ओदितश्च

8-2-45 ओदितः च पदस्य पूर्वत्र असिद्धम् निष्ठातः नः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ओकारेतो धातोरुत्तरस्य निष्ठातकारस्य नकारादेशो भवति। ओलस्जी — लग्नः। लग्नवान्। ओविजी — उद्विग्नः। उद्विग्नवान्। <<ओप्यायी वृद्धौ>> — आपीनः। आपीनवान्। <<स्वादय ओदितः>>। षूङ् — सूनः। सूनवान्। दूङ् — दूनः। दूनवान्। दीङ् — दीनः। दीनवान्। डीङ् — डीनः। डीनवान्। धीङ् — धीनः। धीनवान्। मीङ् — मीनः। मीनवान्। रीङ् — रीणः। रीणवान्। लीङ् — लीनः। लीनवान्। व्रीङ् — व्रीणः। व्रीणवान्॥

Siddhanta Kaumudi

Up

भुजो । भुग्नः । टुओश्वि । उच्छूनः । ओहाक् । प्रहीणः । (गणसूत्रम् -) स्वादय ओदितः इत्युक्तम् । सूनः । सूनवान् । दूनः । दूनवान् । ओदिन्मध्ये डीङ पाठमर्थ्यान्नेट् । उड्डीनः ॥

Laghu Siddhanta Kaumudi

Up

भुजो भुग्नः। टुओश्वि, उच्छूनः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ओदितश्च>> - ओदितश्च । ओकारेतो धातोः परस्य निष्ठातस्य नत्वमित्यर्थः । भुग्न इति । नत्वस्याऽसिद्धत्वाज्जस्य पूर्वं कुत्वम् । ततो नत्वम् । उच्छून इति । उत्पूर्वात् 'टु ओ इआ' इति धातोः क्तः, यजादित्वात्संप्रसारणम्, पूर्वरूपम्, 'श्वीदितः' इति नेट्, 'हल' इति दीर्घः, निष्ठानत्वम् । प्रहीण इति ।घुमास्थे॑तीत्त्वं, नत्वं, 'कृत्यचः' इति णत्वम् । स्वादय इति । 'षूङ् प्राणिप्रसवे' इत्याद्या नव धातव ओदित इति दिवादिगणे उक्तमित्यर्थः । सून इति । षूङः क्तः, नत्वं ।श्र्युकः किती॑तीण्निषेधः । दून इति । 'दूङ् परितापे' अस्मात् क्तः, स्वादित्वेन ओदित्त्वान्नत्वम् । ननु 'डीङ् विहायसा गतौ' इत्यस्य उड्डीन इति कथं रूपं, सेट्कत्वादुगन्तत्वाऽभावेनश्र्युकः किती॑ति निषेधस्याऽप्रवृत्तेरित्यत आह — ओदन्मध्ये डीङः पाठसामर्थ्यान्नेडिति । इटि सति निष्ठातस्य ओदितो डीङः परत्वाऽभावान्नत्वाऽप्रसक्तेस्तस्य ओदित्सु पाठो व्यर्थः स्यादित्यर्थः ।

Padamanjari

Up

आपीन इति ।'प्यायः पी' इति पीभावः । स्वादयः'षूङ् माणिप्रसवे' इत्यादयः'ब्रीङ् वृणोत्यर्थे' इत्येवमन्ता दिवादौ पठ।ल्न्ते ॥