण्ठः । एकारस्य ऐकारस्य च कण्ठतालु । ओकारस्य औकारस्य च कण्ठोष्ठम् ॥
उदाहरणानि एतानि —
1. अवर्णात् एकारे, ऐकारे वा परे उभयोः एकादेशः ऐकारः विधीयते । अवर्णस्य उच्चारणस्थानम् कण्ठः, एकारस्य ऐकारस्य च उच्चारणस्थानम् कण्ठतालु - इति स्थानेन आन्तरतम्यम् सिद्ध्यति। यथा —
कृष्णस्य एकत्वम् → कृष्ण + एकत्वम् → कृष्णैकत्वम् ।
ललितायाः एकत्वम् → ललिता + एकत्वम् → ललितैकत्वम् ।
देवस्य ऐश्वर्यम् → देव + ऐश्वर्यम् → देवैश्वर्यम् ।
ललितायाः ऐश्वर्यम् → ललिता + ऐश्वर्यम् → ललितैश्वर्यम् ।
2. अवर्णात् ओकारे, औकारे वा परे उभयोः एकादेशः औकारः विधीयते । अवर्णस्य उच्चारणस्थानम् कण्ठः, ओकारस्य औकारस्य च उच्चारणस्थानम् कण्ठोष्ठम् - इति स्थानेन आन्तरतम्यम् सिद्ध्यति । यथा —
जलस्य ओघः → जल + ओघः → जलौघः ।
गङ्गायाः ओघः → गङ्गा + ओघः → गङ्गौघः ।
कृष्णस्य औचित्यम् → कृष्ण + औचित्यम् → तवौचित्यम् ।
गङ्गायाः औचित्यम् → गङ्गा + औचित्यम् → गङ्गौचित्यम् ।
_वृद्धिरेचि_ 6.1.88 सूत्रेण केवलम् ऐकारादेशः औकारादेशः वा भवति, आर्-आदेशः कदापि न विधीयते । अकारात् / आकारात् ऋवर्णे परे _आद्गुणः_ 6.1.87 इत्यस्य अपवादत्वेन _वृद्धिरेचि_ 6.1.88 इति सूत्रम् नैव प्रवर्तते इत्याशयः ।
##Balamanorama
---
index: 6.1.88
sutra: वृद्धिरेचि
---
_वृद्धिरेचि_ - वृद्धिरेचि । आद्गुण इत्यत आदिति पञ्चम्यन्तमनुवर्तते । एकऋ पूर्वपरयोरित्यधिकृतम् । तदाह — आदेचीत्यादिना । गुणापवाद इति । आद्गुण इति प्राप्तावेतदारम्भादिति भावः । कृष्णैकत्वमिति । कृष्णस्य-एकत्वमिति षष्ठीसमासः ।पूरणगणे॑ति निषेधस्त्वनित्य इति तत्रैव मूले वक्ष्यते । कृष्णेति सम्बुद्ध्यन्तं पृथक्पदमित्यन्ये । अत्र अकारस्य एकारस्य च कण्ठतालुस्थानकस्य स्थाने तथाविध ऐकार एकादेशः । गङ्गा-ओघ इति स्थिते आकारस्य ओकारस्य च कण्ठोष्ठस्थानकस्य स्थाने तथाविध औकारः । एवं देवैआर्यं कृष्णौत्कण्ठमित्यत्रापि । वस्तुतस्तु सङ्ख्यादिशब्दा न गुणवचना इति त्रैव वक्ष्यामः ।