ओदितश्च

8-2-45 ओदितः च पदस्य पूर्वत्र असिद्धम् निष्ठातः नः

Kashika

Up

index: 8.2.45 sutra: ओदितश्च


ओकारेतो धातोरुत्तरस्य निष्ठातकारस्य नकारादेशो भवति। ओलस्जी लग्नः। लग्नवान्। ओविजी उद्विग्नः। उद्विग्नवान्। ओप्यायी वृद्धौ आपीनः। आपीनवान्। स्वादय ओदितः। षूङ् सूनः। सूनवान्। दूङ् दूनः। दूनवान्। दीङ् दीनः। दीनवान्। डीङ् डीनः। डीनवान्। धीङ् धीनः। धीनवान्। मीङ् मीनः। मीनवान्। रीङ् रीणः। रीणवान्। लीङ् लीनः। लीनवान्। व्रीङ् व्रीणः। व्रीणवान्।

Siddhanta Kaumudi

Up

index: 8.2.45 sutra: ओदितश्च


भुजो । भुग्नः । टुओश्वि । उच्छूनः । ओहाक् । प्रहीणः । (गणसूत्रम् -) स्वादय ओदितः इत्युक्तम् । सूनः । सूनवान् । दूनः । दूनवान् । ओदिन्मध्ये डीङ पाठमर्थ्यान्नेट् । उड्डीनः ॥

Laghu Siddhanta Kaumudi

Up

index: 8.2.45 sutra: ओदितश्च


भुजो भुग्नः। टुओश्वि, उच्छूनः॥

Balamanorama

Up

index: 8.2.45 sutra: ओदितश्च


ओदितश्च - ओदितश्च । ओकारेतो धातोः परस्य निष्ठातस्य नत्वमित्यर्थः । भुग्न इति । नत्वस्याऽसिद्धत्वाज्जस्य पूर्वं कुत्वम् । ततो नत्वम् । उच्छून इति । उत्पूर्वात् 'टु ओ इआ' इति धातोः क्तः, यजादित्वात्संप्रसारणम्, पूर्वरूपम्, 'श्वीदितः' इति नेट्, 'हल' इति दीर्घः, निष्ठानत्वम् । प्रहीण इति ।घुमास्थे॑तीत्त्वं, नत्वं, 'कृत्यचः' इति णत्वम् । स्वादय इति । 'षूङ् प्राणिप्रसवे' इत्याद्या नव धातव ओदित इति दिवादिगणे उक्तमित्यर्थः । सून इति । षूङः क्तः, नत्वं ।श्र्युकः किती॑तीण्निषेधः । दून इति । 'दूङ् परितापे' अस्मात् क्तः, स्वादित्वेन ओदित्त्वान्नत्वम् । ननु 'डीङ् विहायसा गतौ' इत्यस्य उड्डीन इति कथं रूपं, सेट्कत्वादुगन्तत्वाऽभावेनश्र्युकः किती॑ति निषेधस्याऽप्रवृत्तेरित्यत आह — ओदन्मध्ये डीङः पाठसामर्थ्यान्नेडिति । इटि सति निष्ठातस्य ओदितो डीङः परत्वाऽभावान्नत्वाऽप्रसक्तेस्तस्य ओदित्सु पाठो व्यर्थः स्यादित्यर्थः ।

Padamanjari

Up

index: 8.2.45 sutra: ओदितश्च


आपीन इति ।'प्यायः पी' इति पीभावः । स्वादयः'षूङ् माणिप्रसवे' इत्यादयः'ब्रीङ् वृणोत्यर्थे' इत्येवमन्ता दिवादौ पठ।ल्न्ते ॥